मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 225, कुल 804 में से
संदर्भ में पढ़ें२९ ] प्रथमाध्याये द्वितीयपादः १७३ त० वा०-अस्मत्पक्षेऽर्थोऽस्ति स्तुत्यालम्बनमन्नकरणत्वं नाम, वाक्यशेषो हि भवन्पारतन्त्र्याद् गौणत्वादपि प्रतिपद्यते । तदा च विधेयान्तरवशादवश्य- मनुवादेन भवितव्यमनुवादश्च यथाविज्ञातस्य भवति । अतः शब्देनैवाभ्यनुज्ञातं यादृशं वयमन्नकरणत्वं शूर्पे पश्यामः, तादृशमिदं संकीर्त्यत इति । अनेन वर्त- मानापदेशो व्याख्यातः । तत्रापि हि कृतं वा करिष्यमाणं वा स्तोतुं क्रियत इत्युच्यते । कथं स्तुतिः ? सर्वलोकस्य भूतभविष्यदनादरेण वर्तमानोपकारा- नुरागाद्वर्त्तमानालोचनेनैव च कालान्तरेऽपि तत्र प्रीतिरिति क्रियत एवाऽनेनान्न- मित्यच्यते । अथ वाऽन्नक्रियाशक्तेर्वर्तमानतान्नक्रियायामेवोपचर्य स्तोति । तत्रापि जनानां शक्त्यतिक्रमेणाभिव्यक्तिप्रियत्वात्क्रियत इत्युक्ते स्तुतिर्भवति । ' न शक्त्यभिधा- नात् । तव तु विधिवादत्वान्मुख्यस्यान्नकरणत्व-वर्तमानत्वयोर्ग्रहणे दोषः किं कारणम् ? विधानं ह्यत्यन्तानवगतार्थविषयम् । तत्र यथाश्रुतादन्यथाग्रहणं निष्प्रमाणकम् । एतदेवाऽऽह-विधौ हि न परशब्दार्थः प्रतीयत । परशब्दार्थो हि लक्षणासु प्रयोजनम् । तदिह भूतभविष्यत्क्रियावाचिनः, शक्तिवर्तमानतावाचिनो वा स्वार्थे वर्तमानान्नक्रियावाची शब्दः कल्पनीयः । तन्निमित्तमात्रे शब्दार्थे साधकतमत्ववाचिनी तृतीया । नचैवंभूतत्वं कुतश्चित्सिद्धमित्यप्रमाणकम् । अथ मुख्यार्थपरिग्रहः । तत्रोच्यते । न च वर्तमानं साधकतमं वोपदिशन्वेदः शक्यमर्थं विदध्यात् । न हि वर्तमानान्नक्रियेण शूर्पादिना साधकतमेन वा पाकेन होतुं शक्यते । तस्मादुभयथाऽपि विप्रतिषिद्धम् । अस्मत्पक्षे त्वनुवादत्वात्परशब्दार्थग्रहणम् । तथा लोके बलवान्देवदत्त इति भूम्यतिशयने वा मतुप्प्रवृत्तिः । न च विशेष उपात्तोऽमुष्मात्प्रकृष्टबल इति । तत्र सर्वसत्त्वेभ्यः प्रकर्षे मुख्यः शब्दो न च तथा संभवति सिंहादीनां बलवत्तर- त्वादिति देवदत्तान्यूनतरबलानपेक्ष्यैवमभिधीयते । तथाऽन्न विप्रकृष्टतरान्नसाधन- लाङ्गलाद्यपेक्षया शूर्प साधकतममित्युच्यते । नन्वेवमापेक्षिकप्रवृत्तेर्मुख्यत्वमेव स्यात्, तथा च देवदत्ते बलवच्छब्दप्रवृत्तिं नैव गौणीं मन्यते । सत्यमेवम्, यदा तावन्न्यूनमात्रापेक्षयैव प्रयुज्यते, यदा त्ववि- शेषप्रवृत्तेस्तदधिकबलेष्वपि बलवद्बुद्धिर्जता तदा स एव शब्दः कुतश्चिदपि न्यूनबले वर्तमानो गौणः संपद्यते । तथा यदि विध्युद्देशोपात्ते शूर्पेऽन्नकरणत्व- मनूद्यते । ततस्तन्न्यूनमात्रापेक्षया वा मुख्यत्वं न्यूनानुपादानाद्वा सामान्यतः प्रवृत्तस्य सर्वप्रकृष्टगामित्वबुद्धौ सत्यां गौणता । भवतस्त्वपूर्वविधानादत्यन्तसाधक- तमत्व-वर्तमानत्वयोः क्रियां प्रत्युपादानान्न्यूनापेक्षागौणत्वयोर्निमित्तं नास्ती- त्यतिकिलेशः स्यादित्यसमानम् ॥ २९ ॥