भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 226, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 226

१७४ मीमांसादर्शनम् [ सू० न्या० सु०-अर्थशब्दव्याख्यानार्थमस्मत्पक्ष इति भाष्यं व्याचष्टे-अस्मत्पक्ष इति । विधिशेषत्वादितिसूत्रावयवव्याख्यानार्थं वाक्येति भाष्यं व्याचष्टे-वाक्येति । सत्यपि विधिशेषत्वे कथमर्थवत्तेत्याशङ्कानिराकरणार्थं सम्वादश्चेति भाष्यं व्याचष्टे-तथा चेति । वर्त्तमानाङ्गक्रियत्वाभिधानोपपादनार्थं तदा चेति भाष्यं व्याचष्टे-अनेनेति । करोतेरेति शक्तिलक्षणार्थत्वमनेन भाष्येण वर्त्तमानमितीतिकरणेन अक्रियं वा स्तोतुं सत् क्रियमित्युपदि- शन्तीत्यपि सूचनाद्दर्शितं भवतीति व्याख्यातुमाह-अथ वेति । अनेन चैवं भाष्यं व्या- ख्यातम्, कृतं करिष्यमाणं वा स्तोतुं क्रियतइति वर्त्तमानशक्तिकं वा स्तोतुं क्रियत इत्यु- पदिशतीति । 'अर्थस्तु विधिशेषत्वादित्यस्य' व्यतिरेकप्रदर्शनार्थं त्वत्पक्ष इति भाष्यं व्याचष्टे-तव त्विति । वर्त्तमानशब्देन क्रियामप्युपलक्ष्येति दोषापादनार्थं विधौ हीति भाष्यं प्रश्नपूर्वकं व्याचष्टे-किं कारणमिति । परशब्दार्थः प्रतीयतइत्यनेन वाच्यतया प्रतीतिरुक्तेति, कथंचिद् भ्रान्तिः स्यात् तच्च जहत्स्वार्थतापत्तेरयुक्तमिति प्रयोजनपदप्रक्षे- पेणोक्तार्थे योजयति-एतदिति । प्रयोजनपदप्रक्षेपे कारणमाह-परेति । न तु वाच्ये इति शेषः । कस्य शब्दस्यार्थे कः शब्दोऽत्र कल्प्यत इत्यपेक्षायामाह-तद्विहेति । भूत- वाचिनोऽकारीति लूडः, भविष्यद्वाचिनो वा करिष्यतइति लुटश्चार्थे वर्त्तमानवाची शब्दः क्रियते इति लट् प्रत्ययः कल्पनीयः । शक्तिवर्त्तमानतावाचिनो वा शक्यत इति शक्नोति स्वार्थे क्रियावाचो शब्दः क्रियत इति करोति धातुः कल्पनीय इत्यर्थः । न चेति भाष्यं शङ्कापूर्वकं व्याचष्टे - अथेति । सक्रियमित्यत्यत्र द्रष्टव्यम् । अशक्या- र्थत्वमेव दर्शयति-न हीति । तत्र तु विधिवादित्वादित्यारभ्य द्वितीयपूर्वपक्षदूषणमुक्तम् । तदुपसंहरति-तस्मादिति । उभयथेति । लाक्षणिकत्वे, मुख्यत्वे च विधिवादिनः क्रियत इति विप्रतिषिद्धमित्यर्थः । दृष्टान्तव्याख्यानार्थमस्मत्पक्ष इति भाष्यं व्याचष्टे-अस्मत्पक्षे त्विति । सत्यप्यन्यस्मिन्प्रकृष्टबले देवदत्तस्यापि बलसद्भावात्कथं गौणतेत्याशङ्कय भूम्यति- शायने वेत्युक्तम्-स्मरन्ति हि । 'संयोगेऽस्तिविवक्षायां नित्ययोगेऽतिशायने । भूमिनिन्दाप्रशंसासु भवन्ति मतुवादयः ॥ इति इह च यज्ञदत्तादीन्प्रसहत इति वाक्यशेषाद् भूम्यतिशायने चेति ज्ञायते, दृष्टान्त- दाष्ट्रान्तिकयोरपेक्षिकातिशयसद्भावान्मुख्यत्वं शङ्कते -- नन्वेवमिति । नानेन भाष्येण निकृष्टमात्रापेक्षया प्रयोगे गौणत्वमुक्तम्, किं तु सर्वापेक्षयोगे निकृष्टमात्रापेक्षया प्रयोग- विषयस्य मुख्यस्यातिशयस्योपचारार्थमुपन्यास इति परिहरति-सत्यमिति । मुख्यत्वं चात्र सम्भवमात्रेणोच्यते, न प्रकृतोपयोगितया, परशब्दार्थग्रहणमित्युपक्रमात् । वर्त्तमान- क्रियत्वस्य गौणत्वे देवदत्तः पचति, योऽधुना भुङ्क्त इति दृष्टान्तो दातव्यः । विधिपक्षेऽपि तद्यपेक्षिकं मुख्यमेव साधकतमं भविष्यतीत्याशङ्कयाह-भवतस्त्विति । वर्त्तमानक्रियत्व- गौणत्वयोर्दृष्टान्तत्वेनात्रोपादानम् । यथा वर्त्तमानक्रियत्वोपादानवत्सर्वापेक्षसाधकतमत्वस्य