भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

१७४ मीमांसादर्शनम् [ सू० न्या० सु०-अर्थशब्दव्याख्यानार्थमस्मत्पक्ष इति भाष्यं व्याचष्टे-अस्मत्पक्ष इति । विधिशेषत्वादितिसूत्रावयवव्याख्यानार्थं वाक्येति भाष्यं व्याचष्टे-वाक्येति । सत्यपि विधिशेषत्वे कथमर्थवत्तेत्याशङ्कानिराकरणार्थं सम्वादश्चेति भाष्यं व्याचष्टे-तथा चेति । वर्त्तमानाङ्गक्रियत्वाभिधानोपपादनार्थं तदा चेति भाष्यं व्याचष्टे-अनेनेति । करोतेरेति शक्तिलक्षणार्थत्वमनेन भाष्येण वर्त्तमानमितीतिकरणेन अक्रियं वा स्तोतुं सत् क्रियमित्युपदि- शन्तीत्यपि सूचनाद्दर्शितं भवतीति व्याख्यातुमाह-अथ वेति । अनेन चैवं भाष्यं व्या- ख्यातम्, कृतं करिष्यमाणं वा स्तोतुं क्रियतइति वर्त्तमानशक्तिकं वा स्तोतुं क्रियत इत्यु- पदिशतीति । 'अर्थस्तु विधिशेषत्वादित्यस्य' व्यतिरेकप्रदर्शनार्थं त्वत्पक्ष इति भाष्यं व्याचष्टे-तव त्विति । वर्त्तमानशब्देन क्रियामप्युपलक्ष्येति दोषापादनार्थं विधौ हीति भाष्यं प्रश्नपूर्वकं व्याचष्टे-किं कारणमिति । परशब्दार्थः प्रतीयतइत्यनेन वाच्यतया प्रतीतिरुक्तेति, कथंचिद् भ्रान्तिः स्यात् तच्च जहत्स्वार्थतापत्तेरयुक्तमिति प्रयोजनपदप्रक्षे- पेणोक्तार्थे योजयति-एतदिति । प्रयोजनपदप्रक्षेपे कारणमाह-परेति । न तु वाच्ये इति शेषः । कस्य शब्दस्यार्थे कः शब्दोऽत्र कल्प्यत इत्यपेक्षायामाह-तद्विहेति । भूत- वाचिनोऽकारीति लूडः, भविष्यद्वाचिनो वा करिष्यतइति लुटश्चार्थे वर्त्तमानवाची शब्दः क्रियते इति लट् प्रत्ययः कल्पनीयः । शक्तिवर्त्तमानतावाचिनो वा शक्यत इति शक्नोति स्वार्थे क्रियावाचो शब्दः क्रियत इति करोति धातुः कल्पनीय इत्यर्थः । न चेति भाष्यं शङ्कापूर्वकं व्याचष्टे - अथेति । सक्रियमित्यत्यत्र द्रष्टव्यम् । अशक्या- र्थत्वमेव दर्शयति-न हीति । तत्र तु विधिवादित्वादित्यारभ्य द्वितीयपूर्वपक्षदूषणमुक्तम् । तदुपसंहरति-तस्मादिति । उभयथेति । लाक्षणिकत्वे, मुख्यत्वे च विधिवादिनः क्रियत इति विप्रतिषिद्धमित्यर्थः । दृष्टान्तव्याख्यानार्थमस्मत्पक्ष इति भाष्यं व्याचष्टे-अस्मत्पक्षे त्विति । सत्यप्यन्यस्मिन्प्रकृष्टबले देवदत्तस्यापि बलसद्भावात्कथं गौणतेत्याशङ्कय भूम्यति- शायने वेत्युक्तम्-स्मरन्ति हि । 'संयोगेऽस्तिविवक्षायां नित्ययोगेऽतिशायने । भूमिनिन्दाप्रशंसासु भवन्ति मतुवादयः ॥ इति इह च यज्ञदत्तादीन्प्रसहत इति वाक्यशेषाद् भूम्यतिशायने चेति ज्ञायते, दृष्टान्त- दाष्ट्रान्तिकयोरपेक्षिकातिशयसद्भावान्मुख्यत्वं शङ्कते -- नन्वेवमिति । नानेन भाष्येण निकृष्टमात्रापेक्षया प्रयोगे गौणत्वमुक्तम्, किं तु सर्वापेक्षयोगे निकृष्टमात्रापेक्षया प्रयोग- विषयस्य मुख्यस्यातिशयस्योपचारार्थमुपन्यास इति परिहरति-सत्यमिति । मुख्यत्वं चात्र सम्भवमात्रेणोच्यते, न प्रकृतोपयोगितया, परशब्दार्थग्रहणमित्युपक्रमात् । वर्त्तमान- क्रियत्वस्य गौणत्वे देवदत्तः पचति, योऽधुना भुङ्क्त इति दृष्टान्तो दातव्यः । विधिपक्षेऽपि तद्यपेक्षिकं मुख्यमेव साधकतमं भविष्यतीत्याशङ्कयाह-भवतस्त्विति । वर्त्तमानक्रियत्व- गौणत्वयोर्दृष्टान्तत्वेनात्रोपादानम् । यथा वर्त्तमानक्रियत्वोपादानवत्सर्वापेक्षसाधकतमत्वस्य

३० ] प्रथमाध्याये द्वितीयपादः १७५ क्रियां प्रत्युपादानात्, तस्य च यथा वर्त्तमानक्रियत्वस्य गौणत्वे निमित्तं नास्ति, तथा साधकतमस्य न्यूनापेक्षायां निमित्तं नास्तीत्यर्थः ॥ २९ ॥ भा० प्र०—पूर्वपक्षी ने शङ्का की है कि शूर्प में अन्नसाधनता न रहने पर उसकी स्तुति अनुचित है । इसके समाधान में सिद्धान्ती का कहना है कि शूर्प के द्वारा होम की कर्त्तव्यता श्रुति में उक्त होने पर "तेन हि अन्नं क्रियते" इस प्रकार उपदिष्ट होता है । हल आदि वस्तुओं में अन्न की साधनता नहीं है, सभी द्रव्यों से अन्न की निष्पत्ति नहीं हो सकती है, अतः इन द्रव्यों की अपेक्षा शूर्प की अन्न के प्रति साधनता होने से विहित शूर्प की स्तुति की जाती है । शूर्प से अतिरिक्त किसी वस्तु में अन्न की साधनता है या नहीं—यह विचार निष्प्रयोजन है । राम बलवान है—यह कहने पर श्याम, कृष्ण आदि की अपेक्षा ही उसकी बलवत्ता प्रतीत होती है, व्याघ्र, सिंह आदि की अपेक्षा उसकी बलवत्ता सिद्ध नहीं होती है । 'अर्थः' = सफल, 'तु' = किन्तु, "विधिशेषत्वात्" = विधि का शेष या अङ्ग होने से, "यथा लोके" = जैसे संसार में लौकिक दृष्टान्त में । लौकिक दृष्टान्त में देवदत्त आदि को बलवान् कहने पर उसके सजातीय कम बल रखने वाले यज्ञदत्त आदि की अपेक्षा ही उसकी वलवत्ता की प्रतीति होती है । प्रकृत में भी जो द्रव्य अन्न में साधन नहीं है उनकी तुलना में शूर्प को अन्न का साधन कहा गया है । अतः शूर्प की स्तुति विधि का शेष या अङ्ग है, यह कथन असङ्गत है ॥ २९ ॥ यदि च हेतुरवतिष्ठेत निर्देशात्सामान्यादिति चेदव्यवस्था विधीनां स्यात् ॥ १.२.३० ॥ शा० भा०—यद्यपि च भवेदन्नकरणं हेतुर्दवपिठरप्रकाराणाम्, तथाऽपि शूर्प एवावतिष्ठेत । शब्दादन्नकरणं हेतुरिति विज्ञायते । शब्दश्च शूर्पस्याऽऽह, न दर्वि- पिठरादीनाम् । तद्धि निर्दिश्यते, यस्माच्छूर्पेणान्नं क्रियते, तस्माच्छूर्पेण जुहो- तीति । यथा यस्माद्द्बलवदुपध्मातोऽग्नस्तेन मे गृहं दग्धमिति, नानग्निरपि बलवदुपध्मातो दहतीति गम्यते । अथ मतम्, येन येनान्नं क्रियते प्रणाड्या शूर्पा- दन्येनापि, तेन तेनापि होमः क्रियत इति । अव्यवस्था विधीनां स्यान्न केनचित् । प्रणाड्याऽन्नं क्रियते । तत्र यावदुक्तं स्याज्जुहोतीति, तावदेवान्नकरणेन जुहोतीति । अस्मत्पक्षे पुन. शूर्पं स्तूयते । तेन ह्यन्नं क्रियत इति वृत्तान्तान्वाख्यानं न च वृत्तान्तज्ञापनाय, किं तर्हि, परोचनायैव । तस्माद्धेतुवन्निगदस्यापि स्तुतिरेव कार्यमिति ॥ ३० ॥ इति तृतीयं हेतुवन्निगदाधिकरणम्

१७६ मीमांसादर्शनम् [ सू० भा० वि०—अभ्युपगम्यापि हेतुपरत्वं न दर्व्यादौ प्रसङ्ग इत्याह—यदि च हेतुरिति । यदि चेत्यादिसूत्रभागं व्याचष्टे—यद्यपि चेति । दर्वीपिठरप्रकाराणां दर्वीपिठरजातीयानामन्नकरणत्वं हेतुः यद्यपि भवेत्, तथापि स हेतुः शूर्प एव व्यवतिष्ठेतेत्यन्वयः, दर्वीपिठरप्रकाराणामित्यनेनात्यन्तसाधकतमत्वाभावेऽपि दर्व्यादिसाधारणं साधकतमत्वरूपं करणत्वं शूर्पस्य दर्शितम् । ननु कथं शूर्पगतमेवान्नकरणत्वं हेतुः स्यादित्याशङ्कयानिर्देशादिति सूत्रमात्रं व्याचष्टे—शब्दादिति । नत्वकरणत्वसत्तामात्रेणेत्यर्थः, हेतोः शब्दनिर्दिष्टत्वे सत्यपि कथं व्यवस्थेत्यत आह—शब्दवृत्तेरिति । शूर्पगतस्यान्नकरणत्वस्यैव हेतुत्व- माहेत्यर्थः, कथमिदमवगम्यते ? तत्राह—तद्धीति । शूर्पं हि होमसम्बन्धितया निर्दिश्यते=प्रतिज्ञायत इत्यर्थः । अन्यस्मिंश्च प्रतिज्ञातेऽन्यगतस्य हेतुत्वायोगात् शूर्पगतमेवान्नकरणत्वं हेतुरिति भावः तत्र सिद्धं वाक्यार्थमाह—यस्मादिति । शूर्पेण जुहोतीति इति तेन वाक्यार्थस्सिद्धो भवतीति शेषः । ननु यस्माद्धूमवान् पर्वतः तस्मादग्निमानित्यादौ यथा न पर्वतगतत्वं विशेष- णमादाय हेतुत्वम्, तद्वदिह किं न स्यादित्याशङ्क्य नेदं सामान्यतो दृष्टं किंतु विशेषतो दृष्टमत उदाहरति—यथेति । नह्यत्र बलवदुपाध्मातत्वमात्रं गृहदाह- कत्वे हेतुः शङ्खादेरपि प्रसङ्गात् तेनाग्निगतत्वेन विशेषितं तद्वदत्रापि इति भावः, “सामान्यादिति चेत्” इति सूत्रावयवं व्याचष्टे—अन्येनापीति । अन्येन दर्व्यादिनेत्यर्थः, तेनेति तृतीया सर्वनामार्थस्य शूर्पस्य बाधादन्नकरणत्व- मात्रं हेतुः स्यादिति शङ्कार्थः । सूत्रशेषेणोत्तरमाह—अव्यवस्थेति । तथा सतीति- शेषः, अतिप्रसङ्गं विवृणोति—न केनचिदिति । सर्वेणापि यथाकथञ्चित् क्रियत इत्यर्थः, तत्र च विधिवैयर्थ्यमित्याह—तत्रेति । जुहोतीत्युक्तेऽपि येन केनचिद्धो- तव्यमिति तावत् प्रतीयते अन्नकरणेनेत्युक्तेऽपि सर्वस्यान्नकरणत्वात् सर्वेण च होतुमशक्यत्वाद्येन केनचिदित्येव प्रतीयते, ततो विधिरनर्थकः स्यादिति प्रत्यय- स्यैव बाधः, तस्माद्धेतुत्वाभ्युपगमेऽपि शूर्पगतमेवान्नकरणत्वं हेतुरिति भावः, एवमभ्युपगम्यापि हेतुत्वं व्यवस्था मुक्त्वाभ्युपगमं त्यजन् स्वपक्षे हेत्वनभिधानाद्धि शब्दानुपपत्तिमाशङ्क्य परिहति—अस्मत्पक्ष इति । प्रसिद्धान्नकरणत्वाभिधानेन स्तुत्यर्थो हिशब्द इत्यर्थः । ननु कथमस्य स्तुतिपरत्वम् ? वृत्तान्तपरत्वप्रतीतेरत आह—वृत्तान्तेति । वृत्तान्तस्य मानान्तरसिद्धतया तज्ज्ञानेऽनुपयोगात् स्तुतिपरत्वमेव वाक्यस्यावग- म्यते इत्यर्थः, तस्मद्धिवन्निगदानामिवैषामपि स्तुतिपरत्वमेवेत्यधिकरणार्थ- मुपसंहरति—तस्मादिति । शूर्पस्यापि मुख्यकरणत्वाभावात् विधौ च लक्षणा- योगात् हेतुत्वानुपपत्तेरिति । इतरधिकरणसमाप्तिं द्योतयति ॥ ३० ॥

पादानात्सामान्याप्रसिद्धेश्च तत्परित्यागनिमित्तस्यासम्भवादुपात्तविशेषमात्रोप-

३० ] प्रथमाध्याये द्वितीयपादः १७७ त० वा० — अभ्युपेत्यवादोऽयम् ! यद्यपि हेतुविधानम्, तथाऽपि न दर्विपिठ- रादेः प्रसङ्गः । कुतः ? शूर्पं हि विधायाऽन्नकरणं हेतुरुच्यते । सोऽपि च न लोके प्रसिद्धः । शब्दमेव दृष्टान्तवाचिनमनुमाय साधयितव्यः । तदनुमाने च श्रुतहेतु- त्वान्यथानुपपत्तिः प्रमाणम्, सा च यावत्येव हेतुत्वमुपपन्नम्, ततोऽधिककल्पनायै न प्रभवति । शूर्पे च होमसम्बन्धित्वेन प्रतिज्ञातेऽन्यधर्मस्याहेतुत्वादवश्यं तद्- गतमेवान्नकरणत्वं वक्तव्यम् । सन्निधेश्च तदवच्छिन्नमेव तद्गम्यते । लोकेऽपि च यं धर्मिणं प्रतिज्ञाय, यो हेतुरुपदिश्यते, स प्रथमं तावत्तद्गतविशेषात्मनैव प्रतीयते । तदात्मकस्य तु साध्यांशानुगमाभावात्सामान्यमात्रं विवक्षितमिति, दृष्टान्तप्रयोगवेलायामेवावधार्यते । वेदहेतूनां पुनर्न सामान्यात्मना साध्यसम्ब- न्धोऽवगतः, न विशेषात्मना । सोऽधुनैवार्थापत्त्या कल्पनीयः । तत्र विशेषस्यो- पादानात्सामान्याप्रसिद्धेश्च तत्परित्यागनिमित्तस्यासम्भवादुपात्तविशेषमात्रोप- संहृतान्यथानुपपत्तिस्तद्गतमेव दृष्टान्तवचनं कल्पयति । तदकल्पने हि हेतु- निर्देशः श्रुतो विरुध्यते । यदि तु दर्विपिठरादिगतान्नकरणत्वहोमसम्बन्धाविना- भावो न कल्प्यते । न किंचिच्छ्रुतम्, दृष्टं वा नावकल्पते । तस्मादीदृशं दृष्टान्त- वचनं कल्प्यं यच्छूर्पमन्नकरणम्, तेन तेन जुहोतीति । तदेतद्विशेषदृष्टमनुमानम् । लोकेऽपि तृणधूमदर्शनात्तृणाग्निरेवानुमीयते, नाग्निमात्रम् । यथा च गमनं गोशब्दव्युत्पत्तिनिमित्तत्वेनोपादीयमानं सास्नादिमत्सामान्यप्रत्ययोत्तरकालं तद्ग- तमेव निमित्तत्वं प्रतिपद्यते, न गन्तुमात्रविषयमिति, गोशब्दव्यवस्था । तथा शूर्पगतान्नकरणहेत्वपदेशान्नान्यगतहेतुत्वप्रसङ्गः । तन्नैतावानर्थः स्यात् – यद्यन्नकरणसमर्थं शूर्पम्, तेन तेन होतव्यम्, न दर्वि- पिठरादिग्रहणम् । यथा वलवदुपध्मातेऽग्नौ दहनहेतुत्वेनोक्ते, स एवानुपध्मातो न दहेन्न तु शङ्खादयो बलवदुपध्माता दहन्ति । तस्माद्व्यवस्था । यदि पुनः शूर्पगतान्नकरणव्यतिरेकेण महासामान्यं विवक्ष्यते ततो यद्यद्गृहीतम्, तस्य तस्य काचिदन्ननिमित्तता विद्यत इत्यव्यवस्थितत्वाद्धोमाक्षिप्तद्रव्यमात्रानुवादः सन्न- नर्थकोऽन्नकरणशब्दः । तस्मादन्नहेतुत्वेन स्तुतित्वमेव वरमिति ॥ ३० ॥ इति हेतुवन्निगदाधिकरणम् ॥ ३ ॥ न्या० सू०—यद्यपि च भवेदित्यनुज्ञादर्शनाद्विधिपक्षोऽपि सम्मत इति कस्यचिद् भ्रान्तिः स्यात्, तन्निवृत्त्यर्थमाह — अभ्युपेत्येति । अस्य च प्रयोजनं 'चतुर्गृहीतान्याज्यानि भवन्ति, न ह्यत्रानुयाजानिति बहुवचनात्सर्वानुयाजाभावस्य हेतुत्वावगतेरवभृथे बर्हिरनु- याजमात्राभावेऽतिप्रसङ्गन्निवृत्तिः तद्भाष्यं व्याचष्टे — यद्यपीति । अत्यन्तसाधकतमत्वा- भावेऽप्यापेक्षिकसाधकतमत्वप्रदर्शनाय भाष्ये दर्विपिठरप्रकाराणामित्युक्तम् । निर्देशादित्ये- १२

१७८ मीमांसादर्शनम् [ सू० तत्सूत्रावयवव्याख्यानार्थं शब्दादित्यादिभाष्यं व्यवस्थाहेतुप्रश्नपूर्वकं व्याचष्टे-कुत इति । सत्यपि हेतोः शब्दोक्तत्वे कथं व्यवस्थेत्याशङ्क्य शब्दश्चेति भाष्येण शूर्पगतस्यैवान्नकरण- त्वस्य हेतुत्वाभिधानादिति परिहृतम् । तदुपपादयितुमाह-सोऽपि चेति । शूर्पगतस्यैवान्न- करणत्वस्य हेतुत्वं शब्देनोक्तम् । इत्येतदेव कथमवगम्यत इत्याशङ्क्य तद्धि निर्दिश्यत इत्यादिभाष्यकृतोक्तं तस्याभि- प्रायमाह-शूर्पे चेति । अनेन च निर्दिश्यत इति प्रतिज्ञाभिप्रायं व्याख्यातम् । प्रकृतशूर्प- निर्देशकसर्वनामपरया तृतीयया तद्गतस्यैवान्नकरणत्वस्याभिधानात्तस्यैव हिशब्देन हेतुत्व- मुच्यते इत्येवं च तद्भाष्यं व्याख्येयमिति दर्शयितुमाह - सन्निधेश्चेति । एकपदोपादान- लक्षणा श्रुतिः सन्निधिशब्देनाभिप्रेता । ननु लोके व्याप्यविरोधेन सामान्यरूपस्यैव धूमादेर्हेतुत्वावगमात्तद्दृष्टान्तेनात्रापि तथात्वापत्तेः साध्यधर्मिणा विशेषणमयुक्तमित्याशङ्कयाह-लोकेऽपि चेति । वेदे तु हेत्वन्यथानुपपत्तिकल्प्यस्य दृष्टान्तवाक्यस्य सामान्यव्याप्तिविषयत्वायोगान्न तदनुरोधेन हेतोः सामान्यरूपतापत्तिरित्याह-वेदेति । कीदृशं तर्हि अत्र दृष्टान्तवाक्यं कल्प्यते इत्यत आह - तस्मादिति । शूर्पत्वैकार्थसमवायिनोऽन्नकरणत्वस्यैव हेतुत्वविधायकविधि- वचनद्वाराऽन्नकरणत्वावान्तरसामान्योपलक्षणार्थं शूर्पग्रहणम् । विशेषदृष्टसंज्ञकं चैतदनु मानम् । लोकेऽपि प्रसिद्धमित्याह-तदेतदिति । शब्देऽपि ज्ञाने गमेर्डोरिति गोशब्दव्युत्पत्ति- निमित्तत्वेनोपात्तस्य गमनस्य प्रतिपादेन सास्नादिमता विशेषणदर्शनात्तद्दृष्टान्तेनेहापि व्यवस्थासिद्धिरित्याह-यथा चेति । नन्वेवं तर्हि शूर्पेण जुहोतीत्येतावत्तैव सिद्धेर्हेत्वभिधानानर्थक्यं स्यादत आह— तत्रेति । यथेति । दृष्टान्तभाष्यं व्याचष्टे - यथेति । उपसंहरति - तस्मादिति । प्रत्यय- श्रुतिबलेन पदश्रुतिबाधात्सामान्यमात्रस्य हेतुत्वाभिधानाय सामान्यादिति चेदिति सूत्रा- वयवव्याख्यानार्थमयेति भाष्यं व्याचष्टे - यदि पुनरिति । आनर्थक्यापत्तेः प्रत्ययश्रुति- बाधायाव्यवस्था विधीनां स्यादिति सूत्रावयवव्याख्यानार्थमव्यवस्थेति भाष्यं व्याचष्टे- तत इति । हेत्वनभिधानेऽपि हिशब्दानर्थक्यापत्तिशङ्कानिराकरणार्थमस्मत्पक्षे पुनरिति भाष्यं स्पष्टत्वान्न व्याख्यातम् । तस्मादित्यपसंहारभाष्यमसमर्थशूर्पव्यावृत्त्यर्थं हेत्वभिधानो- पपत्तेरयुक्तमाशङ्क्य व्याचष्टे - तस्मादिति । अभ्युपेत्यवादमात्रमेतत् । वस्तुगत्या शूर्प- स्यापि मुख्यान्नकरणत्वाभावाद्विधौ च लक्षणाद्योगाद्धेतुत्वानुपपत्तिरिति भावः ॥ ३० ॥ इति न्यायसुधायां तृतीयं हेतुवन्निगदाधिकरणम् । भा० प्र०-इस सूत्र के द्वारा सिद्धान्ती ने "तुष्यतु दुर्जनः" इसी न्याय का अव- लम्बन कर शूर्प वाक्य को हेतु-विधित्व मानकर ही कहा है कि इसको हेतुविधि मानने पर भी शूर्प से अतिरिक्त किसी वस्तु में होम-साधनता विवक्षित नहीं होती

३१ ] प्रथमाध्याये द्वितीयपादः १७९ है, क्योंकि, पाकशाला में अग्नि प्रज्वलित है, इसलिए मेरा गृह तप्त हो गया है, यह कहने पर अग्नि की ही दाहकता सिद्ध होती है। उसी तरह प्रकृत में भी हेतु के द्वारा शूर्प की ही होम के प्रति साधनता कही गई है। 'शूर्पेण' इस पद में तृतीया विभक्ति से बोधित करणत्वसामान्य के द्वारा दर्वी, स्थाली आदि की उपस्थिति करने पर अन्य किसी वस्तु की होम साधन की कल्पना का प्रसङ्ग ही नहीं उठता है। क्योंकि किञ्चिन्निरूपिता हेतुता प्रायः सभी वस्तुओं में है। अनुमान के द्वारा दर्वी आदि की उपस्थिति करने पर भी "शूर्पेण' इस पद के द्वारा प्रत्यक्ष तृतीया श्रुति से बोधित शूर्प अपेक्षाकृत दुर्बल होने से उसके साथ शूर्प का विकल्प नहीं हो सकता है। अतः "तेन हि अन्नं क्रियते" इत्यादि हेतु के समान प्रतीयमान वाक्य हेतुविधि नहीं है वरन् अर्थवाद मात्र ही है। 'यदि' = यदि, 'च' = और, "हेतुः" = हेतुविधि के रूप में "निर्देशात्" = तथापि शूर्प का विशेषरूप में उल्लेख होने से, 'अवतिष्ठते' = शूर्प की ही हेतुता अवस्थित है। सामान्यात् इति चेत् = यदि कहा जाय, 'इति चेत्' = कहा जाय, [तृतीया विभक्ति होने से करणत्वसामान्य हेतु दर्वी स्थाली आदि ही ग्रहणीय होगा] 'अव्यवस्था' = अनियम, "विधीनां" विधियों की, 'स्यात्' = होगी। और यदि यह हेतुविधि ही रहती है, तथापि पूर्व की ही हेतुता व्यवस्थित है, क्योंकि उसी का निर्देश अर्थात् विशेष रूप से उल्लेख है। यदि 'शूर्पेण' इस तृतीया विभक्ति के द्वारा करण सामान्य विवक्षित होने से दर्वी, स्थाली आदि का भी हेतुत्व ग्रहण के योग्य है, यह मानने पर विधि की व्यवस्था नहीं होगी ॥ ३० ॥ अथ चतुर्थं मन्त्राधिकरणम् (४) तदर्थशास्त्रात् । शा० भा० — अथेदानों कि विवक्षितवचना मन्त्राः, उताविवक्षितवचनाः । किम्, अर्थप्रकाशनेन यागस्योपकुर्वन्ति, उतोच्चारणमात्रेणेति । यद्युच्चारण- मात्रेण, तदा न नियोगता बर्हिर्देवसदनं दामि (मै० सं० १।१।२) इत्येष बर्हिर्लवने विनियुज्येत । अभिधानेन चेत्, प्रकरणेन निर्ज्ञाताङ्गभावो नान्यत्रोपकर्तुं शक्नो तीत्यन्तरेणापि वचनम्, बर्हिर्लवन एव विनियुज्येतेति । तदेवमवगच्छामः । उच्चारणामात्रेणैवोपकुर्वन्तीति । कुतः ? तदर्थशास्त्रात् । यदभिधानसमर्थो मन्त्रः तत्रैवैनं शास्त्रं निबध्नाति । उरुप्रथा उरु प्रथस्वेति (वा० सं० १।२२, तै० सं० १।१।८।१) पुरोडाशं प्रथयतीति (तै० ब्रा० ३।२।४) वचनमिदमनर्थकं यद्यर्थाभिधानेनोपकुर्वन्ति । अथोच्चारणमात्रेण, ततो वक्तव्यो

१८० मीमांसादर्शनम् [ सू० विनियोगः, उक्तश्च । अतो नार्थाभिधानेन । यथा साक्षः पुरुषः परेण चेन्नीयते, नूनमक्षिभ्यां न पश्यतीति गम्यते । नन्वर्थवादार्थं भविष्यतीति चेत्, न हि । येन विधीयते तस्य वाक्यशेषोऽर्थ- वाद इत्युक्तम् । न च निरपेक्षेण विहितेऽर्थवादेन किंचिदपि प्रयोजनं क्रियते । अतो नार्थवादार्थं वचनम् । तथाऽभ्यादानसमर्था मन्त्रा उदाहरणम् । लिङ्गादेवाऽऽदाने प्राप्ता वचनेन विधीयन्ते । तां चतुर्भिरादत्ते (तै० सं० ५।१।१) इति । चतुःसंख्यार्थमिति चेन्न । समुच्चयशब्दाभावात् । तथा, इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्ते (श० ब्रा० १३।१।२। २१) इत्युदाहरणम् । रशनादाने (तै०सं० ५।१।२) प्राप्तस्य रशनादान एव शास्त्रं विनियोजकम् । तद्विवक्षितार्थत्वे न घटेतेति । ननु गर्दभरशनां परिसंख्यास्यति । न शक्नोति परिसंख्यातुम् । परिसंख्याह्यो हि स्वार्थं जह्यात्, परार्थं च कल्पेत, प्राप्तं च बाधेत । तस्मान्न विवक्षितवचना मन्त्राः । अतो न प्रमाणं बर्हिर्देवसदनं दामीत्यस्य रूपं बर्हिर्लवने विनियोगस्य । वाक्यनियमात् । नियतपदक्रमा हि मन्त्रा भवन्ति । अग्निमूर्धा दिवः (तै० सं० १।२।५।१) इति, न विपर्ययेण । यद्यर्थप्रत्यायनार्था विपर्ययेणाप्यर्थः प्रतीयत इति नियमोऽनर्थकः स्यात् । अथोच्चारणविशेषार्था विपर्ययेऽन्यदुच्चारणमिति नियम आश्रीयते । तेनान्यतरस्मिन् पक्षे नियमोऽर्थवान् स नूनं पक्ष इति । नन्वर्थवत्स्वपि नियमो दृश्यते । यथा--इन्द्राग्नी इति । युक्तं तत्र तत् । विपर्ययेऽर्थप्रत्ययाभावात् । बुद्धशास्त्रात् । बुद्धे खल्वपि पाठदार्थे तदभिधानसमर्थो मन्त्रो भवति । अग्नीदग्नीन् विहर इति । स बुद्धे किं बोधयेत् । अथ तूच्चारणविशेषार्थाः, बुद्धेऽप्यु- च्चारणविशेषोऽवकल्प्यतेति । ननु पुनर्वचनात्संस्कारविशेषो भविष्यति । एव- मस्मत्पक्षमेवाऽऽश्रितोऽसि । वचनमुच्चारणम् । तद्धि शक्यते कर्तुं नार्थप्रत्या- यनम् । तत्प्रतीतेऽशक्यम् । यथा सोपानत्के पादे द्वितीयामुपानहमशक्यत्वा- न्नोपादत्ते ॥ अविद्यमानवदनात् । यज्ञे साधनभूतः प्रकाशयितव्यः । न च तादृशोऽस्ति यादृशमभिदधति । यथा चत्वारि शृङ्गाः (तै० आ० १०।१०।१७) इति । न हि चतुः शृङ्गं

३१ ] प्रथमाध्याये द्वितीयपादः १८१ त्रिपादं द्विशिरस्कं सप्तहस्तं किंचिद् यज्ञसाधनमस्ति । तदत्राभिधानार्थः किमभिदध्यात् । उच्चारणार्थे त्ववकल्प्यते । तथा मा मा हिंसीरित्यसत्यामपि हिंसायां किमभिदध्यात् ॥ अचेतनेऽर्थबन्धनात् । अचेतनेऽर्थे खल्वर्थं निबध्नन्ति, ओषधे त्रायस्वनैनमिति । अभिधानेनोपकुर्वन्त एवंजातीयका ओषधि पशुप्राणाय प्रतिपादयेयुः । न चासावचेतना शक्या प्रतिपादयितुम् । उच्चारणार्थे तु नैष दोषो भवति । तस्मादुच्चारणार्थाः । शृणोत ग्रावाणः (तै० सं १।३।१३) इति चोदाहरणम् ॥ अर्थविप्रतिषेधात् । अर्थविप्रतिषेधोऽपि भवति । अदितियोंरदितिरन्तरिक्षमिति (तै०आ० १।१३) सैव द्यौस्तदेवान्तरिक्षमिति को जातुचिदवधारयेत् । अनवधारयंश्च किमभिधाने- नोपकुर्यात् । उच्चारणमात्रे तु नैष विरोधो भवति । तस्मादुच्चारणार्था मन्त्राः । एको रुद्रो न द्वितीयोऽवतस्थे, असंख्याताः सहस्राणि, ये रुद्रा अधि भूमियमिति (वा० सं० १६।५४) चोदाहरणम् । स्वाध्यायवद्वचनात् । स्वाध्यायकाले पूर्णिकाऽवहन्ति करोति । माणवकोऽवहन्तिमन्त्रमधीते । नासौ तेन मन्त्रेण तदभिधानमभ्यस्यति अक्षरानुपूय्र्या अवधारण एव यतते । येन च नाम प्रयोजनम्, तदभ्यसितव्यम् । अत उच्चारणाभ्यासादुच्चारणेन प्रयोजनमित्यवगच्छामः ॥ अविज्ञेयात् । अपि च केषाञ्चिन्मन्त्राणामशक्य एवार्थो वेदितुम् । यथा अम्यक् सात इन्द्र ऋष्टिरस्मे (ऋ० सं० २।८) इति । सृण्येव जर्भरी तुर्फरीतू (ऋ० सं० ८।६।२) इति । इन्द्रः ऽसोमस्य काणुका इति च । एते किं प्रत्याययेयुः । उच्चारणार्थे तु न दोषः । तस्मादुच्चारणार्था मन्त्रा इति ॥ अनित्यसंयोगान्मन्त्रानर्थक्यम् ॥ १.२.३१ ॥ शा० भा०-अनित्यसंयोगः खल्वपि भवेन्मन्त्रेष्वभिधानार्थेषु । यथा किं ते कृण्वन्ति कीकटेषु गावः (ऋ० सं० ३।५३।२१) इति । कीकटा नाम जनपदा । नैचाशाखं नाम नगरम् । प्रमगन्दो राजेति । यद्यभिधानार्थाः, प्राक् प्रमगन्दान्नायं मन्त्रोऽभूतपूर्वं इति गम्यते । तदेतैस्तदर्थंशास्त्रादिभिः कारणैर्मन्त्राणामविवक्षित- वचनता ॥ ३१ ॥ इति पूर्वपक्षः ।

१८२ मीमांसादर्शनम् [ सू० भा० वि०-सङ्गतिं वदन् विषयसंशयौ दर्शयति-अथेत्यादिना । इति शब्दादूर्ध्वं विचार्यत इत्यध्याहारः अत्र धर्मप्रमाणभूतविध्येकवाक्यतथार्थवाद- प्रामाण्येऽभिहिते सति, विवक्षितार्थत्वेन मन्त्राणां तदन्तर्भावादप्रामाण्यमित्यर्थ- वादहेतुप्रत्युदाहरणेन पूर्वपक्षवादिना प्रत्यवस्थानादस्यार्थवादविचारसङ्गतिरथ- शब्देनोक्ता कोऽर्थवादः ? को वा न ? इति कोष्ठशोधनिकात्मकस्याधिकरणद्वय- स्यार्थवादाधिरणशेषत्वादव्यवधायकत्वमिदानीमित्यनेन दर्शितम्, प्रकरणान्त- रत्वाच्चास्य समनन्तरसङ्गत्यभावो न दोषाय । विवक्षितमनन्यपरं वचनमर्था- भिधानं येषां ते, तथा अत्र चार्थवतामपि वाक्यानामुभयथा प्रयोगदर्शनात् संशयः निवक्षितवचनत्वमपि मन्त्राणां न विधित्वेन स्तुतित्वेन वा, किन्तु विहितार्थ- प्रकाशतया अनुष्ठानाङ्गत्वेनेति दर्शयन् संशयं विवृणोति-किमर्थेति । विना- नुष्ठेयार्थस्मृ्येति मात्रचोऽर्थः, पूर्वोत्तरपक्षप्रयोजनमाह-यद्युच्चारणेति । पूर्वपक्षे सामान्यविनियोगस्य प्रकरणसिद्धत्वेऽपि, यस्य बर्हिर्देवसदनं दामीत्यादेर्विशेष- विनियोगश्रुत्यभावः तस्य नियोगतो बर्हिर्लवणादौ प्रयोगे प्रमाणमिति कर्म- विशेषानादरेण यत्र क्वचन प्रयोगप्रसङ्गः, सिद्धान्ते तु सिद्धे सामान्यविनियोगे सामर्थ्यादेव विशेषविनियोगसिद्धेः, आन्तरेणापि वचनं कर्मविशेषादरः फलमित्यर्थः, तत्र एवं विचारे सतीत्यर्थः, एतदिति मन्त्रोपकारकत्वम्, एवमित्युक्तमुपकारकत्व- प्रकारमाह-उच्चारणेति । यद्यपि कर्मकालप्रयोज्यानामपि मन्त्राणामर्थाभिधाना- र्थता प्रतीयते तथापि ध्यानादिनापि अनुष्ठासिताथैस्मृतिसिद्धेरभिधानार्थत्वेऽपि अदृष्टकल्पनासाम्यादुच्चारणाभिधानार्थत्वसन्देहे उच्चारर्णविनार्थ प्रत्ययासिद्धेः प्राथम्यावश्यकत्वाभ्यामुच्चारणार्थतैव न्याय्येवि भावः । एवं न्यायबलेन मन्त्र- मात्रस्यादृष्टार्थतामुक्त्वा, तद्विशेषेषु लिङ्गबलेनापि तद्वक्तुं पृच्छति-कुत इति । सूत्रेणोत्तरमाह-तदर्थेति । यस्मिन्नर्थे मन्त्रस्याभिधानसामर्थ्यम्, तस्मिन्नेव विनि- योजकशास्त्रदर्शनात् न सामर्थ्यं विनियोजकमिति व्याचष्टे-यदीति । यद्यपि परिहारसूत्रक्रमानुरोधेनास्मिन् सूत्रे अभ्यादानशास्त्रमारभ्योदाहर्तव्यम्, तथापि कथञ्चिदुदाहृतैरपि प्रकृतमन्त्रानर्थक्यसिद्धेः व्यत्यासेनोपन्यास इत्यवगन्तव्यम् । ननु सामर्थ्यस्यापि दर्शनात् कथं शास्त्रस्यैव विनियोजकत्वमत आह-- वचनमिति । इदमिति वचनस्य प्रत्यक्षत्वाभिधानेनार्थाभिधानेनोपकारस्य प्रति- पन्नत्वेनानादेयत्वं सूचयति, उच्चारगोपकारत्वपक्षे तु विनियोजकान्तराभावात् शास्त्रमर्थवदित्याह-अथेति । न च विनियोगे विगानमिति वदन्निदमित्युक्तं विवृणोति-उक्तञ्चेति । नार्थाभिधानेनोपकुर्वन्तीत्यनुषङ्गः, मन्त्ररूपालोचनाया- मपि परेण विनियोगं दृष्ट्वा तदभावं प्रत्येष्यत इत्यत्र दृष्टान्तमाह--तद्यथेति । साक्षत्वं च प्रतिभासतो न वस्तुतः । लिङ्गप्रकरणानुमितमन्त्रविधिरतुत्यर्थत्वेना-

३१ ] प्रथमाध्याये द्वितीयपादः १८३ प्यर्थवत्त्वान्नार्थकमिति चोदयति-नन्विति । परिहरति-नहोति । तत्र हेतुर्यथेति येनेति विधिना एकवाक्यत्वमर्थवत्त्वे कारणमुक्तमर्थवादाधिकरण इत्यर्थः, ततः किमत आह-नचेति । मन्त्रलिङ्गेन प्रकरणेन वा कल्पितस्य विनियोगविधेः स्वात्मसमीपे अर्थवादमपश्यतः स्वयमेव प्ररोचनाशक्त्याविर्भावेन निवृत्तापेक्षत्वात् न दूरस्थया स्तुत्या प्रयोजनमित्यर्थः, फलितमाह-अथ इति । इह तु शास्त्रस्यार्थवादत्वाभावेऽपि गुणविधित्वमस्त्विति शङ्कां, निराकर्तु- मस्यैव सूत्रस्योदाहरणान्तरमाह-तथेति । अभ्यादानसमर्थाः=अभ्यादाना- भिधानसमर्था इत्यर्थः । तत्र सूत्रं योजयति-लिङ्गादिति । "देवस्य त्वा सवितुः- प्रसवेऽश्विनोर्बाहुभ्याम्, पूष्णो हस्ताभ्याम्, गायत्रेणच्छन्दसा ददेऽङ्गिरस्वत् अग्निरसि नारिरसि पृथिव्यास्सदस्त्यादग्निं पुरीष्यं अङ्गिरस्वदा भर त्रैष्टुभेन त्वाच्छन्दसामुददेऽङ्गिरस्वत् बभ्रिरसि नारिरसि त्वया वयं सदस्थ अग्निं शकेम खनितुं पुरीष्यं जागतेन त्वाच्छन्दसा ददेऽङ्गिरस्वत्" इत्येतेषां चतुर्णामपि मन्त्राणामादद इत्यभिधानसामर्थ्यादादाने प्राप्तत्वेऽपि चतुर्भिरित्यादिवचनेनादान एव ते विधीयन्ते तच्चानर्थकमित्यर्थः । चतुःसङ्ख्यालक्षणगुणविधानार्थं पुनर्व- चनमर्थवदिति चोदयति-चतुस्सङ्ख्येति । सङ्ख्याया अवच्छेदकत्वदर्शना- न्मन्त्राश्रयायाश्च सङ्ख्याया क्रियावच्छेदकत्वासम्भवात् मन्त्रावच्छेदकत्वस्य च विधानमन्तरेणापि सिद्धेरनर्थकं तदभिधानमिति, परिहरति-अन्तरेणेति । लिङ्गाद्विकल्पप्राप्तौ समुच्चयार्थं वचनमिति, शङ्कते-समुच्चयेति । च शब्दादेः तद्वाचकस्याभावान्मैवमित्याह-नेति । चशब्दाद्यभावमन्त्रसङ्ख्ययोः परस्पर- नियमादरुणैकहायनोवत् क्रियाऽङ्गत्वेन समुच्चयः स्यादित्यपि न वाच्यं लिङ्ग- प्राप्ततया मन्त्राणामविधेयत्वेन सङ्ख्याविशिष्टमन्त्रविधेरसम्भवात् अरुणैकहायनी, न चैवं पूर्वपक्षेऽपि विकल्पप्रसङ्गे मन्त्रेष्विति वाच्यम्, चतुर्भ्योऽदृष्टनिष्पत्तेर्वचन- गम्यत्वेन समुच्चयस्यैव युक्तत्वादिति भावः, अत्र तर्हि विधित्वाभावेऽपि भवेत् परिसङ्ख्यानादर्थवत्त्वमिति शङ्कां निरसितुमुदाहरति-तथेति । कथमिदमस्यो- दाहरणमित्याशङ्क्य सूत्रं योजयति-रशनेति । विवक्षितार्थत्वे हि रूपादेव रशनादाने प्राप्तस्य मन्त्रस्य तत्रैव विनियोजकं शास्त्रं स्यात्, यच्च घटत इति योजना । अस्तु तर्हि परिसंख्याविधित्वमित्याह-नन्विति । गर्दभरशनां वर्ज- नीयतया बोधयति शास्त्रमित्यर्थः, ततश्च नापूर्वविधित्वमित्याशयः । सिद्धान्त्याह-न शक्नोतीति । तत्र हेतुः परिसञ्चक्षाणो हीति-विधिरित्यर्थः । अयमाशयः इह कदाचिदश्वाभिधानीमादत्त इति वचनव्यक्तिमाश्रित्यादाने गर्दभ- रशनायाः परिसङ्ख्या स्यात्, कदाचिदित्यश्वाभिधानीमितिवचनव्यक्त्या मन्त्रे स्यात्, उभयथापि दोषत्रयापत्तिः, तथा हि विधिपरत्वेन प्रतीयमानस्य तथात्वा- नभ्युपगमरूपस्वार्थहानिरेकः, परस्य गर्दभरशनां नेत्यस्य वाक्यस्यार्थ एवार्थो

यस्य स परार्थं रशनादानमन्तरेण बन्धुमशक्यतयार्थात्प्राप्तस्य गर्दभरशनादानस्य मन्त्रलिङ्गादवगतस्य मन्त्रगर्दभाभिधानीसम्बन्धस्य च बाधः प्रसज्येतेत्यन्य इति दोषत्रयापत्तेः न परिसङ्ख्या युक्तेति । ननु परिसङ्ख्यानङ्गीकारे वाक्यस्य का गतिरित्याशङ्क्यादृष्टार्थत्वे मन्त्राणां विनियोगापेक्षत्वादपूर्वविधित्वमेवेत्यभिसन्धाय सूत्रार्थं निगमयति—तस्मान्नेति । अविवक्षितार्थत्वेऽपि किमित्याशङ्क्य पूर्वोक्तं पूर्वपक्षप्रयोजनं स्मारयन्नाह— अत इति । विनियोजकशास्त्रवैयर्थ्यप्रसङ्गान्न मन्त्रसामर्थ्यं मन्त्रविनियोगे प्रमाणमित्यर्थः । न चैवं विनियोजकशास्त्रहीनानां बर्हिर्देवैत्यादीनां कर्मविशेषनियत: प्रयोगो न स्यादिति वेदितव्यम् प्रयोगपरिग्रहेण प्रधानसम्बन्धिनामेव सतामङ्गाविशेषा- सम्बन्धिनामपि पाठक्रमानतिक्रमेण यत्र क्वचिदपि प्रयोगसम्भवेऽनिष्टापादनत्वा- दित्यभिहितम् । मन्त्राणामविवक्षितवचनत्वे लिङ्गान्तरमाह—वाक्यनियमादिति । सिद्धान्ता- सम्भवहेतुपरतया सूत्रं व्याचष्टे—न विपर्ययेणेति । नानियतपदक्रमादित्यर्थः, ततः किमत आह—यदीति । अग्निमूर्धेति योऽर्थः प्रतीयते नमूर्धाग्नि- रित्यनेनापि प्रतीयत एवेत्यनर्थको नियम इत्यर्थः, सम्प्रति पूर्वपक्षसाधकहेतुपर- तया सूत्रं व्याचष्टे—अथेति । नियतपदक्रम एवोच्चारणविशेषोऽदृष्टाय भवतीति तदर्थश्चेदयं नियम इत्यर्थः, तदा विपर्यये क्रमान्यत्ववदुच्चारणस्यान्यत्वात्तदु- च्चारणजस्यादृष्टतदभावे प्रमाणभावाच्चियमोऽर्थवानित्याह—विपर्यय इति । नन्वस्मत्पक्षेऽपि नियतपदक्रमैरेव वाक्यैरर्थप्रत्यायनाददृष्टं कल्प्यते तेनार्थ- वानेव नियम इत्याशङ्क्य तर्ह्यर्थप्रत्यायनस्य उच्चारणाधीनत्वात् प्राथम्यावश्य- कत्वाभ्यां उच्चारणार्थं एवायं नियमो युक्त इत्याह—अन्यतरस्मिन्निति । उच्चारणाभिधानपक्षयोरनयोर्मध्ये यस्मिन्पक्षे क्रमनियमः प्रयोजनातिशयवान् स एवोपादेयः पक्ष इत्यर्थः । नन्वर्थवतामपि वाक्यानां क्वचित्क्रमनियम आश्रीयते तस्मान्न तेनार्थविवक्षा साधयितुं शक्येति चोदयति—नन्विति । वैषम्येणोत्तरमाह—युक्तमिति । तत्र नियमाश्रयणमित्यर्थः, तत्र हेतुर्विपर्यय इति, नचाग्नीन्द्राविति प्रयोगेऽप्यर्थप्रत्यय- दर्शनादसिद्धो हेतुरिति शङ्कनीयम् यथेन्द्राग्नी इत्यनेनोपलक्षितोदाहरणान्तर- विषयत्वादस्य, तथा हि—इन्द्राग्नी निष्कौशाम्बिरित्यादीन्युदाहरणानि अत्राभि- संहिनानि, अर्थप्रत्ययाभावादित्यत्रापि शब्दासाधुत्वमर्थप्रत्ययाभावरूपं चानर्थक्य- मित्यादयो दोषा विवक्षिताः, तत्रेन्द्राग्नी इत्यस्य विपर्यये शब्दासाधुत्वमजाद्यजन्त- मिति इन्द्रशब्दस्य पूर्वनिपातस्मरणात् निष्कौशाम्बिरित्येतद्विपरीतस्य कौशाम्बि- निरित्यस्य निरादयः क्रान्ताद्यर्थे पञ्चम्येति प्रथमानिर्दिष्टत्वेन निश्शब्दस्योप-

३१ ] प्रथमाध्याये द्वितीय पादः १८५ सर्जन्ततया पूर्वनिपातस्मरणात् आनर्थक्यमित्यादयो दोषा यथायोगं योजनीयाः, तेनैतद्दोषभयादस्तु तत्र क्रमनियमः मन्त्राणां तु क्रमनियमाभावेऽपि अर्थवत्त्वादि- सम्भवादनर्थकः त्वत्पक्षे क्रमनियम इति भावः । मन्त्राणामविवक्षितार्थहेत्वन्तरमाह--बुद्धेति । सूत्रं व्याचष्टे - बुद्धे खल्व- पीति । पाठादिति । विचारपर्यन्तादित्यर्थः, एवेत्यध्वर्युप्रैषं व्यावर्तयति, विदुषा एवार्त्विज्याधिकारादग्नीध्राप्यात्मीयाः पदार्थाः प्रागेवानुष्ठानादवगन्तव्या इति भावः, भवतु बुद्धेऽर्थे प्रैषात्मकशास्त्रप्रवृत्तिः, तथापि किमित्याशङ्क्य पिष्टपेषण- न्यायेनाबुद्धबोधकत्वासम्भवात् आनर्थक्यप्रसङ्ग इत्यत आह-बुद्ध इति । यदि त्वदृष्टफलकोच्चारणार्थो मन्त्रस्तदा न कश्चिद्दोष इत्याह-अथेति । बुद्धेऽस्तिपुन- र्वचनप्रयोजनमिति शङ्कते- नन्विति । पूर्वपदार्थानुष्ठानसमाप्तावुत्तरपदार्थस्मर- णस्य स्मर्यमाणब्राह्मणसामर्थ्यादेव सिद्धे स्मृतिहेतुसंस्कारविशेषानपेक्षत्वेन मन्त्रो- च्चारणवैयर्थ्यात् पुनर्वचनाज्जायमानसंस्कारोऽपूर्वरूप आश्रयणीय यथा च पूर्वपक्षापत्तिरिति, परिहरति--एवमिति । नन्वदृष्टरूपोऽपि संस्कारोऽर्थप्रत्यायनात् भविष्यति, ततश्च मन्त्रस्य दृष्टार्थ- त्वात् पूर्वपक्षानापत्तिरत आह-वचनमिति । प्रत्यायनम् अबुद्धबोधनमित्यर्थः निष्पादितक्रिये कर्मणि विशेषानाधायकत्वेन साधनानुपादाने दृष्टान्तमाह-- यथेति । मन्त्रानर्थक्ये हेत्वन्तरमाह - अविद्यमानेति । ननु जगतो विचित्रत्वेनैवंविधस्यापि सम्भवात् कथमविद्यमानवचनतेत्याशङ्क्य व्याचष्टे - यज्ञ इति । अस्ति यज्ञसाधनभूत इत्यनुषङ्गः कर्म तत्सम्बन्धि वा मन्त्रैः प्रकाशयितव्यम्, न चायं मन्त्रप्रतिपाद्योऽर्थस्तथेत्यर्थः, कथमतथात्वमित्या- शङ्क्य मन्त्रोदाहरणपूर्वकमाह - यथेति । "त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आविवेश" इति मन्त्रशेषः, ननु यद्यपि सोऽर्थः कर्मसाधनभूतो नास्ति तथापि किं तत्राह तत्रेति । अदृष्टार्थत्वे तु नानर्थक्यमित्याह-उच्चारणार्थ इति । मा मा हिंसीः, मा मा संताप्तम् इत्यत्र चाचेतनेऽप्राप्तयोरपि हिंसासन्तापयोः निषेधानर्थक्याददृष्टार्थतैव युक्तेति, केचिदिति बहुवचननिर्वाहायोदाहरति- तथेति । इतश्चाविवक्षितार्था मन्त्रा इत्याह - अचेतन इति । सूत्रं व्याचष्टे - अचेतने खल्विति । कोऽसावर्थः कथं वा तमचेतने बध्नाति मन्त्रोऽत आह-अभिधानेति । ओषधि प्रतिपादयेयुरित्यनेन सम्बोधनं प्रैषणं चार्थशब्देनाभिसंहितमोषधि- विषयत्वं चार्थस्य बन्धनशब्दार्थ इति दर्शितं बन्धकत्वमुपपादयितुमभिधानेनोप- कुर्वन्त इत्युक्तम् ।

१८६ मीमांसादर्शनम् [ सू० ननु प्रतिपादयन्तु मन्त्राः को दोषस्तत्राह- न चेति। अचेतने तस्मिन् आभिमुख्यस्य प्रैषकार्यस्य प्रवृत्तेश्च असम्भवादानर्थक्यमेव स्यादित्याशयः। अस्मन्मते तु नानर्थक्यदोष इत्याह - उच्चारणार्थेति । तस्माददृष्टार्था इत्याह- तस्मादिति। शृणोत ग्रावाणः इत्यत्राप्यर्थविवक्षायां ग्रावाण इति सम्बोधना- सम्भवात् शृणोतेति प्रातरनुवाकश्रवणे प्रेरणानुपपत्तेश्चादृष्टार्थतैव समञ्जसे- त्याह - शृणोतेति । मन्त्रानर्थक्ये हेत्वन्तरमाह - अर्थेति । सूत्रं व्याचष्टे - अर्थविप्रतिषेध इति । कथमर्थयोर्द्युलोकान्तरिक्षलोकयोर्विरोधस्तत्राह-द्यौवेति । "अदितिर्द्यौरदितिरन्त- रिक्षमिति एकस्यानेकात्मत्वविरोध इह विप्रतिषेधोऽभीष्ट इति भावः, नन्वे- कस्यानेकात्मकतां न वारयति मन्त्रः, अतः कथं विरुद्धार्थत्वमत आह-अनवधार- यन्निति । स्वार्थमनवधारयन् किमर्थाभिधानेनोपकुर्यान्नैवेत्यर्थः, अदृष्टार्थत्वे तु न विरोध इत्याह - उच्चारणेति । निगमयति - तस्मादिति । तथैक एव रुद्रः असङ्ख्याताः सहस्राणीति मन्त्रयोरेकानेकत्वं रुद्रस्य बोधयतोर्विवक्षितार्थतैव समीचीनेत्याह - एक इति । इतश्च मन्त्रार्थान्नविवक्षेत्याह - स्वाध्यायेति । यथा स्वाध्यायशब्दवाच्यान्य- क्षराणि स्वाध्यायकालेऽभ्यस्यन्ते, नैवं वचनरूपमर्थाभिधामभ्यस्यत इत्येवं सूत्रं व्याख्यातुमभिधेयसन्निधिनिमित्तोऽभिधानाभ्यासानादर इति शङ्कां निराकर्तु- माह-स्वाध्यायेति । पूर्णिकादासी हन्ति करोति, अवहन्ति एवमभिधेयेऽभि- धायके च मन्त्रे सन्निहितेऽपि नाभिधानविषयोऽभ्यासो दृश्यते किंत्वक्षरविषय एवेत्याह - नासाविति । ननु माभूदर्थाभिधानविषयोऽभ्यासः तथापि कथमविवक्षितेति ? तत्राह- येन चेति । नाम प्रसिद्धौ तन्नामाभ्यसितव्यमिति सम्बन्धः, तथा किं तत्राह- अत इति । यद्यर्थाभिधानमपि प्रयोजनवत् तर्हि .तदप्यभ्यसितव्यं न चैत- दस्तीत्याशयः। युक्त्यन्तरमाह - अविज्ञेयादिति । सूत्रं व्याचष्टे - अपि चेति । तत्र केषां- चिद्वाक्यानामर्थः पदार्थज्ञानेनाविज्ञेयः केषाञ्चित्स्वरूपेण । तत्राद्यमुदाहरति-- यथेति । सामान्यतो वाक्यस्येन्द्रस्तुतिपरत्वावगमेऽप्यगम्यादिपदार्थज्ञानात् काणकेतिपदार्थज्ञानाच्च विशिष्टवाक्यार्थासिद्धिः इति भावः, स्वरूपेणाविज्ञेय- मुदाहरति - सृण्येवेति, अस्मत्पक्षे त्वर्थाभावादेव नाविज्ञेयत्वदोष इत्याह- उच्चारणेति । तस्यापि फलितमाह - तस्मादिति । अर्थवत्त्वे मन्त्राणामनिष्टप्रसङ्गोऽपीत्याह - अनित्येति । अनित्यसंयोगस्य सिद्धवदुपादानेऽनित्येनार्थेन संयोगः मन्त्राणामविवक्षितार्थता न भवेत्, अतः

३१ ] प्रथमाध्याये द्वितीयपादः १८७ प्रसङ्गपरतया व्याचष्टे—अनित्यसंयोग इति । मन्त्रेष्वर्थाभिधानार्थेषु सत्स्वर्था- नामनित्यत्वसम्भवेन तत्संयोगोऽप्यनित्य एव प्रसज्येत, अतश्च मन्त्राणामनित्यता स्यादिति भावः । अथ केष्वर्थानित्यत्वसम्भावना ? अत आह-यथेति । नाशिरं दुहे न तपन्ति घर्मं आनोभरप्रमगन्दस्य वेदो नौ च शाखं मघवन् रन्धमानः इति मन्त्रशेषः, कथमस्य नित्यार्थतेत्याशङ्क्य तद्गतान् पदार्थान् अनित्यान् दर्शयति—कीकटा नामेति । तेनायमत्र मन्त्रार्थः—विश्वामित्रेण कर्मार्थं धनं प्रार्थयमानेनेत्थमिन्द्रोऽ- भिहितः, हे मघवन् याः कीकटेषु गावस्ताः तव किं कुर्वन्ति न तावदाशिर सोम- संस्कारार्थं पयो दुहते न च तपन्ति घर्मं तप्ते घृते पयोनेक्षेपेण निष्पन्दीकृते यच्छिष्टघृतं तद् घर्मशब्देनोच्यते, तदपि पयोदानेन न साधयन्ति, अतस्तत्प्रम- गन्दस्य कीकटाधिपते राज्ञो धनं नैचाशाख्यं नगरं नोऽस्माकमाभराहृत्य अस्मदर्थमपहरेत्यर्थः, अपहृत्य च नोऽस्माकं रन्धय साधयेति तेन कीकटादि- पदार्थानामनित्यत्वेन वाक्यार्थस्याप्यनित्यत्पादनित्यसंयोगस्तावत्सिद्ध इति भावः, एवमनित्यसंयोगमुपपाद्य तत्फलं मन्त्राणामनित्यत्वेनाप्रामाण्यमापादयति— यदिति । पूर्वपक्षमुपसंहरति-तदिति । तस्मादित्यर्थः, अनियतवचनता सत्त्वा- सत्त्वाभ्यां अनियतोऽर्थः तद्वचनता अविवक्षितार्थता आनर्थक्यमिति यावत्, अनेन चार्थवादाधिकरणपूर्वपक्षसूत्रगतया आनर्थक्यप्रतिज्ञयात्राकृष्टया मन्त्रा- शेषतया च शास्त्रार्थवत्त्वादिहेतूनां अन्वयो दर्शितः । यद्वा “तदर्थशास्त्राद्वाक्यनियमात् बुद्धशास्त्रादविद्यमानवचनादचेतनेऽर्थ- बन्धनादर्थविप्रतिषेधात् स्वाध्यायवदवचनात् अविज्ञेयादनित्यसंयोगान्मन्त्रा- नर्थक्यं” इत्येकसूत्रं मन्त्रानर्थक्य [मिति] पदपाठं चाश्रित्य शास्त्रार्थवत्त्वादीनां मन्त्रानर्थक्यप्रतिज्ञया सम्बन्धो दर्शित इति मन्तव्यम्, तस्माद्यथोक्तैः कारणैः अर्थविवक्षासम्भवादुच्चारणमात्रेणादृष्टार्थता मन्त्राणामिति भावः ॥३१॥ त० वा०— इहाऽऽनर्थक्यश्रवणात्केचिदेवं सन्देहमुपन्यस्यन्ति किमर्थवन्तो मन्त्रा उतानर्थका इति । तत्तद्युक्तम् — स्पष्टे शब्दात्प्रतीतेऽर्थे नानर्थक्यं हि शङ्क्यते । अग्नौ दहति दृष्टे वा दग्धृत्वं किं विचार्यते ॥ ३ ॥ सर्वत्र हि कार्यदर्शनाच्छब्दानां शक्तयः कल्प्यन्ते । तच्चार्थप्रत्यायनं मन्त्रे- ष्वप्युच्चार्यमाणेषूपलभ्यते । न चाविशिष्टस्तु वाक्यार्थ इत्येवमादिप्रतिज्ञामात्र- साध्योत्तराः पूर्वपक्षा भवन्ति । तस्मादयुक्तोऽयमुपन्यास इति मत्वाऽऽह—किं विवक्षितवचना मन्त्रा उताविवक्षितवचना इति ।

१८८ मीमांसादर्शनम् [ सू० नन्वनेनैव हेतुनेदमपि न विचारणीयम् । नैष दोषः । अर्थवतामपि वाक्यानां द्वैविध्यदर्शनात् । उच्चारणार्थप्रत्यायने ह्यविनाभूते, तत्रान्यतरविवक्षया प्रयुज्यमानेऽपि, किंचिन्नान्तरीयकं भवति । यद्यर्थप्रत्यायनं विवक्ष्यते, तदोच्चा- रणमर्थात्, अथोच्चारणविवक्षा, ततोऽर्थप्रत्यायनमनुषङ्गात् । यथा जपेषु विष- विद्यासु चेत्यस्ति विचारावसरः । कथं पुनरस्य प्रमाणलक्षणेन सम्बन्धः । पूर्वमेवोक्तमेतत् यथाऽऽम्नायस्य क्रियार्थत्वादित्ययमेवात्र पूर्वपक्ष इति । तदुत्तरेणैव च निराकाङ्क्षत्वान्न पुनर- भिहितम् । एवं हि मन्यते यत्र सोऽरोदीदित्येवमादेः कथञ्चित्सम्बन्धापादनम्, तत्र मन्त्रेषु कः सन्देहस्तस्मादुपयोगविशेष एव चिन्तनीय इति । तत्र विधिस्तुतित्वे तावत्सत्रयमेव निराकरिष्यति, अविधिसरूपत्वात् । प्रदेशान्तरविहितस्तुत्य- सम्भवाच्च । परिशेषात्स्वरूपप्रयोगे सत्यर्थोच्चारणयोः किं विवक्षितमिति विचा- र्यते । सामसु तु वाचकत्वाभावादात्मप्रयोगमात्राक्षराभिव्यक्तिपरत्वगतसन्देहः । कथं पुनः पूर्वपक्षवादिनः श्रुत्यसंयुक्तानां केषाञ्चिन्मन्त्राणां प्रयोगसिद्धिः । केचिदाहुः । अप्रयोगार्थमेवासावविवक्षितार्थत्वे यतते । न ह्यनाश्रितार्थान् मन्त्रान् कश्चिदपि प्रयुङ्क्ते । अतो यच्च किमुच्चारणमात्रेणोपकुर्वन्तीति, सिद्ध- वत्प्रयोगाभिधानम्, नैतदङ्गस्यैव द्रष्टव्यम् । अयं हि तत्र दुष्टोऽभिप्रायः । यदि नामोच्चारणमात्रोपकारं वक्ष्यति । तत्र शक्ष्याम्यस्याप्रयोगं वक्तुमिति । यदपि प्रयोजनकथने बर्हिर्देवसदनं दामीत्ययं बर्हिर्लवनात्प्रच्याव्यते, तदनेन प्रकारेण प्रयोगप्रच्यावनमेव द्रष्टव्यम् । अथ वा याज्ञिकदर्शनेनाविगानात्प्रयोगसिद्धिमवि- चार्येतरो विचारः । किमर्थं तु याज्ञिकप्रसिद्धिरुपेक्षिता, यतः सैव तावद्युक्ता- युक्तत्वेन न विचार्यते । तत्रायमभिप्रायः । सर्वथा तावद् दृढमेषां स्मृतिन्यायेन प्रयोगित्वमवस्थितं तन्न शक्यं बाधितुम्, तस्यैव त्विदं मूलं निरूप्यते । तद्यदि पूर्वपक्षो भविष्यति, ततोऽन्यप्रमाणाभावाद्विनियोजकश्रुत्यनुमानेन मूलं कल्प- यिष्यामः । सिद्धान्ते तु लिङ्गप्रकरणयोरेव मूलत्वाध्यवसानम् । अथवैवं पूर्वपक्षेऽपि प्रयोगः । स्वाध्यायाध्ययनविधिनैव मन्त्राः पुरुषार्थाय नीयन्ते । तथा हि—दर्शपूर्णमासादिभिः क्रमप्रकरणाभ्यां यावत्संस्पृश्यते तत्सर्वं- मुपकारकत्वेन स्वीक्रियते, प्रयाजादिवाक्यानि, मन्त्रस्वरूपमपि च । तत्र प्रया- जादिवाक्यान्यर्थं समर्प्य चरितार्थानि स्वरूपसंस्पर्शे सत्यपि प्रयोज्यतां न प्रति- पद्यन्ते । मन्त्राः पुनः कर्मानौपयिकार्थाभिधायित्वात्तेनांशेनानपेक्षिताः । स्तुति- विधि-स्मृतीनां तु प्रकारान्तरेण सिद्धिरिति प्रयोगवचनेनैषां स्वरूपमेवाङ्गी- क्रियते । स्वाध्यायाध्ययनचोदनाऽपि प्रत्यासन्नतरमन्त्रस्वरूपमेव समर्प्य चरि- तार्थत्वान्न विप्रकृष्टमर्थाभिधानं यावद्गच्छति, प्रयाजादिवाक्येष्वपि तावद्रूप- ग्रहणमेव प्रसक्तमासीत्तत्त्वभिप्रेतार्थंदानेन युक्तम्, न त्विह तथा किञ्चित् । शब्दे च

३१ ] प्रथमाध्याये द्वितीयपादः १८९ कार्यस्यासम्भवात्, अर्थे कार्यं विज्ञायते । मन्त्राणां तु शब्द एव सम्भवति । अवश्यं ह्यर्थप्राधान्यपक्षेऽपि पुरुषः शब्दे नियोक्तव्यः । तद्व्यापारोत्तरकालत्वादर्थाभिधा- नस्य । तस्माद्रूपमेवाङ्गम् । तथा च तदर्थशास्त्रादीन्युच्यन्ते । परिहारसूत्रक्रमानुरोधेन विपर्यस्तान्युदाहरणान्यभ्रयादानाप्रभृति दात- व्यानि । भाष्यकारस्तु यथातथोदाहृतैरपि कार्यसिद्धिं मत्वैवमुपन्यस्तवानुरुप्रथा उरुप्रथस्वेत्यादि । यथा, साक्ष इति । नीलीरोगाद्युपहतेन्द्रियस्य चक्षुरस्त्येवेति परैर्दृश्यते, परेण तु नीयमानमुपलभ्य न पश्यतीति ज्ञायते, तथा मन्त्ररूपमालो- चयतामर्थप्रकाशनशक्तिर्नास्तीति गम्यते । ततश्चार्थातन्त्रत्वम् । अन्यथा स्वय- मेव विनियुज्येत । नन्वर्थवादाथंमिति । लिङ्गप्रकरणानुमितमन्त्रविधिस्तुत्यभिप्रायम् । न हीतिच्छेदः । विधिनेकवाक्यतयाऽर्थवादाः स्तुत्यर्थाः कल्पिताः । प्रदेशान्तर- स्थस्य तु प्रत्यक्षस्याऽऽनुमानिकस्य वा विधेरात्मनः समीपेऽर्थवादमपश्यतः स्वयं प्ररोचनाशक्त्याविभविन व्यावॄत्तापेक्षत्वान्न दूरस्थया स्तुत्या कार्यम् । तथाऽ- भ्यादाने रूपादेव प्राप्तत्वान्मन्त्राणां 'तां चतुर्भिरादत्ते' इत्यनर्थकं वचनम् । चतुःसंख्यामपि ब्रुवदेतन्मन्त्रगतामेव ब्रूयान्न क्रियागताम् । न ह्यन्यगुणोऽन्य- गामी भवति । न च निष्क्रियत्वात्कर्माङ्गत्वेनोपदेष्टुं शक्यते । तेनैवं वाक्यं भवेद्य एते चत्वारः, तैरभ्यादानं कुर्यात्ते च प्रागेव वचनाच्चत्वार इत्यानर्थ- क्यम् । क्रियानङ्गत्वादेव च संख्यायाः । समुच्चयशब्दाभावाच्च प्रत्येकं च सामर्थ्याद्विकल्पः प्रसज्यमानो न शक्यो वारयितुम् । अस्मत्पक्षे पुनर्वचनगम्य- त्वाददृष्टस्य न चतुर्भ्यः प्रागस्तित्वे प्रमाणमिति युक्तः समुच्चयः । उभयोरपि तावद्रशनयोरश्वगर्दभरशनादानमर्थप्राप्तत्वान्न विधीयते । यदि मन्त्रोऽपि रूपात्प्राप्तः, अनर्थकं वचनम् । परिसंख्येति परेवर्जनार्थत्वात्- द्विषया बुद्धिरभिधीयते । साऽपि गर्दभरशनाया आदाने वा स्यान्मन्त्रे वा । उभयथा च त्रिदोषी । विधिपरः सन्न गृह्णात इति स्वार्थं जह्यात् । परस्य च वाक्यस्य गर्दभरशनां नेत्यस्यार्थे कल्पेत । प्राप्तं च रूपादर्थाद्वा मन्त्रमादानं वा बाधेत । अदृष्टार्थत्वे त्वन्धन्यायेन, तत्रैव नीयते, तत्रैव वर्तिष्यते । यदि चाश्वाभिधानीमिति सम्बन्धः स्यात्ततः परिसंवक्षीतापि, न त्वसावस्ति । कार- काणां क्रियापरिहारेणान्योन्यसम्बन्धाभावात् । तेन वाक्यमपि क्रिययैव सम्ब- ध्नीयात् । एका च सा । प्रकरणादपूर्वसंयोगश्चाविशिष्टः तस्मान्न परिसंख्या । प्रयोजनं कथयति । अतो न प्रमाणं बर्हिरित्यादि । तदा हि महाप्रयोग- वचनेन सर्वे मन्त्राः केवलप्रधानाथास्तत्तत्प्रयोगाद्बहिर्भाविवृत्तयो नाङ्गैः सम्बध्येरन् । पाठक्रमानुरोधात्तु तदाऽपि नैव व्युत्क्रमेण प्रयोगः । कर्मण्यनादृत्य सकृदेवा- नुवाकमध्यायं वा पठित्वाऽनुष्ठीयते ।

१९० मीमांसादर्शनम् [ सू० अग्निमूर्धेति योऽर्थः प्रतीयते, स मूर्धाग्निरित्यनेनापीत्यनर्थको नियमः । यस्य त्वहृष्टार्थता, तस्य क्रमान्यत्वे तदुच्चारणजन्यादृष्टप्रमाणाभावात्क्रमान्यत्वं न युक्तमिति नियमार्थवत्ता । अथ नियतप्रत्ययनाददृष्टं कल्प्येत, तदुच्चारणा- देवोपपद्यते, तदधीनत्वान्नियतप्रतीतेः । यस्तु दृष्टार्थेषु प्रकृतिप्रत्ययसमासेषु नियमो दृश्यते । यथेन्द्राग्नी नीलोत्पलं राजपुरुषश्चित्रगुर्निष्कौशाम्बिरिति । युक्तं यत्र विपर्ययेऽपशब्दार्थान्यत्वानर्थक्यप्रसङ्गात् । अजाद्यदन्तविशेषणत्वादि- निमित्तो हि तत्र नियतः पूर्वनिपातः स्मर्यते । तेनाग्नीन्द्रावित्यसाधुत्वं पुरुषराज इत्यर्थान्यत्वं कौशाम्बिनिरित्यनर्थकत्वम् । यस्त्वग्नीन्द्राविति क्वचित्प्रयोगः, स च्छान्दसोऽग्नेर्वाऽभ्यर्हितत्वस्य विवक्षयेति मन्तव्यम् । तुल्यकक्षार्थप्रतीता- विन्द्राग्नीपदमेव व्यवस्थितम् । नन्विहापि क्रमान्यत्वादमन्त्रत्वं स्यात् । तदेवार्थपरत्वे सति तद्विनाशे तु किं निमित्तमिति न विद्मः । तेन मन्त्रप्रसिद्धौ वाक्यनियमादित्यपि सूत्रम् । अथ वाऽस्तवप्रकरणाधीतवाक्यनियमात् । न ह्यर्था- भिधानेऽन्यदीयस्याऽऽत्मीयस्य च विशेषः । अथ वा मन्त्रपौरुषेयवाक्ययोस्तुल्येऽर्थाभिधानसामर्थ्ये मन्त्रवाक्य- नियमोऽदृष्टार्थः । अथ वाऽनेकध्यानादिस्मरणोपायप्रसङ्गे वाक्यनियमात् । न हि दृष्टेऽर्थे मन्त्रस्य ध्यानादेर्वा कश्चिद्विशेष इत्यहृष्टार्थता । न ह्यविद्वान्विहितोऽस्तीति (जै०सू० ३।८।८) इत्यवश्यं तावदग्नीध्राऽऽत्मीयाः पदार्थाः प्रागेव कर्मप्रक्रमादवगन्तव्याः । तत्र प्रैषः पिष्टपेषणन्यायेनार्थं ज्ञापयितु- मशक्नुवन्नहृष्टार्थो भवति । अथ स्मारको मन्त्र इत्युच्यते । तदपि नास्ति । ब्राह्मणज्ञानाभ्यासपाटवनििमत्तसंस्कारादेव तत्सिद्धेः । संस्काराभिव्यक्तिहेतुरपि पूर्वपदार्थसमाप्तिर्ब्राह्मणमेव वा भविष्यति, नार्थो मन्त्रैः । तत्र यदुच्यते संस्कार- विशेषो भविष्यतीति, नासावहृष्टादन्यः सम्भवत्यतः पूर्वपक्षापत्तिः । यदि हि प्रतीतोऽप्यर्थो नैव दृष्टं साधयति, ततो यत्तद् दूरमपि गत्वाऽवश्यं कल्पनीयम्, तदुच्चारणादेव वरमिति । न चतुःशृङ्गादि किञ्चित्कर्म, तत्सम्बन्धि वा प्रकृतौ, विकृतौ वा विद्यते । यद्यपि च गुणवादेन किञ्चित्स्यात्, तथाऽपि तदनुष्ठानाभावान्न तत्स्मृत्या कार्यम् । न च ज्ञायते क्व प्रदेशे प्रयुज्यतामिति । तत्र मन्त्रपाठक्रमानुरोधेनोच्चारणमापत- तीति सिद्धः पूर्वः पक्षः । मा मा हिंसीर्मा मा सन्ताप्तमित्यादीनि वेदिहविर्धाना- दिविषयत्वादचेतनेऽर्थेबन्धनादित्यत्राप्युदाहरणम् । इह त्वप्रसक्तायां हिंसायां प्रतिषेधानर्थक्यम् ।

३१ ] प्रथमाध्याये द्वितीयपादः १९१ ओषधे त्रायस्व, शृणोत ग्रावाण इति च सम्बोधनं कार्यनियोगाभिमुख्य- करणार्थम् । न चाचेतनस्याऽऽभिमुख्यं सम्भवति । न च पशुत्राणे, प्रातरनुवाक- श्रवणे वा प्रैषणे प्रवृत्तिरुपपद्यत इत्यानर्थक्यमर्थविवक्षायाम् । द्युत्वमन्तरिक्षत्वं चादितेः, एकानेकत्वं च रुद्रस्य विप्रतिषिद्धम् । न चैवं विप्रतिषिद्धोऽर्थः कर्मोपयिकः । कथं वाऽदितिर्देवताऽन्तरिक्षं द्यौर्वा भवेत् । न च स्तुत्यर्थतयाऽपि हेतुद्वयं परिहर्तुं शक्यम् । ब्राह्मणे हि विधिशेषभूताः स्तुतयोऽर्थवन्त्यो भवन्ति । मन्त्रस्तुतिस्त्वप्रयोजनत्वान्नाऽऽदर्तव्या । स्वाध्यायाध्यनस्य कर्मार्थत्वाद्यत्कर्मण्युपयोक्ष्यते, तदभ्यसितव्यम् । तच्चैवं विद्वांसः सन्तो वृद्धाः शिष्यानक्षरावधारण एव प्रवर्तयन्ति, सन्निहितेऽप्यर्थे न तद्वचनाभ्यासे । तेनावश्यं तेषामुच्चारणमेवाङ्गत्वेनाभिप्रेतमिति । केचित्पदार्था ज्ञानेनाविज्ञेयाः । केषाञ्चित्तु वाक्यार्थ एव न ज्ञायते । न च मन्त्रार्थः सत्तामात्रेणोपकरोति, क्रियावेलायामस्मर्यमाणमिति यदेकान्तेन शक्यं कर्तुमुच्चारणम्, तदेव कार्यमित्यवधार्यते । अर्थप्रकाशनपक्षे यस्य योऽर्थः, स एव तेन प्रकाशयितव्यः । केचिच्च।नित्यैर- कर्माङ्गभूतैश्चार्थैरर्थवन्तो मन्त्रा लक्ष्यन्ते । यथा किं ते कृण्वन्ति कीकटेषु गाव इति । अयं हि दृढेनाध्येतॄणां स्मरणेन विश्वामित्रस्याऽऽर्षं गम्यते । तेन किल कर्मार्थं धनं प्रार्थयमानेनेन्द्रोऽभिहितः । त्रैलोक्याधिपते याः कीकटेषु जनपदेषु गावस्तास्तव किं कुर्वन्ति ? ते हि नास्तिकाः किं क्रतुनेति वदन्तो न किञ्चित् कर्मानुतिष्ठन्ति । अतश्च ता नाऽऽशिरं सोमसंस्कारार्थं दुहत, न घर्मं तपन्ति । न घर्मतपने पयोदानेन साधनीभवन्ति । तस्मात्प्रमगन्दस्य कीकटाधिपतेर्यद्देवो धनम्, तदस्माकं नैचाशाखं नगरमाभर । हृह्रोर्भश्छन्दसीति भकारः । अथ वाऽस्मान्प्रति तद्विभृहि—धारय पोषय चेत्येतन्नो मघवन्त्राधया साधयास्माकमिति । छान्दसं दीर्घत्वम् । यद्येतद्विवक्षितम्, तथा सत्यादिमदर्थाभि- धानाद्वेदस्य कृत्रिमत्वेनाप्रामाण्यं प्रसज्यते । न चान्यो मन्त्रार्थः शक्यते वक्तुम्, प्रतीतेः । अतोऽर्थसदसद्भावमनादृत्याक्षरोच्चारणं फलवदाश्रयणीयमिति ॥३१॥ अथ चतुर्थं मन्त्राधिकरणम् ग्रन्थान्तरे त्वदर्श्यैकं सूत्रं तत्सिद्धिसूत्रवत् । व्याख्यायै खण्डशोऽपाठि भाष्यकारादिभिस्त्विदम् ॥ न्या० सू०—किमर्थवन्तो मन्त्रा, उतानर्थका इति वृत्त्यन्तरकारोपन्यस्तसन्देहत्यागेन भाष्यकारीयस्य सन्देहान्तरोपन्यासस्य कारणं परोपन्यस्तसन्देहस्य दुष्टत्वं वक्तुमुपन्यासं तावत् करोति—इहेति । मन्त्रानर्थक्यमित्यानर्थक्यश्रवणं भ्रान्तिकारणमुक्तं दूषयति— तत्त्विति । समुद्रो वा महासत्व इति वदिवार्थे वाशब्दः ।

श्लोकं व्याचष्टे — सर्वत्र हीति । उत्तरानानुगुण्यादप्यानर्थक्येन पूर्वपक्षो न युक्त इत्याह—न चेति । अवशिष्टस्तू वाक्यार्थ इति सिद्धान्तसूत्रेणाप्यर्थवत्त्वं सिद्धवद्वक्ष्यते । तच्चार्थाभिधानानादरे पूर्वपक्षीकृते, तन्निराकरणे च उभयपक्षसम्प्रतिपन्नं हेतुत्वेन वक्तुं युज्यते । आनर्थक्ये तु पूर्वपक्षीकृते अर्थवत्त्वमुत्तरं परं प्रति साध्यं स्यात्, न च प्रतिज्ञा- मात्रेण साधयितुं शक्यमित्यर्थः । प्रतिज्ञामात्रेण साध्यमुत्तरमेषामिति विग्रहः । अतः पूर्वपक्षासम्भवेन परोपन्यस्तसन्देहस्यायुक्तत्वात्तत्परित्यागेनान्यथोपन्यासो भाष्य- कारस्येत्याह—तस्मादिति । वचनम्=अर्थाभिधानम् । तत्किं कर्मकाले मन्त्रविधिना परि- गृहीतन्न वेत्यर्थः । एतदेवोत्तरभाष्येण विवृतम् । सतोऽर्थस्याविवक्षाकारणमपश्यन्निहापि विचारे पूर्वपक्षासम्भवमाशङ्कते—नन्विति । सतोऽप्यर्थस्योच्चारणैदमर्थ्याभावेनाविवक्षाया दर्शनात्पूर्वपक्षसम्भावनामाह—नैष इति । ननूच्चारणस्यार्थपरत्वाभावेऽर्थोऽनभिधेय एव स्यादित्याशङ्क्य नान्तरीयकत्वेनार्थाभिधानमुपपादयति—उच्चारणेति । उच्चारणनान्त- रीयकत्वं यदेकस्मादपूर्वं तदेतरत्तदर्थमित्यनेन न्यायेन दृष्टान्ततयोक्तम् । भाष्यकारीय- सन्देहसमर्थनमुपसंहरति — इत्यस्तीति । भाष्यकृताऽस्य विचारस्य प्रयोजनद्वारेण प्रमाणलक्षणसङ्गतिन्दर्शयितुं यद्युच्चारण- मात्रेत्यादिना विचारप्रयोजनमुक्तम् । तदाक्षिपति—कः पुनरिति । विचारस्वरूपवत्प्रयो- जनस्यापि शेषलक्षणासङ्गतत्वान्नास्य विचारस्य प्रमाणलक्षणसङ्गतिरित्यर्थः । समाधत्ते— पूर्वमेवेति । आम्नायसूत्रोक्तमक्रियार्थत्वेनाप्रामाण्यमेव मन्त्रेष्वपि यथापूर्वपक्षः, तथापूर्व- मेवार्थवादाधिकरणोपक्रम एव यानि त्वतिरिक्तान्यर्थवादमन्त्रनामधेयानुपात्तानि सोऽरोदीदि- पेत्वोजेंत्त्वोर्द्ध्विदेत्येवमादीनीत्यादिनोक्तमित्यर्थः । अनेनोच्चारणमात्रेणोपकारकत्वे बर्हिर्ल- वने 'बर्हिर्देवसदनं दामि' तिमन्त्रस्याप्रामाण्यम्; अभिधानेनोपकारकत्वे सामर्थ्यालोचनेन प्रामाण्यमिति, प्रामाण्याप्रामाण्यप्रयोजनत्वेन लक्षणसङ्गतिर्भाष्यकृता दर्शिता । धर्मप्रमाण- भूतविध्येकवाक्यत्वेनार्थवादप्रामाण्येऽभिहिते, तदभावान्मन्त्राणामप्रामाण्यमित्यर्थवादप्रामा- ण्यहेतुप्रत्युदाहरणरूपेण पूर्वपक्षवादिनः प्रत्यवस्थानादर्थवादविचारसङ्गतिः अथेदानीमिति वदता भाष्यकृतोक्ता कोऽर्थवादः को वा नेति कोष्ठशोधनेनाधिकरणद्वयस्यार्थवादाधिकरण- शेषत्वादव्यवधायकत्वमिदानी शब्देनोक्तं प्रकरणान्तरत्वेनानन्तराधिकरणसङ्गत्यभावो न दोषः । ननु यद्यक्रियार्थत्वेनाप्रामाण्यमत्र पूर्वपक्षः, ततो नोच्चारणं पूर्वपक्षेऽङ्गीकार्यम् । अर्था- नभिधानेऽपि कर्मकालोच्चारणस्यापि प्रयाजादिवदारादुपकारकत्वेन क्रियार्थत्वोपपत्तेरित्या- शङ्कयाह-तदुत्तरेणैवेति । तस्याक्रियार्थत्वेनाप्रामाण्यस्य यदुत्तरम्, तुल्यसाम्प्रदायिकत्वम्, चकारादध्ययनविधिदृष्टार्थत्वं च तेनैव मन्त्रेष्वक्रियार्थत्वशङ्कानिवृत्तेर्न पुनरक्रियार्थत्वमभि- हितमित्यर्थः । नैराकाङ्क्ष्यमुपपादयति-एवं हीति । क्रिया तत्संबन्ध्यनभिधायिनां तत्कालाप्रयोज्या- नामपि चार्थवादानां यत्र क्रियासम्बन्धापादनम्, तत्र मन्त्रेषु क्रियाकालप्रयोज्येषु तत्सम्बन्धे

३१ ] प्रथमाध्याये द्वितीयपादः १९३ कः सन्देह इत्यर्थः । अतोऽक्रियार्थत्वस्यात्र शङ्कितुमशक्यत्वात्किमुच्चारणमात्रेण क्रियार्थ- त्वम्, अभिधानेन वेति तद्विशेषविचारो भाष्यकारीयो युक्त इत्याह- तस्मादिति । नन्वेव- मपि लिङ्गादिवद्विधायकत्वेन अर्थवादवद्वा स्तावकत्वेन क्रियार्थत्वसम्भवात्किमित्युच्चारणेना- क्रियार्थत्वाङ्गीकरणमित्याशङ्क्याह- तत्रेति । स्वयमेव भाष्यकारः अपि वा प्रयोग- सामर्थ्यान्मन्त्रोऽभिधानवाची स्याद् (जै० सू० २।१।३१) इत्यत्र निराकरिष्यतीत्यर्थः । ननु मन्त्रत्वाविशेषात्साम्नामपीहोदाहरणत्वप्रतीतेस्तेषां चावाचकत्वादर्थपरत्वानु- पपत्तेरव्यापकः सिद्धान्तः स्यादत आह - सामसु त्विति । अर्थपरत्वाक्षराभिव्यक्तिपरत्वे साम्नामपि तद्द्वाराऽर्थपरत्वसम्भवात् किं तेषामात्मप्रयोगमात्रपरत्वम्, उताक्षरव्यक्तिपरत्व- मित्येतद्विषयः सन्देहो भाष्यकृतोक्त इत्यर्थः । नन्वेवमपि श्रुत्यसंयुक्तानां 'बर्हिर्देवसदनं दामी'त्यादीनामर्थपरत्वाभावे लैङ्गिकविनियोगासम्भवेन कर्मकालोच्चारणे प्रमाणाभावाद- व्यापकः पूर्वपक्षः स्यादिति शङ्कते - कथं पुनरिति । परमतेन परिहरति - केचिदिति । का तर्हि सन्देहविवरणभाष्यस्य गतिः ? अत आह-अत इति । अतो नैवैतदञ्जसे- त्यन्वयः । प्रयोजनभाष्यमपि गमयति--यदपीति । एवं त्वानर्थक्यापत्तेस्तस्य च सामान्योपयोगाभिधानेन प्रागेव निराकृतत्वाद्ब्राह्मणाना- र्जवापत्तेश्चापरितोषान्मतान्तरमाह - अथ वेति । दर्शनम् = सम्प्रदायः । समाचारः=प्रसिद्धि- रित्यनर्थान्तरम्, ननु प्रसिद्धेः स्मृतिरूपत्वेन निर्मूलायाः प्रामाण्यायोगात्सदसन्मूलत्वेन तामविचार्य सिद्धवद्विशेषविचारो न युक्त इति शङ्कते - किमर्थमिति । स्मृत्यधिकरणवक्ष्य- माणप्रामाण्यायाः सदाचाररूपायाः याज्ञिकप्रसिद्धेरसन्मूलत्वाशङ्का न युक्तेति परिहरति- तत्रेति । स्मृतिन्यायेन शिष्टत्रैवर्णिकदृढपरिग्रहेणैषां मन्त्राणां प्रयोगित्वं दृढमवस्थितम् । तस्य चानेन विचारेण मूलविशेषनिरूपणमित्यर्थः । याज्ञिकप्रसिद्धिबलेन कर्मकाले मन्त्रोच्चारणाभ्युपगमे पूर्वपक्षेऽपि बर्हिलवनादावेव बर्हिर्देवेत्यादीनामुच्चारणापत्तेर्न नियोगतो बर्हिर्देवसदनं दामीत्येष बर्हिषां लवने विनियु- ज्येतेति भाष्यमयुक्तं स्यादित्यपरितोषात्स्वमतेनार्थपरत्वाभावेऽपि कर्मकाले मन्त्रोच्चारण- मुपपादयन्पूर्वपक्षमारभते-अथ वेति । नन्वदृष्टार्थत्वेनाप्यध्ययनविधिविहितस्याध्ययनस्य पुरुषार्थानुबन्धित्वोपपत्तेः कथं कर्मकाले मन्त्रोच्चारणाध्यवसानम् अत आह तथा हीति । प्राकृताङ्गनिराकाङ्क्षाया विकृतेरुभयाकाङ्क्षालक्षणप्रकरणायोगात्तद्विषयं क्रम- ग्रहणं सर्वाङ्गसाधारणस्य न्यायस्य दर्शयितुं यावच्छब्दः अङ्गत्वप्रतिपत्त्युत्तरकालीनः फलेनोपकारत्वेन स्वीकारोऽभिहितः । ननु श्रुत्ययुक्तानां मन्त्राणां क्रमप्रकरणपठितानां विध्यभावेन कैमर्थ्यानपेक्षणादध्ययन- विधौ च कर्मासन्निधानाद्विश्वजिन्यायेन स्वर्गार्थत्वावसायात् गोदोहनादिवत्क्रमप्रकरणसं- स्पर्शोऽप्यङ्गत्वेन स्वीकारो न युक्त इत्याशङ्कयाह - मन्त्रेति । स्वीक्रियत इत्यनुषङ्गः । १३