भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 233, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 233

३१ ] प्रथमाध्याये द्वितीयपादः १८१ त्रिपादं द्विशिरस्कं सप्तहस्तं किंचिद् यज्ञसाधनमस्ति । तदत्राभिधानार्थः किमभिदध्यात् । उच्चारणार्थे त्ववकल्प्यते । तथा मा मा हिंसीरित्यसत्यामपि हिंसायां किमभिदध्यात् ॥ अचेतनेऽर्थबन्धनात् । अचेतनेऽर्थे खल्वर्थं निबध्नन्ति, ओषधे त्रायस्वनैनमिति । अभिधानेनोपकुर्वन्त एवंजातीयका ओषधि पशुप्राणाय प्रतिपादयेयुः । न चासावचेतना शक्या प्रतिपादयितुम् । उच्चारणार्थे तु नैष दोषो भवति । तस्मादुच्चारणार्थाः । शृणोत ग्रावाणः (तै० सं १।३।१३) इति चोदाहरणम् ॥ अर्थविप्रतिषेधात् । अर्थविप्रतिषेधोऽपि भवति । अदितियोंरदितिरन्तरिक्षमिति (तै०आ० १।१३) सैव द्यौस्तदेवान्तरिक्षमिति को जातुचिदवधारयेत् । अनवधारयंश्च किमभिधाने- नोपकुर्यात् । उच्चारणमात्रे तु नैष विरोधो भवति । तस्मादुच्चारणार्था मन्त्राः । एको रुद्रो न द्वितीयोऽवतस्थे, असंख्याताः सहस्राणि, ये रुद्रा अधि भूमियमिति (वा० सं० १६।५४) चोदाहरणम् । स्वाध्यायवद्वचनात् । स्वाध्यायकाले पूर्णिकाऽवहन्ति करोति । माणवकोऽवहन्तिमन्त्रमधीते । नासौ तेन मन्त्रेण तदभिधानमभ्यस्यति अक्षरानुपूय्र्या अवधारण एव यतते । येन च नाम प्रयोजनम्, तदभ्यसितव्यम् । अत उच्चारणाभ्यासादुच्चारणेन प्रयोजनमित्यवगच्छामः ॥ अविज्ञेयात् । अपि च केषाञ्चिन्मन्त्राणामशक्य एवार्थो वेदितुम् । यथा अम्यक् सात इन्द्र ऋष्टिरस्मे (ऋ० सं० २।८) इति । सृण्येव जर्भरी तुर्फरीतू (ऋ० सं० ८।६।२) इति । इन्द्रः ऽसोमस्य काणुका इति च । एते किं प्रत्याययेयुः । उच्चारणार्थे तु न दोषः । तस्मादुच्चारणार्था मन्त्रा इति ॥ अनित्यसंयोगान्मन्त्रानर्थक्यम् ॥ १.२.३१ ॥ शा० भा०-अनित्यसंयोगः खल्वपि भवेन्मन्त्रेष्वभिधानार्थेषु । यथा किं ते कृण्वन्ति कीकटेषु गावः (ऋ० सं० ३।५३।२१) इति । कीकटा नाम जनपदा । नैचाशाखं नाम नगरम् । प्रमगन्दो राजेति । यद्यभिधानार्थाः, प्राक् प्रमगन्दान्नायं मन्त्रोऽभूतपूर्वं इति गम्यते । तदेतैस्तदर्थंशास्त्रादिभिः कारणैर्मन्त्राणामविवक्षित- वचनता ॥ ३१ ॥ इति पूर्वपक्षः ।