भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 234, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 234

१८२ मीमांसादर्शनम् [ सू० भा० वि०-सङ्गतिं वदन् विषयसंशयौ दर्शयति-अथेत्यादिना । इति शब्दादूर्ध्वं विचार्यत इत्यध्याहारः अत्र धर्मप्रमाणभूतविध्येकवाक्यतथार्थवाद- प्रामाण्येऽभिहिते सति, विवक्षितार्थत्वेन मन्त्राणां तदन्तर्भावादप्रामाण्यमित्यर्थ- वादहेतुप्रत्युदाहरणेन पूर्वपक्षवादिना प्रत्यवस्थानादस्यार्थवादविचारसङ्गतिरथ- शब्देनोक्ता कोऽर्थवादः ? को वा न ? इति कोष्ठशोधनिकात्मकस्याधिकरणद्वय- स्यार्थवादाधिरणशेषत्वादव्यवधायकत्वमिदानीमित्यनेन दर्शितम्, प्रकरणान्त- रत्वाच्चास्य समनन्तरसङ्गत्यभावो न दोषाय । विवक्षितमनन्यपरं वचनमर्था- भिधानं येषां ते, तथा अत्र चार्थवतामपि वाक्यानामुभयथा प्रयोगदर्शनात् संशयः निवक्षितवचनत्वमपि मन्त्राणां न विधित्वेन स्तुतित्वेन वा, किन्तु विहितार्थ- प्रकाशतया अनुष्ठानाङ्गत्वेनेति दर्शयन् संशयं विवृणोति-किमर्थेति । विना- नुष्ठेयार्थस्मृ्येति मात्रचोऽर्थः, पूर्वोत्तरपक्षप्रयोजनमाह-यद्युच्चारणेति । पूर्वपक्षे सामान्यविनियोगस्य प्रकरणसिद्धत्वेऽपि, यस्य बर्हिर्देवसदनं दामीत्यादेर्विशेष- विनियोगश्रुत्यभावः तस्य नियोगतो बर्हिर्लवणादौ प्रयोगे प्रमाणमिति कर्म- विशेषानादरेण यत्र क्वचन प्रयोगप्रसङ्गः, सिद्धान्ते तु सिद्धे सामान्यविनियोगे सामर्थ्यादेव विशेषविनियोगसिद्धेः, आन्तरेणापि वचनं कर्मविशेषादरः फलमित्यर्थः, तत्र एवं विचारे सतीत्यर्थः, एतदिति मन्त्रोपकारकत्वम्, एवमित्युक्तमुपकारकत्व- प्रकारमाह-उच्चारणेति । यद्यपि कर्मकालप्रयोज्यानामपि मन्त्राणामर्थाभिधाना- र्थता प्रतीयते तथापि ध्यानादिनापि अनुष्ठासिताथैस्मृतिसिद्धेरभिधानार्थत्वेऽपि अदृष्टकल्पनासाम्यादुच्चारणाभिधानार्थत्वसन्देहे उच्चारर्णविनार्थ प्रत्ययासिद्धेः प्राथम्यावश्यकत्वाभ्यामुच्चारणार्थतैव न्याय्येवि भावः । एवं न्यायबलेन मन्त्र- मात्रस्यादृष्टार्थतामुक्त्वा, तद्विशेषेषु लिङ्गबलेनापि तद्वक्तुं पृच्छति-कुत इति । सूत्रेणोत्तरमाह-तदर्थेति । यस्मिन्नर्थे मन्त्रस्याभिधानसामर्थ्यम्, तस्मिन्नेव विनि- योजकशास्त्रदर्शनात् न सामर्थ्यं विनियोजकमिति व्याचष्टे-यदीति । यद्यपि परिहारसूत्रक्रमानुरोधेनास्मिन् सूत्रे अभ्यादानशास्त्रमारभ्योदाहर्तव्यम्, तथापि कथञ्चिदुदाहृतैरपि प्रकृतमन्त्रानर्थक्यसिद्धेः व्यत्यासेनोपन्यास इत्यवगन्तव्यम् । ननु सामर्थ्यस्यापि दर्शनात् कथं शास्त्रस्यैव विनियोजकत्वमत आह-- वचनमिति । इदमिति वचनस्य प्रत्यक्षत्वाभिधानेनार्थाभिधानेनोपकारस्य प्रति- पन्नत्वेनानादेयत्वं सूचयति, उच्चारगोपकारत्वपक्षे तु विनियोजकान्तराभावात् शास्त्रमर्थवदित्याह-अथेति । न च विनियोगे विगानमिति वदन्निदमित्युक्तं विवृणोति-उक्तञ्चेति । नार्थाभिधानेनोपकुर्वन्तीत्यनुषङ्गः, मन्त्ररूपालोचनाया- मपि परेण विनियोगं दृष्ट्वा तदभावं प्रत्येष्यत इत्यत्र दृष्टान्तमाह--तद्यथेति । साक्षत्वं च प्रतिभासतो न वस्तुतः । लिङ्गप्रकरणानुमितमन्त्रविधिरतुत्यर्थत्वेना-