मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 235, कुल 804 में से
संदर्भ में पढ़ें३१ ] प्रथमाध्याये द्वितीयपादः १८३ प्यर्थवत्त्वान्नार्थकमिति चोदयति-नन्विति । परिहरति-नहोति । तत्र हेतुर्यथेति येनेति विधिना एकवाक्यत्वमर्थवत्त्वे कारणमुक्तमर्थवादाधिकरण इत्यर्थः, ततः किमत आह-नचेति । मन्त्रलिङ्गेन प्रकरणेन वा कल्पितस्य विनियोगविधेः स्वात्मसमीपे अर्थवादमपश्यतः स्वयमेव प्ररोचनाशक्त्याविर्भावेन निवृत्तापेक्षत्वात् न दूरस्थया स्तुत्या प्रयोजनमित्यर्थः, फलितमाह-अथ इति । इह तु शास्त्रस्यार्थवादत्वाभावेऽपि गुणविधित्वमस्त्विति शङ्कां, निराकर्तु- मस्यैव सूत्रस्योदाहरणान्तरमाह-तथेति । अभ्यादानसमर्थाः=अभ्यादाना- भिधानसमर्था इत्यर्थः । तत्र सूत्रं योजयति-लिङ्गादिति । "देवस्य त्वा सवितुः- प्रसवेऽश्विनोर्बाहुभ्याम्, पूष्णो हस्ताभ्याम्, गायत्रेणच्छन्दसा ददेऽङ्गिरस्वत् अग्निरसि नारिरसि पृथिव्यास्सदस्त्यादग्निं पुरीष्यं अङ्गिरस्वदा भर त्रैष्टुभेन त्वाच्छन्दसामुददेऽङ्गिरस्वत् बभ्रिरसि नारिरसि त्वया वयं सदस्थ अग्निं शकेम खनितुं पुरीष्यं जागतेन त्वाच्छन्दसा ददेऽङ्गिरस्वत्" इत्येतेषां चतुर्णामपि मन्त्राणामादद इत्यभिधानसामर्थ्यादादाने प्राप्तत्वेऽपि चतुर्भिरित्यादिवचनेनादान एव ते विधीयन्ते तच्चानर्थकमित्यर्थः । चतुःसङ्ख्यालक्षणगुणविधानार्थं पुनर्व- चनमर्थवदिति चोदयति-चतुस्सङ्ख्येति । सङ्ख्याया अवच्छेदकत्वदर्शना- न्मन्त्राश्रयायाश्च सङ्ख्याया क्रियावच्छेदकत्वासम्भवात् मन्त्रावच्छेदकत्वस्य च विधानमन्तरेणापि सिद्धेरनर्थकं तदभिधानमिति, परिहरति-अन्तरेणेति । लिङ्गाद्विकल्पप्राप्तौ समुच्चयार्थं वचनमिति, शङ्कते-समुच्चयेति । च शब्दादेः तद्वाचकस्याभावान्मैवमित्याह-नेति । चशब्दाद्यभावमन्त्रसङ्ख्ययोः परस्पर- नियमादरुणैकहायनोवत् क्रियाऽङ्गत्वेन समुच्चयः स्यादित्यपि न वाच्यं लिङ्ग- प्राप्ततया मन्त्राणामविधेयत्वेन सङ्ख्याविशिष्टमन्त्रविधेरसम्भवात् अरुणैकहायनी, न चैवं पूर्वपक्षेऽपि विकल्पप्रसङ्गे मन्त्रेष्विति वाच्यम्, चतुर्भ्योऽदृष्टनिष्पत्तेर्वचन- गम्यत्वेन समुच्चयस्यैव युक्तत्वादिति भावः, अत्र तर्हि विधित्वाभावेऽपि भवेत् परिसङ्ख्यानादर्थवत्त्वमिति शङ्कां निरसितुमुदाहरति-तथेति । कथमिदमस्यो- दाहरणमित्याशङ्क्य सूत्रं योजयति-रशनेति । विवक्षितार्थत्वे हि रूपादेव रशनादाने प्राप्तस्य मन्त्रस्य तत्रैव विनियोजकं शास्त्रं स्यात्, यच्च घटत इति योजना । अस्तु तर्हि परिसंख्याविधित्वमित्याह-नन्विति । गर्दभरशनां वर्ज- नीयतया बोधयति शास्त्रमित्यर्थः, ततश्च नापूर्वविधित्वमित्याशयः । सिद्धान्त्याह-न शक्नोतीति । तत्र हेतुः परिसञ्चक्षाणो हीति-विधिरित्यर्थः । अयमाशयः इह कदाचिदश्वाभिधानीमादत्त इति वचनव्यक्तिमाश्रित्यादाने गर्दभ- रशनायाः परिसङ्ख्या स्यात्, कदाचिदित्यश्वाभिधानीमितिवचनव्यक्त्या मन्त्रे स्यात्, उभयथापि दोषत्रयापत्तिः, तथा हि विधिपरत्वेन प्रतीयमानस्य तथात्वा- नभ्युपगमरूपस्वार्थहानिरेकः, परस्य गर्दभरशनां नेत्यस्य वाक्यस्यार्थ एवार्थो