मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 236, कुल 804 में से
संदर्भ में पढ़ेंयस्य स परार्थं रशनादानमन्तरेण बन्धुमशक्यतयार्थात्प्राप्तस्य गर्दभरशनादानस्य मन्त्रलिङ्गादवगतस्य मन्त्रगर्दभाभिधानीसम्बन्धस्य च बाधः प्रसज्येतेत्यन्य इति दोषत्रयापत्तेः न परिसङ्ख्या युक्तेति । ननु परिसङ्ख्यानङ्गीकारे वाक्यस्य का गतिरित्याशङ्क्यादृष्टार्थत्वे मन्त्राणां विनियोगापेक्षत्वादपूर्वविधित्वमेवेत्यभिसन्धाय सूत्रार्थं निगमयति—तस्मान्नेति । अविवक्षितार्थत्वेऽपि किमित्याशङ्क्य पूर्वोक्तं पूर्वपक्षप्रयोजनं स्मारयन्नाह— अत इति । विनियोजकशास्त्रवैयर्थ्यप्रसङ्गान्न मन्त्रसामर्थ्यं मन्त्रविनियोगे प्रमाणमित्यर्थः । न चैवं विनियोजकशास्त्रहीनानां बर्हिर्देवैत्यादीनां कर्मविशेषनियत: प्रयोगो न स्यादिति वेदितव्यम् प्रयोगपरिग्रहेण प्रधानसम्बन्धिनामेव सतामङ्गाविशेषा- सम्बन्धिनामपि पाठक्रमानतिक्रमेण यत्र क्वचिदपि प्रयोगसम्भवेऽनिष्टापादनत्वा- दित्यभिहितम् । मन्त्राणामविवक्षितवचनत्वे लिङ्गान्तरमाह—वाक्यनियमादिति । सिद्धान्ता- सम्भवहेतुपरतया सूत्रं व्याचष्टे—न विपर्ययेणेति । नानियतपदक्रमादित्यर्थः, ततः किमत आह—यदीति । अग्निमूर्धेति योऽर्थः प्रतीयते नमूर्धाग्नि- रित्यनेनापि प्रतीयत एवेत्यनर्थको नियम इत्यर्थः, सम्प्रति पूर्वपक्षसाधकहेतुपर- तया सूत्रं व्याचष्टे—अथेति । नियतपदक्रम एवोच्चारणविशेषोऽदृष्टाय भवतीति तदर्थश्चेदयं नियम इत्यर्थः, तदा विपर्यये क्रमान्यत्ववदुच्चारणस्यान्यत्वात्तदु- च्चारणजस्यादृष्टतदभावे प्रमाणभावाच्चियमोऽर्थवानित्याह—विपर्यय इति । नन्वस्मत्पक्षेऽपि नियतपदक्रमैरेव वाक्यैरर्थप्रत्यायनाददृष्टं कल्प्यते तेनार्थ- वानेव नियम इत्याशङ्क्य तर्ह्यर्थप्रत्यायनस्य उच्चारणाधीनत्वात् प्राथम्यावश्य- कत्वाभ्यां उच्चारणार्थं एवायं नियमो युक्त इत्याह—अन्यतरस्मिन्निति । उच्चारणाभिधानपक्षयोरनयोर्मध्ये यस्मिन्पक्षे क्रमनियमः प्रयोजनातिशयवान् स एवोपादेयः पक्ष इत्यर्थः । नन्वर्थवतामपि वाक्यानां क्वचित्क्रमनियम आश्रीयते तस्मान्न तेनार्थविवक्षा साधयितुं शक्येति चोदयति—नन्विति । वैषम्येणोत्तरमाह—युक्तमिति । तत्र नियमाश्रयणमित्यर्थः, तत्र हेतुर्विपर्यय इति, नचाग्नीन्द्राविति प्रयोगेऽप्यर्थप्रत्यय- दर्शनादसिद्धो हेतुरिति शङ्कनीयम् यथेन्द्राग्नी इत्यनेनोपलक्षितोदाहरणान्तर- विषयत्वादस्य, तथा हि—इन्द्राग्नी निष्कौशाम्बिरित्यादीन्युदाहरणानि अत्राभि- संहिनानि, अर्थप्रत्ययाभावादित्यत्रापि शब्दासाधुत्वमर्थप्रत्ययाभावरूपं चानर्थक्य- मित्यादयो दोषा विवक्षिताः, तत्रेन्द्राग्नी इत्यस्य विपर्यये शब्दासाधुत्वमजाद्यजन्त- मिति इन्द्रशब्दस्य पूर्वनिपातस्मरणात् निष्कौशाम्बिरित्येतद्विपरीतस्य कौशाम्बि- निरित्यस्य निरादयः क्रान्ताद्यर्थे पञ्चम्येति प्रथमानिर्दिष्टत्वेन निश्शब्दस्योप-