मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 232, कुल 804 में से
संदर्भ में पढ़ें१८० मीमांसादर्शनम् [ सू० विनियोगः, उक्तश्च । अतो नार्थाभिधानेन । यथा साक्षः पुरुषः परेण चेन्नीयते, नूनमक्षिभ्यां न पश्यतीति गम्यते । नन्वर्थवादार्थं भविष्यतीति चेत्, न हि । येन विधीयते तस्य वाक्यशेषोऽर्थ- वाद इत्युक्तम् । न च निरपेक्षेण विहितेऽर्थवादेन किंचिदपि प्रयोजनं क्रियते । अतो नार्थवादार्थं वचनम् । तथाऽभ्यादानसमर्था मन्त्रा उदाहरणम् । लिङ्गादेवाऽऽदाने प्राप्ता वचनेन विधीयन्ते । तां चतुर्भिरादत्ते (तै० सं० ५।१।१) इति । चतुःसंख्यार्थमिति चेन्न । समुच्चयशब्दाभावात् । तथा, इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्ते (श० ब्रा० १३।१।२। २१) इत्युदाहरणम् । रशनादाने (तै०सं० ५।१।२) प्राप्तस्य रशनादान एव शास्त्रं विनियोजकम् । तद्विवक्षितार्थत्वे न घटेतेति । ननु गर्दभरशनां परिसंख्यास्यति । न शक्नोति परिसंख्यातुम् । परिसंख्याह्यो हि स्वार्थं जह्यात्, परार्थं च कल्पेत, प्राप्तं च बाधेत । तस्मान्न विवक्षितवचना मन्त्राः । अतो न प्रमाणं बर्हिर्देवसदनं दामीत्यस्य रूपं बर्हिर्लवने विनियोगस्य । वाक्यनियमात् । नियतपदक्रमा हि मन्त्रा भवन्ति । अग्निमूर्धा दिवः (तै० सं० १।२।५।१) इति, न विपर्ययेण । यद्यर्थप्रत्यायनार्था विपर्ययेणाप्यर्थः प्रतीयत इति नियमोऽनर्थकः स्यात् । अथोच्चारणविशेषार्था विपर्ययेऽन्यदुच्चारणमिति नियम आश्रीयते । तेनान्यतरस्मिन् पक्षे नियमोऽर्थवान् स नूनं पक्ष इति । नन्वर्थवत्स्वपि नियमो दृश्यते । यथा--इन्द्राग्नी इति । युक्तं तत्र तत् । विपर्ययेऽर्थप्रत्ययाभावात् । बुद्धशास्त्रात् । बुद्धे खल्वपि पाठदार्थे तदभिधानसमर्थो मन्त्रो भवति । अग्नीदग्नीन् विहर इति । स बुद्धे किं बोधयेत् । अथ तूच्चारणविशेषार्थाः, बुद्धेऽप्यु- च्चारणविशेषोऽवकल्प्यतेति । ननु पुनर्वचनात्संस्कारविशेषो भविष्यति । एव- मस्मत्पक्षमेवाऽऽश्रितोऽसि । वचनमुच्चारणम् । तद्धि शक्यते कर्तुं नार्थप्रत्या- यनम् । तत्प्रतीतेऽशक्यम् । यथा सोपानत्के पादे द्वितीयामुपानहमशक्यत्वा- न्नोपादत्ते ॥ अविद्यमानवदनात् । यज्ञे साधनभूतः प्रकाशयितव्यः । न च तादृशोऽस्ति यादृशमभिदधति । यथा चत्वारि शृङ्गाः (तै० आ० १०।१०।१७) इति । न हि चतुः शृङ्गं