मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 229, कुल 804 में से
संदर्भ में पढ़ें३० ] प्रथमाध्याये द्वितीयपादः १७७ त० वा० — अभ्युपेत्यवादोऽयम् ! यद्यपि हेतुविधानम्, तथाऽपि न दर्विपिठ- रादेः प्रसङ्गः । कुतः ? शूर्पं हि विधायाऽन्नकरणं हेतुरुच्यते । सोऽपि च न लोके प्रसिद्धः । शब्दमेव दृष्टान्तवाचिनमनुमाय साधयितव्यः । तदनुमाने च श्रुतहेतु- त्वान्यथानुपपत्तिः प्रमाणम्, सा च यावत्येव हेतुत्वमुपपन्नम्, ततोऽधिककल्पनायै न प्रभवति । शूर्पे च होमसम्बन्धित्वेन प्रतिज्ञातेऽन्यधर्मस्याहेतुत्वादवश्यं तद्- गतमेवान्नकरणत्वं वक्तव्यम् । सन्निधेश्च तदवच्छिन्नमेव तद्गम्यते । लोकेऽपि च यं धर्मिणं प्रतिज्ञाय, यो हेतुरुपदिश्यते, स प्रथमं तावत्तद्गतविशेषात्मनैव प्रतीयते । तदात्मकस्य तु साध्यांशानुगमाभावात्सामान्यमात्रं विवक्षितमिति, दृष्टान्तप्रयोगवेलायामेवावधार्यते । वेदहेतूनां पुनर्न सामान्यात्मना साध्यसम्ब- न्धोऽवगतः, न विशेषात्मना । सोऽधुनैवार्थापत्त्या कल्पनीयः । तत्र विशेषस्यो- पादानात्सामान्याप्रसिद्धेश्च तत्परित्यागनिमित्तस्यासम्भवादुपात्तविशेषमात्रोप- संहृतान्यथानुपपत्तिस्तद्गतमेव दृष्टान्तवचनं कल्पयति । तदकल्पने हि हेतु- निर्देशः श्रुतो विरुध्यते । यदि तु दर्विपिठरादिगतान्नकरणत्वहोमसम्बन्धाविना- भावो न कल्प्यते । न किंचिच्छ्रुतम्, दृष्टं वा नावकल्पते । तस्मादीदृशं दृष्टान्त- वचनं कल्प्यं यच्छूर्पमन्नकरणम्, तेन तेन जुहोतीति । तदेतद्विशेषदृष्टमनुमानम् । लोकेऽपि तृणधूमदर्शनात्तृणाग्निरेवानुमीयते, नाग्निमात्रम् । यथा च गमनं गोशब्दव्युत्पत्तिनिमित्तत्वेनोपादीयमानं सास्नादिमत्सामान्यप्रत्ययोत्तरकालं तद्ग- तमेव निमित्तत्वं प्रतिपद्यते, न गन्तुमात्रविषयमिति, गोशब्दव्यवस्था । तथा शूर्पगतान्नकरणहेत्वपदेशान्नान्यगतहेतुत्वप्रसङ्गः । तन्नैतावानर्थः स्यात् – यद्यन्नकरणसमर्थं शूर्पम्, तेन तेन होतव्यम्, न दर्वि- पिठरादिग्रहणम् । यथा वलवदुपध्मातेऽग्नौ दहनहेतुत्वेनोक्ते, स एवानुपध्मातो न दहेन्न तु शङ्खादयो बलवदुपध्माता दहन्ति । तस्माद्व्यवस्था । यदि पुनः शूर्पगतान्नकरणव्यतिरेकेण महासामान्यं विवक्ष्यते ततो यद्यद्गृहीतम्, तस्य तस्य काचिदन्ननिमित्तता विद्यत इत्यव्यवस्थितत्वाद्धोमाक्षिप्तद्रव्यमात्रानुवादः सन्न- नर्थकोऽन्नकरणशब्दः । तस्मादन्नहेतुत्वेन स्तुतित्वमेव वरमिति ॥ ३० ॥ इति हेतुवन्निगदाधिकरणम् ॥ ३ ॥ न्या० सू०—यद्यपि च भवेदित्यनुज्ञादर्शनाद्विधिपक्षोऽपि सम्मत इति कस्यचिद् भ्रान्तिः स्यात्, तन्निवृत्त्यर्थमाह — अभ्युपेत्येति । अस्य च प्रयोजनं 'चतुर्गृहीतान्याज्यानि भवन्ति, न ह्यत्रानुयाजानिति बहुवचनात्सर्वानुयाजाभावस्य हेतुत्वावगतेरवभृथे बर्हिरनु- याजमात्राभावेऽतिप्रसङ्गन्निवृत्तिः तद्भाष्यं व्याचष्टे — यद्यपीति । अत्यन्तसाधकतमत्वा- भावेऽप्यापेक्षिकसाधकतमत्वप्रदर्शनाय भाष्ये दर्विपिठरप्रकाराणामित्युक्तम् । निर्देशादित्ये- १२