भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 228, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 228

१७६ मीमांसादर्शनम् [ सू० भा० वि०—अभ्युपगम्यापि हेतुपरत्वं न दर्व्यादौ प्रसङ्ग इत्याह—यदि च हेतुरिति । यदि चेत्यादिसूत्रभागं व्याचष्टे—यद्यपि चेति । दर्वीपिठरप्रकाराणां दर्वीपिठरजातीयानामन्नकरणत्वं हेतुः यद्यपि भवेत्, तथापि स हेतुः शूर्प एव व्यवतिष्ठेतेत्यन्वयः, दर्वीपिठरप्रकाराणामित्यनेनात्यन्तसाधकतमत्वाभावेऽपि दर्व्यादिसाधारणं साधकतमत्वरूपं करणत्वं शूर्पस्य दर्शितम् । ननु कथं शूर्पगतमेवान्नकरणत्वं हेतुः स्यादित्याशङ्कयानिर्देशादिति सूत्रमात्रं व्याचष्टे—शब्दादिति । नत्वकरणत्वसत्तामात्रेणेत्यर्थः, हेतोः शब्दनिर्दिष्टत्वे सत्यपि कथं व्यवस्थेत्यत आह—शब्दवृत्तेरिति । शूर्पगतस्यान्नकरणत्वस्यैव हेतुत्व- माहेत्यर्थः, कथमिदमवगम्यते ? तत्राह—तद्धीति । शूर्पं हि होमसम्बन्धितया निर्दिश्यते=प्रतिज्ञायत इत्यर्थः । अन्यस्मिंश्च प्रतिज्ञातेऽन्यगतस्य हेतुत्वायोगात् शूर्पगतमेवान्नकरणत्वं हेतुरिति भावः तत्र सिद्धं वाक्यार्थमाह—यस्मादिति । शूर्पेण जुहोतीति इति तेन वाक्यार्थस्सिद्धो भवतीति शेषः । ननु यस्माद्धूमवान् पर्वतः तस्मादग्निमानित्यादौ यथा न पर्वतगतत्वं विशेष- णमादाय हेतुत्वम्, तद्वदिह किं न स्यादित्याशङ्क्य नेदं सामान्यतो दृष्टं किंतु विशेषतो दृष्टमत उदाहरति—यथेति । नह्यत्र बलवदुपाध्मातत्वमात्रं गृहदाह- कत्वे हेतुः शङ्खादेरपि प्रसङ्गात् तेनाग्निगतत्वेन विशेषितं तद्वदत्रापि इति भावः, “सामान्यादिति चेत्” इति सूत्रावयवं व्याचष्टे—अन्येनापीति । अन्येन दर्व्यादिनेत्यर्थः, तेनेति तृतीया सर्वनामार्थस्य शूर्पस्य बाधादन्नकरणत्व- मात्रं हेतुः स्यादिति शङ्कार्थः । सूत्रशेषेणोत्तरमाह—अव्यवस्थेति । तथा सतीति- शेषः, अतिप्रसङ्गं विवृणोति—न केनचिदिति । सर्वेणापि यथाकथञ्चित् क्रियत इत्यर्थः, तत्र च विधिवैयर्थ्यमित्याह—तत्रेति । जुहोतीत्युक्तेऽपि येन केनचिद्धो- तव्यमिति तावत् प्रतीयते अन्नकरणेनेत्युक्तेऽपि सर्वस्यान्नकरणत्वात् सर्वेण च होतुमशक्यत्वाद्येन केनचिदित्येव प्रतीयते, ततो विधिरनर्थकः स्यादिति प्रत्यय- स्यैव बाधः, तस्माद्धेतुत्वाभ्युपगमेऽपि शूर्पगतमेवान्नकरणत्वं हेतुरिति भावः, एवमभ्युपगम्यापि हेतुत्वं व्यवस्था मुक्त्वाभ्युपगमं त्यजन् स्वपक्षे हेत्वनभिधानाद्धि शब्दानुपपत्तिमाशङ्क्य परिहति—अस्मत्पक्ष इति । प्रसिद्धान्नकरणत्वाभिधानेन स्तुत्यर्थो हिशब्द इत्यर्थः । ननु कथमस्य स्तुतिपरत्वम् ? वृत्तान्तपरत्वप्रतीतेरत आह—वृत्तान्तेति । वृत्तान्तस्य मानान्तरसिद्धतया तज्ज्ञानेऽनुपयोगात् स्तुतिपरत्वमेव वाक्यस्यावग- म्यते इत्यर्थः, तस्मद्धिवन्निगदानामिवैषामपि स्तुतिपरत्वमेवेत्यधिकरणार्थ- मुपसंहरति—तस्मादिति । शूर्पस्यापि मुख्यकरणत्वाभावात् विधौ च लक्षणा- योगात् हेतुत्वानुपपत्तेरिति । इतरधिकरणसमाप्तिं द्योतयति ॥ ३० ॥