भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 245, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 245

३१ ] प्रथमाध्याये द्वितीयपादः १९३ कः सन्देह इत्यर्थः । अतोऽक्रियार्थत्वस्यात्र शङ्कितुमशक्यत्वात्किमुच्चारणमात्रेण क्रियार्थ- त्वम्, अभिधानेन वेति तद्विशेषविचारो भाष्यकारीयो युक्त इत्याह- तस्मादिति । नन्वेव- मपि लिङ्गादिवद्विधायकत्वेन अर्थवादवद्वा स्तावकत्वेन क्रियार्थत्वसम्भवात्किमित्युच्चारणेना- क्रियार्थत्वाङ्गीकरणमित्याशङ्क्याह- तत्रेति । स्वयमेव भाष्यकारः अपि वा प्रयोग- सामर्थ्यान्मन्त्रोऽभिधानवाची स्याद् (जै० सू० २।१।३१) इत्यत्र निराकरिष्यतीत्यर्थः । ननु मन्त्रत्वाविशेषात्साम्नामपीहोदाहरणत्वप्रतीतेस्तेषां चावाचकत्वादर्थपरत्वानु- पपत्तेरव्यापकः सिद्धान्तः स्यादत आह - सामसु त्विति । अर्थपरत्वाक्षराभिव्यक्तिपरत्वे साम्नामपि तद्द्वाराऽर्थपरत्वसम्भवात् किं तेषामात्मप्रयोगमात्रपरत्वम्, उताक्षरव्यक्तिपरत्व- मित्येतद्विषयः सन्देहो भाष्यकृतोक्त इत्यर्थः । नन्वेवमपि श्रुत्यसंयुक्तानां 'बर्हिर्देवसदनं दामी'त्यादीनामर्थपरत्वाभावे लैङ्गिकविनियोगासम्भवेन कर्मकालोच्चारणे प्रमाणाभावाद- व्यापकः पूर्वपक्षः स्यादिति शङ्कते - कथं पुनरिति । परमतेन परिहरति - केचिदिति । का तर्हि सन्देहविवरणभाष्यस्य गतिः ? अत आह-अत इति । अतो नैवैतदञ्जसे- त्यन्वयः । प्रयोजनभाष्यमपि गमयति--यदपीति । एवं त्वानर्थक्यापत्तेस्तस्य च सामान्योपयोगाभिधानेन प्रागेव निराकृतत्वाद्ब्राह्मणाना- र्जवापत्तेश्चापरितोषान्मतान्तरमाह - अथ वेति । दर्शनम् = सम्प्रदायः । समाचारः=प्रसिद्धि- रित्यनर्थान्तरम्, ननु प्रसिद्धेः स्मृतिरूपत्वेन निर्मूलायाः प्रामाण्यायोगात्सदसन्मूलत्वेन तामविचार्य सिद्धवद्विशेषविचारो न युक्त इति शङ्कते - किमर्थमिति । स्मृत्यधिकरणवक्ष्य- माणप्रामाण्यायाः सदाचाररूपायाः याज्ञिकप्रसिद्धेरसन्मूलत्वाशङ्का न युक्तेति परिहरति- तत्रेति । स्मृतिन्यायेन शिष्टत्रैवर्णिकदृढपरिग्रहेणैषां मन्त्राणां प्रयोगित्वं दृढमवस्थितम् । तस्य चानेन विचारेण मूलविशेषनिरूपणमित्यर्थः । याज्ञिकप्रसिद्धिबलेन कर्मकाले मन्त्रोच्चारणाभ्युपगमे पूर्वपक्षेऽपि बर्हिलवनादावेव बर्हिर्देवेत्यादीनामुच्चारणापत्तेर्न नियोगतो बर्हिर्देवसदनं दामीत्येष बर्हिषां लवने विनियु- ज्येतेति भाष्यमयुक्तं स्यादित्यपरितोषात्स्वमतेनार्थपरत्वाभावेऽपि कर्मकाले मन्त्रोच्चारण- मुपपादयन्पूर्वपक्षमारभते-अथ वेति । नन्वदृष्टार्थत्वेनाप्यध्ययनविधिविहितस्याध्ययनस्य पुरुषार्थानुबन्धित्वोपपत्तेः कथं कर्मकाले मन्त्रोच्चारणाध्यवसानम् अत आह तथा हीति । प्राकृताङ्गनिराकाङ्क्षाया विकृतेरुभयाकाङ्क्षालक्षणप्रकरणायोगात्तद्विषयं क्रम- ग्रहणं सर्वाङ्गसाधारणस्य न्यायस्य दर्शयितुं यावच्छब्दः अङ्गत्वप्रतिपत्त्युत्तरकालीनः फलेनोपकारत्वेन स्वीकारोऽभिहितः । ननु श्रुत्ययुक्तानां मन्त्राणां क्रमप्रकरणपठितानां विध्यभावेन कैमर्थ्यानपेक्षणादध्ययन- विधौ च कर्मासन्निधानाद्विश्वजिन्यायेन स्वर्गार्थत्वावसायात् गोदोहनादिवत्क्रमप्रकरणसं- स्पर्शोऽप्यङ्गत्वेन स्वीकारो न युक्त इत्याशङ्कयाह - मन्त्रेति । स्वीक्रियत इत्यनुषङ्गः । १३