मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 246, कुल 804 में से
संदर्भ में पढ़ें१९४ मीमांसादर्शनम् [ सू० विध्यर्थवादाध्ययनवदस्याप्यवैरूप्याय दृष्टार्थत्वाव्यवसानात्कर्मकालोच्चारणमात्रार्थत्वेऽपि तदनपायात् साकाङ्क्षत्वेन क्रमप्रकरणाभ्यां स्वीकारो युक्त इति भावः । ननु मन्त्रस्वरूपवत्प्रयाजादिवाक्यस्य स्वरूपस्यापि क्रमप्रकरणसंस्पर्शात्कर्मकालोच्चार- णापत्ति त आह—तत्रेति । कर्माङ्गभूतार्थाभिधानेन नैराकाङ्क्ष्यान्न तत्स्वरूपस्य क्रमप्रक- रणसंस्पर्शोऽप्यङ्गत्वेन स्वीकार इति भावः । मन्त्राणां तु प्रयाजादिवाक्यवत्कर्माङ्गभूतार्था- नभिधायकत्वात्प्रधानवाक्यवच्च कर्म्मविधायकत्वस्य तच्छेषवद्वा स्तावकत्वस्य च द्वितीये निराकरिष्यमाणत्वात् अनुतिष्ठासितार्थस्मृतेश्च ध्यानादिना सिद्धेः साकाङ्क्षत्वेन क्रमप्रकर- णाभ्यां स्वरूपस्यैवाङ्गत्वतावसायाद् ग्रहणमित्याह—मन्त्राः पुनरिति । एवं तावन्मन्त्रस्वरूपस्य क्रमप्रकरणाभ्यामङ्गत्वतावसायात्, तस्य च निर्व्यापारस्याङ्गतवायोगादवश्यं कल्प्योच्चारणव्या- पाराङ्गीकरणात्कर्मकालोच्चारणसिद्धिस्तावन्मन्त्रे पर्यवसानं चोक्तम् । इदानीमध्ययनविधि- नापि क्रमप्रकरणपाठार्थवत्त्वाय कर्माङ्गत्वमाक्षिपतोच्चारणं विना तदयोगात्कर्मकालोच्चा- रणमात्रं कल्प्यते । तावन्मात्रत्वेन ग्रहणसंस्कार्यत्वोपपत्तेर्नाभिधानपर्यन्तत्वं कल्पयितुं शक्यमित्याह स्वाध्यायेति । प्रयाजादिवाक्यानां तु कर्माङ्गभूतपदार्थविधानार्थत्वात्, तस्य च शास्त्रार्थविधारण- कालीनत्वेन कर्मकालोच्चारणानपेक्षत्वाददृष्टार्थोच्चारणकल्पनं न युक्तमित्याह—प्रयाजा- दीति । रूपग्रहणमेव प्रसक्तमित्यापातप्रतिभानमात्रेणोक्तं मन्त्राणां तु कर्मकालोच्चारण- निरपेक्षार्थानभिधायकत्वादवश्यम्भाविकर्मकालोच्चारणमित्याह—न त्विवेहेति । ननु कर्म- कालप्रयोज्यानां मन्त्राणामर्थाभिधानार्थता प्रतीयमाना नापह्नोतुं शक्येत्याशङ्कयाह — शब्दे चेति । ध्यानादिनाप्यनुतिष्ठासितार्थस्मृतिसिद्धे रभिधानार्थत्वे कल्पनापत्त्यविशेषा- दुच्चारणाभिधानयोः किं विवक्षितमिति सन्देहप्राथम्यावश्यकत्वाभ्यामुच्चारणविवक्षैव न्याय्येति भावः । पूर्वपक्षमुपसंहरति—तस्मादिति । ननु भाष्यकृता तदेतदवगच्छाम उच्चारणमात्रेणोपकुर्वन्तीति पूर्वपक्षं प्रतिज्ञाय कुत इति प्रश्नपूर्वकं तदर्थशास्त्रादीनि कारणानि उक्तानि । कस्मात्तत्परित्यागेन प्राथम्यावश्य- कत्वादिकारणान्तरं भवतोक्तम्, अत आह—तथा चेति । पूर्वोक्तन्यायेनाविवक्षितार्थत्वे सिद्धे तदर्थशास्त्रादीनि सूत्रभाष्यकाराभ्यां करणत्वेनोच्यन्ते लिङ्गमात्रत्वात्तेषां तस्य च न्यायप्राप्तार्थद्योतकत्वादिति भावः । परिहारसूत्रक्रमानुसारत्पश्चादुहार्यस्यादावुदाहरण- मयुक्तमाशङ्कयाह—परिहारेति । 'यक्ष्ण साक्ष' इति भाष्ये साक्षत्वमवास्तवमेव प्रतीति- मात्रेणोक्तमिति व्याचष्टे—तथेति । नन्वर्थवादार्थमिति भाष्यं विधिशेषत्वं विनार्थवादत्वा- योगादयुक्तमाशङ्कय व्याचष्टे—नन्विति । न हि येनेतिभाष्यमभिमतविपरीतार्थत्वादयुक्त- माशङ्क्य च्छित्त्वा व्याचष्टे—न हीति । न चेति भाष्यं व्याचष्टे—प्रदेशान्तरस्थस्य त्विति । तथेत्युदाहरणभाष्यं व्याचष्टे—तथेति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां गायत्रेण च्छन्दसाददेऽङ्गिरस्वदग्निरसि नारिरसि पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदामर त्रैष्टुभेन च्छन्दसाददेऽङ्गिरस्वदग्निरसि नारिरसि त्वया वयं