मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 247, कुल 804 में से
संदर्भ में पढ़ें३१ ] प्रथमाध्याये द्वितीयपादः १९५ सधस्थेऽग्निं शकेम खनितुं पुरीष्यम्, जागतेन त्वा च्छन्दसाऽऽददे, अङ्गिरस्वत् हस्त आधाय सविता बिभ्रदग्निहिरण्ययं तपायोतिरजस्रमिदमग्निं स्वान्वीन आभर आनुष्टुभेन त्वा च्छन्दसाऽऽददेऽङ्गिरस्वदित्येषां चतुर्णामपि मन्त्राणामादद इत्यभिधानसामर्थ्यादेवादाने प्राप्त- त्वादित्यर्थः । भाष्यकृता चतुःसंख्यालक्षणगुणविधानार्थं पुनः श्रवणमाशङ्क्य, अन्तरेणापि वचनं तेषु चतुःसंख्ये युक्तम् । तदादानाङ्गतया चतुःसंख्याविधानाभ्युपगमात्ताद्रूप्येण चाप्राप्तेर्युक्त- माशङ्क्य व्याचष्टे— चतुःसंख्यापीति । अयमाशयः-संख्या विधीयमाना योग्यत्वात्परि- च्छेदकतया विधीयते, मन्त्रपरिच्छेदिका चेहासौ प्रतीयते । न क्रिया परिच्छेदिकेति कारणमाह—न हीति । आश्रितवचनो गुणशब्दः । परिच्छेदार्थश्च गमिः । नान्याश्रितोऽ- न्यपरिच्छेदको भवतीत्यर्थः । क्रियाङ्गत्वमपि न सम्भवतीत्याह—न चेति । मन्त्रा- विधानान्नात्रारुणैकहायनीन्यायः सम्भवतीति भावः । अतः क्रियाङ्गत्वासम्भवात् सम्भव- तश्च मन्त्रपरिच्छेदकत्वस्य पाठादेव प्राप्तेर्वचनानर्थक्यमित्युपसंहरति—तेनेति । भाष्यकृता लिङ्गाद्विकल्पप्राप्तौ, समुच्चयार्थं वचनमित्याशङ्क्य समुच्चयशब्दस्याभावादित्युक्तं च तत्समुच्च यवाचिशब्दाद्यभावेऽप्यरुणैकहायनोवन्मन्त्रसंख्ययोः परस्परनियमात् समुच्चयसिद्धे- रयुक्तमाशङ्क्य व्याचष्टे — क्रियेति । ननु विकल्पे मन्त्राणां प्रत्येकमेकत्वाच्चतुःशब्दानुपपत्तिः स्यादित्याशङ्क्य पूर्वपक्षे विकल्पप्रसक्तेर्नैष दोष इत्याह — अस्मत्पक्षे पुनरिति । अश्वाभिधान्युदाहरणे भाष्यकृता रशनादाने प्राप्तत्वान्मन्त्रस्य विधानानर्थक्यमुक्तम् । तदादानविधानेनार्थवत्त्वोपपत्तेरयुक्त- माशङ्क्य व्याचष्टे — उभयोरिति । नन्विति भाष्येण परिसंख्यार्थत्वमाशङ्कितम् । तदुभय- प्राप्तावेकविधिः परिसंख्याशब्दवाच्यत्वाद् गर्दभरशनायाश्चात्राविधेयत्वादयुक्तमाशङ्क्य व्याचष्टे — परिसंख्येति । प्रवर्त्तेऽहमिति ज्ञानं येन शब्देन जन्यते । स चोदनोच्यते यद्वा प्रवर्त्तनफला मतिः ॥ इति । संख्याशब्दवाच्याया बुद्धेरपि प्रवर्त्तनफलाया विधित्वमभ्युपगमात्परेश्च वर्जनार्थत्वाद् गर्दभरशनां वर्जनीयतया बोधयतीत्युक्तं भवतीति भावः । 'न शक्नोति' इति परिहार- भाष्यं व्याख्यातुमाह — सापीति । 'अश्वाभिधानीमादत्ते' इति वचनव्यक्तौ आदाने गर्दभरशनायाः परिसंख्या इत्यश्वाभिधानीमितिवचनव्यक्तौ मन्त्रे रूपान्मन्त्रमर्थादादान- मित्यर्थः । ननु परिसंख्यानङ्गीकरणे वाक्यस्य का गतिरित्याशङ्क्य, अप्राप्तविधित्वात्पूर्वपक्षे न दोषः इत्याह — अदृष्टार्थत्वे त्विति । ननु परिसङ्ख्यया अपि वस्तुतो प्राप्तविधित्वान्न दोष इत्याशङ्क्याह — यदि चेति । अश्वाभिधानीत्येकः शब्द इतीति चापरः तयोः सम्बन्ध इति द्वन्द्वगर्भः षष्ठीसमासः । मन्त्राश्वाभिधानीसम्बन्धे सति दोषपरिहारः स्यात्- न त्वसौ युक्त इति भावः । अतो प्राप्तविधित्वेऽप्यादानवच्च मन्त्रविध्यापत्तेस्तस्य चोद्दे-