भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 238, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 238

१८६ मीमांसादर्शनम् [ सू० ननु प्रतिपादयन्तु मन्त्राः को दोषस्तत्राह- न चेति। अचेतने तस्मिन् आभिमुख्यस्य प्रैषकार्यस्य प्रवृत्तेश्च असम्भवादानर्थक्यमेव स्यादित्याशयः। अस्मन्मते तु नानर्थक्यदोष इत्याह - उच्चारणार्थेति । तस्माददृष्टार्था इत्याह- तस्मादिति। शृणोत ग्रावाणः इत्यत्राप्यर्थविवक्षायां ग्रावाण इति सम्बोधना- सम्भवात् शृणोतेति प्रातरनुवाकश्रवणे प्रेरणानुपपत्तेश्चादृष्टार्थतैव समञ्जसे- त्याह - शृणोतेति । मन्त्रानर्थक्ये हेत्वन्तरमाह - अर्थेति । सूत्रं व्याचष्टे - अर्थविप्रतिषेध इति । कथमर्थयोर्द्युलोकान्तरिक्षलोकयोर्विरोधस्तत्राह-द्यौवेति । "अदितिर्द्यौरदितिरन्त- रिक्षमिति एकस्यानेकात्मत्वविरोध इह विप्रतिषेधोऽभीष्ट इति भावः, नन्वे- कस्यानेकात्मकतां न वारयति मन्त्रः, अतः कथं विरुद्धार्थत्वमत आह-अनवधार- यन्निति । स्वार्थमनवधारयन् किमर्थाभिधानेनोपकुर्यान्नैवेत्यर्थः, अदृष्टार्थत्वे तु न विरोध इत्याह - उच्चारणेति । निगमयति - तस्मादिति । तथैक एव रुद्रः असङ्ख्याताः सहस्राणीति मन्त्रयोरेकानेकत्वं रुद्रस्य बोधयतोर्विवक्षितार्थतैव समीचीनेत्याह - एक इति । इतश्च मन्त्रार्थान्नविवक्षेत्याह - स्वाध्यायेति । यथा स्वाध्यायशब्दवाच्यान्य- क्षराणि स्वाध्यायकालेऽभ्यस्यन्ते, नैवं वचनरूपमर्थाभिधामभ्यस्यत इत्येवं सूत्रं व्याख्यातुमभिधेयसन्निधिनिमित्तोऽभिधानाभ्यासानादर इति शङ्कां निराकर्तु- माह-स्वाध्यायेति । पूर्णिकादासी हन्ति करोति, अवहन्ति एवमभिधेयेऽभि- धायके च मन्त्रे सन्निहितेऽपि नाभिधानविषयोऽभ्यासो दृश्यते किंत्वक्षरविषय एवेत्याह - नासाविति । ननु माभूदर्थाभिधानविषयोऽभ्यासः तथापि कथमविवक्षितेति ? तत्राह- येन चेति । नाम प्रसिद्धौ तन्नामाभ्यसितव्यमिति सम्बन्धः, तथा किं तत्राह- अत इति । यद्यर्थाभिधानमपि प्रयोजनवत् तर्हि .तदप्यभ्यसितव्यं न चैत- दस्तीत्याशयः। युक्त्यन्तरमाह - अविज्ञेयादिति । सूत्रं व्याचष्टे - अपि चेति । तत्र केषां- चिद्वाक्यानामर्थः पदार्थज्ञानेनाविज्ञेयः केषाञ्चित्स्वरूपेण । तत्राद्यमुदाहरति-- यथेति । सामान्यतो वाक्यस्येन्द्रस्तुतिपरत्वावगमेऽप्यगम्यादिपदार्थज्ञानात् काणकेतिपदार्थज्ञानाच्च विशिष्टवाक्यार्थासिद्धिः इति भावः, स्वरूपेणाविज्ञेय- मुदाहरति - सृण्येवेति, अस्मत्पक्षे त्वर्थाभावादेव नाविज्ञेयत्वदोष इत्याह- उच्चारणेति । तस्यापि फलितमाह - तस्मादिति । अर्थवत्त्वे मन्त्राणामनिष्टप्रसङ्गोऽपीत्याह - अनित्येति । अनित्यसंयोगस्य सिद्धवदुपादानेऽनित्येनार्थेन संयोगः मन्त्राणामविवक्षितार्थता न भवेत्, अतः