मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 239, कुल 804 में से
संदर्भ में पढ़ें३१ ] प्रथमाध्याये द्वितीयपादः १८७ प्रसङ्गपरतया व्याचष्टे—अनित्यसंयोग इति । मन्त्रेष्वर्थाभिधानार्थेषु सत्स्वर्था- नामनित्यत्वसम्भवेन तत्संयोगोऽप्यनित्य एव प्रसज्येत, अतश्च मन्त्राणामनित्यता स्यादिति भावः । अथ केष्वर्थानित्यत्वसम्भावना ? अत आह-यथेति । नाशिरं दुहे न तपन्ति घर्मं आनोभरप्रमगन्दस्य वेदो नौ च शाखं मघवन् रन्धमानः इति मन्त्रशेषः, कथमस्य नित्यार्थतेत्याशङ्क्य तद्गतान् पदार्थान् अनित्यान् दर्शयति—कीकटा नामेति । तेनायमत्र मन्त्रार्थः—विश्वामित्रेण कर्मार्थं धनं प्रार्थयमानेनेत्थमिन्द्रोऽ- भिहितः, हे मघवन् याः कीकटेषु गावस्ताः तव किं कुर्वन्ति न तावदाशिर सोम- संस्कारार्थं पयो दुहते न च तपन्ति घर्मं तप्ते घृते पयोनेक्षेपेण निष्पन्दीकृते यच्छिष्टघृतं तद् घर्मशब्देनोच्यते, तदपि पयोदानेन न साधयन्ति, अतस्तत्प्रम- गन्दस्य कीकटाधिपते राज्ञो धनं नैचाशाख्यं नगरं नोऽस्माकमाभराहृत्य अस्मदर्थमपहरेत्यर्थः, अपहृत्य च नोऽस्माकं रन्धय साधयेति तेन कीकटादि- पदार्थानामनित्यत्वेन वाक्यार्थस्याप्यनित्यत्पादनित्यसंयोगस्तावत्सिद्ध इति भावः, एवमनित्यसंयोगमुपपाद्य तत्फलं मन्त्राणामनित्यत्वेनाप्रामाण्यमापादयति— यदिति । पूर्वपक्षमुपसंहरति-तदिति । तस्मादित्यर्थः, अनियतवचनता सत्त्वा- सत्त्वाभ्यां अनियतोऽर्थः तद्वचनता अविवक्षितार्थता आनर्थक्यमिति यावत्, अनेन चार्थवादाधिकरणपूर्वपक्षसूत्रगतया आनर्थक्यप्रतिज्ञयात्राकृष्टया मन्त्रा- शेषतया च शास्त्रार्थवत्त्वादिहेतूनां अन्वयो दर्शितः । यद्वा “तदर्थशास्त्राद्वाक्यनियमात् बुद्धशास्त्रादविद्यमानवचनादचेतनेऽर्थ- बन्धनादर्थविप्रतिषेधात् स्वाध्यायवदवचनात् अविज्ञेयादनित्यसंयोगान्मन्त्रा- नर्थक्यं” इत्येकसूत्रं मन्त्रानर्थक्य [मिति] पदपाठं चाश्रित्य शास्त्रार्थवत्त्वादीनां मन्त्रानर्थक्यप्रतिज्ञया सम्बन्धो दर्शित इति मन्तव्यम्, तस्माद्यथोक्तैः कारणैः अर्थविवक्षासम्भवादुच्चारणमात्रेणादृष्टार्थता मन्त्राणामिति भावः ॥३१॥ त० वा०— इहाऽऽनर्थक्यश्रवणात्केचिदेवं सन्देहमुपन्यस्यन्ति किमर्थवन्तो मन्त्रा उतानर्थका इति । तत्तद्युक्तम् — स्पष्टे शब्दात्प्रतीतेऽर्थे नानर्थक्यं हि शङ्क्यते । अग्नौ दहति दृष्टे वा दग्धृत्वं किं विचार्यते ॥ ३ ॥ सर्वत्र हि कार्यदर्शनाच्छब्दानां शक्तयः कल्प्यन्ते । तच्चार्थप्रत्यायनं मन्त्रे- ष्वप्युच्चार्यमाणेषूपलभ्यते । न चाविशिष्टस्तु वाक्यार्थ इत्येवमादिप्रतिज्ञामात्र- साध्योत्तराः पूर्वपक्षा भवन्ति । तस्मादयुक्तोऽयमुपन्यास इति मत्वाऽऽह—किं विवक्षितवचना मन्त्रा उताविवक्षितवचना इति ।