मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 251, कुल 804 में से
संदर्भ में पढ़ें३१ ] प्रथमाध्याये द्वितीयपादः १९९ अपि चेत्यादिभाष्यमर्थविशेषानभिधायित्वेन मन्त्राणामविज्ञेयत्वप्रतिपादनार्थमम्य- क्सात इत्यादिष्विन्द्रस्तुतिरूपवाक्यार्थज्ञानादयुक्तमाशङ्क्याह - केचिदिति । सामान्यतो वाक्यार्थज्ञानेऽप्यम्यगादिपदार्थज्ञानात्सकलस्य मन्त्रस्यार्थवत्त्वं न सिद्धयतीति भावः। सृण्येवेत्यादीनां तु वाक्यार्थोऽपि न ज्ञायत इत्याह - केषाञ्चिदित्विति । ननु श्रोतुरप्रतिपत्ता- वपि मन्त्रस्याभिधायकत्वन्न विरुद्ध्यते । अन्धस्येव रूपाप्रतिपत्तावपि प्रदीपस्य प्रकाश- कत्वादत आह - न चेति । यदेकान्तेन कर्तुं शक्यमुच्चारणम्, तदेव मन्त्राणां कार्यमित्यर्थः क्वचित्तु यदेकान्तेन कार्यमुच्चारणम् तदेव शक्यमिति पाठः । तत्र यदेकान्तेन पक्षद्वयेऽ- प्यनुष्ठेयमुच्चारणं तदेव मन्त्राणां कार्यमवधार्यते शक्यमिति कृतेति योज्यम् । अनित्यसंयोगव्याख्यानार्थमनित्यसंयोगः खल्वपीत्यादिभाष्यम् । कुसोदवृत्त्यादिनित्यार्थ- सम्भवादयुक्तमाशङ्क्याह - अर्थेति । यस्य मन्त्रस्य योऽर्थः स्वरसतः प्रतीयते, स एव तेन कर्मकाले प्रकाशनीयः, नोत्प्रेक्षामात्रकल्पित इत्यर्थः । अतो भवत्यर्थपरत्वे केषु चिन्मन्त्रेष्वनित्यसंयोग इत्याह - केचिच्चेति । अनित्यस्यार्थस्याकर्माङ्गत्वेन प्रकाशनानर्ह- त्वात्तत्संयोगस्यार्थाविवक्षाहेतुत्वोपपादनाय कर्माङ्गभूतैरित्युक्तम् । अनित्यसंयोगोदाहरणं व्याख्यातुमाह - यथेति । ना शिरं दुहे तथन्ति धर्मओ नो मर प्रमगन्दस्य वेदो नैवाशाखं मघवन्त् रन्धयान इति मन्त्रशेषः । ऋषिप्रत्ययाधीनत्वादर्थ- तश्च निर्णयस्यार्षकथनम् । अपहारसामर्थ्यद्योतनार्थं त्रैलोक्यैश्वर्यवचनम् । किं क्रतुनेति वदन्त इति कीकटशब्दनिर्वचनम् ! तप्ते घृते पयो निक्षेपेण निस्यन्दिते यच्छिष्टं तद्घर्मशब्देनोच्यते । भृञ् मरण इति भौवादिकस्य भृञो धात्वन्तरेणार्थकथनं व्याख्यानार्थम् । डुभृञ् धारणपोषण- यो रिति जौहोत्यादिकस्य भृञो रूपं बिभृहीति दर्शितम् । यदीत्यनित्यसंयोगोपसंहारभाष्यं व्याचष्टे यद्येतदिति । न त्वनित्यसंयोगपरिहारायार्थान्तरमस्य मन्त्रस्य वक्ष्यामः अत आह-न चेति । अर्थाविवक्षायाप्यनित्यसंयोगपरिहारसम्भवान्नाप्रतीयमानार्थकथनं युक्त- मित्याशयः । मन्त्रानर्थक्यप्रतिज्ञाव्याख्यानार्थं तदेतैरिति भाष्यं व्याचष्टे - अत इति ॥ ३१ ॥ भा० प्र०—'तदर्थशास्त्रात्' = मन्त्र का जो अर्थ या प्रयोजन रहता है, उस अर्थ को विषयस्वरूप में मानने वाला वेदवाक्य है । मन्त्र के द्वारा जिस अनुष्ठेय विषयक अर्थ की स्मारकता रूप प्रयोजन सिद्ध किया जायगा, उस विषय को कहने वाला वेदवाक्य सिद्ध है, अतः मन्त्र का अर्थ विवक्षित नहीं है । अर्थवाद अधिकरण में विधि को छोड़कर अन्य वेदभागों का प्रामाण्य भी साधारण- रूप में प्रतिपादित किया गया है । ऐसी स्थिति में अर्थवाद का क्या प्रयोजन है, इसी की विशेष आलोचना की गई है । मन्त्र भाग का क्या प्रयोजन है, यही प्रकृत में विचारणीय है । "तदर्थशास्त्रात्" से आरम्भ कर "अनित्यसंयोगान्मन्त्रानर्थक्यम्" यहाँ तक के सभी वाक्य एक ही सूत्र के अंश हैं । प्रत्येक अंश "मन्त्रानर्थक्यम्" इस पद के साथ सम्बद्ध