मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 250, कुल 804 में से
संदर्भ में पढ़ें१९८ मीमांसादर्शनम् [ सू० परिहरति — तदेवेति । एतमेव परिहारं सूत्रारूढं करोति—तेनेति । येन कारणेनार्थपरत्वे विपर्ययेऽपि मन्त्रत्वं न हीयते, तेन मन्त्रत्वप्रसिद्धौ प्रयोजनभूतायां विशिष्टपदक्रमसमूहात्मकं वाक्यनियमादित्यपि सूत्रं योज्यमित्यर्थः । सूत्रैकदेशे 'तस्मादावर्त्तन्ते सूत्रमिति' वत्सूत्र- शब्दप्रयोगो ग्रामैकदेशे ग्राम आयात इति प्रयोगदर्शनात् । यद्वाध्याहारानौचित्यमाशङ्कय सूत्रत्वाददोष इति हेतुत्वेनोक्तम् । प्रसङ्गादपरं व्याख्यानत्रयमाह — अथ वेति । बुद्धशास्त्रव्याख्यानार्थं बुद्धे खल्व- पीत्यादिभाष्यं अविरुद्धदृग्विषयप्रैषेऽर्थवत्त्वसम्भवादयुक्तमाशङ्क्याह — न हीति । ज्ञाते च वाचनं न ह्यविद्वान्विहितो (जै० सू० ३.८.८) इति तृतीयाधिकरणवक्ष्यमाणन्यायेनाऽविदुषो याजमानवदार्त्विज्येऽप्यनधिकारादित्यर्थः । नन्वित्याशङ्काभाष्यं व्याचष्टे—अथेति एवमिति । परिहारभाष्यं स्मृतिहेतुसंस्कारोद्बोधकाभिधानार्थत्वेन दृष्टार्थत्वस्योक्तत्वात्पूर्वपक्षानापत्तेर- युक्तमाशङ्कयाऽनभिमतमपि वचनशब्दस्योच्चारणार्थत्वे संस्कारशब्दस्यापूर्वार्थत्वमापाद्यैत- दुक्तमिति व्याचष्टे — तदपीति । नन्वपूर्वात्मकोऽपि संस्कारोऽर्थाभिधानाङ्गविष्यतीति मन्त्रस्य दृष्टार्थत्वानपायात् कथ पूर्वापक्षापत्तिः अत आह—यदि हीति । अविद्यमानवचनव्याख्यानार्थं यज्ञ इत्यादिभाष्यं व्याचष्टे -- चतुःशृङ्गादीति । ननु गौण्यावृत्त्या चतुश्शृङ्गादिरूपस्य यागादेर्विद्यमानत्वात्कथमविद्यमानवचनत्वमत आह— यद्यपि चेति । तस्य गौणरूपस्यानुष्ठानाभावात्तत्प्रतिपादनमदृष्टार्थं स्यादित्यर्थः । यज्ञप्रकाशने च तस्य विततत्वेन प्रदेशविशेषानवधारणात्पाठक्रमानुरोधेनोच्चारणापत्तेः पूर्वपक्षसिद्धिः स्यादित्याह—न चेति । मा माहिंसीरित्यस्याचेतनवेदिविषयत्वादचेतनार्थबन्धनोदाहरणत्वं युक्तम्, न त्वविद्यमानवचनोदाहरणत्वमहिंसनस्य विद्यमानत्वादीत्याशङ्क्याह—मामेति । प्रसक्तय भावात्तदपेक्षस्य प्रतिषेधस्याविद्यमानतेत्यर्थः । अचेतनार्थबन्धनव्याख्यानार्थमचेतने खल्वपीत्यादिभाष्यमर्थशब्देन संबोधनम्, प्रेषणं वाभिप्रेतमिति प्रतिपादयेयुरिति वदन्नाहेति व्याचष्टे—ओषधे इति । अर्थविप्रतिषेधव्याख्यानार्थमर्थे यादिभाष्यं व्याचष्टे — द्युत्वमिति । अदितेर्देवतात्वात्त- द्विपरितमेकैकर्मपि रूपं विप्रतिषिद्धमितित्वमन्यथा व्याचष्टे — कथं वेति । ननु स्तुत्यर्थम- विद्यमानस्यापि गुणस्योपचारेणाभिधानोपपत्तेरेकस्यानेकरूपत्वं देवतायाश्च देवतान्तररूपत्व- मिति हेतुद्वयं परिहरिष्यत्यत आह — न चेति । स्वाध्यायशब्दवाच्यानि मन्त्राक्षराणि यथाध्ययनकालेऽभ्यस्यन्ते, नैवमर्थाभिधानमिति स्वाध्यायवद्वचनव्याख्यानार्थं स्वाध्यायकाल इत्यादिभाष्यमनभ्यासमात्रेण विवक्षावगमस्या- शक्यत्वादयुक्तमाशङ्क्य व्याचष्टे — स्वाध्यायेति । अभिधेयार्थसन्निधिनिमित्ताभिधानानाद- रशङ्कानिराकरणार्थं पूर्णिकाऽवहन्ति करोतीति भाष्यकृतोक्तम् ।