भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 249, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 249

३१ ] प्रथमाध्याये द्वितीयपादः १९७ नन्वर्थपरत्वाभावे विनियोजकप्रमाणाभावेनानङ्गत्वत्वादप्रयोग एव स्यात् । सद्भावे वा तद्वशात् तद्व्यवस्थापत्तेर्विनियोगाङ्गीकरणाद् बर्हिर्लवनसम्बन्धापह्नवौ न युक्त इत्या- शङ्क्याह-तदा हीति । लैङ्गिकविनियोगाभावेनाङ्गसम्बन्धाभावेऽपि प्राकरणिकप्रधान- विनियोगात्तत्प्रयोगाद्बहिर्भावर्वतित्वमात्रावसीय इति भावः । कीदृशं तर्हि पूर्वपक्षे मन्त्रो- च्चारणानुष्ठानं स्यादित्यपेक्षयामाह - पाठेति । श्रुत्यसंयुक्तमन्त्राभिप्रायं चैतत् । इषेत्वा- दीनां छेदनादिषु विनियोगेनाङ्कर्मनादरायोगात्सर्वशब्दोऽप्येवमेव व्याख्येयः । सकृच्छ- ब्देन लवनाद्यावृत्तावप्यनावृत्तिरुक्ता पठित्वेति च 'मुखं व्यादाय स्वपिति' इतिवत्पूर्वकाल- त्वानादरेण समानकर्तृकत्वमात्राभिप्रायेणोक्तम् । सिद्धान्तासम्भवे हेतुत्वेन वाक्यनियमं व्याख्यातुं नियतेत्यादिभाष्यं व्याचष्टे - अग्निरिति । पूर्वपक्षसाधनत्वेनैतमेव हेतुं व्याख्यातु- मथेति भाष्यं व्याचष्टे - यस्य त्विति । १ नन्वर्थपरत्वेऽपि नियमादृष्टसिद्धयर्थं पदक्रमनियमोऽर्थवान्भविष्यत्यत आह - अथेति । प्रत्यायनक्रमनियमस्योच्चारणक्रमनियमाधीनत्वात्प्राथम्यावश्यकत्वाभ्यां तस्मादेवादृष्टं युक्तमिति भावः । नन्वित्यादिभाष्येणार्थपरेष्वपि क्रमनियमदर्शनान्न तेनार्थाविवक्षा साध- यितुं शक्यत इत्याशङ्क्य, विपर्ययेऽर्थप्रत्ययाभावात् क्रमादर इत्युक्तम् । तदिन्द्राग्निपदे विपर्ययेऽप्यर्थप्रत्ययदर्शनाद्युक्तमाशङ्क्योपलक्षणपरत्वेन व्याचष्टे - यस्त्विति । तुल्यन्याय- त्वाद्व्याख्यानुपन्यस्तप्रकृतिप्रत्ययोपन्यासः । अथशब्दप्रसङ्गं विवृणोति-अजादीति । इन्द्रशब्दस्या जाद्यदन्तत्वनिमित्तः पूर्वनिपातः अजाद्यन्तमिति स्मर्यते नीलशब्दस्य विशेषण- त्वा द्विशेषणं विशेष्येण बहुलमिति पूर्वनिपातः, राजशब्दस्य च षष्ठ्यन्तत्वात्षष्ठीति प्रथमा निर्दिष्टं समास उपसर्जनमित्युपसर्जनं पूर्वमिति पूर्वनिपातः । चित्रशब्दस्य विशेषणत्वा- त्सप्तमीविशेषणे बहुव्रीहाविति पूर्वनिपातः । निःशब्दस्य निरादयः क्रान्ताद्यर्थे पञ्चम्येति प्रथमानिर्दिष्टत्वेनोपसर्जनत्वात्पूर्वनिपातः । आदिशब्द उदाहरणान्तरस्यापि घिसंज्ञा- निमित्तपूर्वनिपातप्रदर्शनाथैः अतो भवति विपर्यये प्रत्येकं पदसाधुत्वेऽपि समासस्याः शब्द- त्वमित्याह - तनेति । इतिकरणः प्रभृत्यर्थः । राजशब्दादेरप्युपसज्जनत्वादिनिमित्तपूर्व- निपातस्मरणात् । नीलोत्पलग्रजपुरुषचित्रगुशब्दानां क्रमविपर्यये विशेषणविशेष्यभावा- न्यथात्वापत्तेरर्थान्यत्वमपि स्यादित्याह-पुरुषेति । इतिकरणः- प्रकारवचनः निष्कौशा- म्बिशब्दस्य क्रमविपर्यये निष्क्रान्तः क्रोशाम्ब्या इत्यस्यार्थस्याप्रतीतेरर्थान्तरे च समासा- स्मरणादसाधुत्वमानर्थक्यं च स्यादित्याह-कौशाम्बिनिरिति । कथं तर्हि क्व चिदग्नी- न्द्रावितिप्रयोगः अत आह-यस्त्विति । ननु प्रकृतिप्रत्ययादिष्वपशब्दत्वापत्तेर्विपर्ययानाश्रयणादत्राप्यमन्त्रत्वापत्तेस्तदनाश्रयणं भविष्यतीत्याशङ्कते-नन्विति । अर्थपरत्वाभावेऽवयवार्थासम्भवात्समुदायप्रसिद्धचा विशिष्टक्रमकप दसमूहात्मकवाक्यविशेषस्य मन्त्रत्वावधारणाद्विपर्यये युक्तममन्त्रत्वम् । सति त्वर्थपरत्वे ज्ञानार्थन्मन्यतेर्मनोतेर्वा गुप्तृविपतिपविचियमिमनितनिसन्दिच्छदिभ्यस्त्रन्प्रत्यो- णादिके त्रन् प्रत्यये कृते मन्त्रशब्दव्युत्पत्तेर्विपर्ययेऽप्यर्थज्ञापकत्वानपायान्मन्त्रत्वन्न नश्यतीति