मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 256, कुल 804 में से
संदर्भ में पढ़ें२०४ मीमांसादर्शनम् [ सू० विषय में उल्लेख है। यदि मन्त्र का अर्थ विवक्षित माना जाय तो इन पूर्वोक्त वस्तुओं की उत्पत्ति के बाद ही इन मन्त्रों की रचना माननी पड़ेगी। ऐसा मानने पर अनित्य वस्तुओं का प्रतिपादक होने से मन्त्र अनित्य हो जायगे और मन्त्र को भागविशेष में अनित्य मानने पर सम्पूर्ण वेद को ही अनित्य मानना पड़ेगा। इसलिए, यह अवश्य ही मानना होगा कि कर्मानुष्ठानरूप अर्थ के प्रकाशन में मन्त्र की सार्थकता नहीं है, फलतः मन्त्र की अनर्थकता या प्रयोजनशून्यता सिद्ध होती है। अदृष्ट या अपूर्व का उत्पादन करना ही मन्त्र का प्रयोजन है, अतः, मन्त्र का अर्थ विवक्षित नहीं है। अनित्यसंयोगात् = जननमरणशील अर्थ के साथ संयोग अर्थात् वाचकता सम्बन्ध होने से, मन्त्रानर्थक्यम् = मन्त्रों का स्वार्थ निष्प्रयोजन है। यह पूर्व पक्ष है ॥ ३१ ॥ अविशिष्टस्तु वाक्यार्थः ॥१.२.३२॥ शा० भा०-अविशिष्टस्तु लोके प्रयुज्यमानानां वेदे च पदानामर्थः। स यथैव लोके विवक्षितस्तथैव वेदेऽपि भवितुमर्हति। नैवम्। लोके तैरथैरवबुद्धैः संव्यव- हारः। इह देवताभिरप्रत्यक्षाभिर्यज्ञाङ्गैश्चाचेतनैः संलापे न कश्चिदङ्गस्योपकारः। यद्यदृष्टं परिकल्प्येत, उच्चारणादेव तद्भवितुमर्हति। यदि कर्तव्यम्, तत्प्रयोजनवत्, उच्चारणं च न कचञ्चित् न कर्तव्यम्, यद्यपूर्वाय, यद्यर्थाय। यद्यर्थो न प्रत्याय्यते, न किञ्चिदनर्थकम्। यदि न प्रयुज्यते, समाम्नानानर्थक्यम्। तस्मादुच्चारणाद- पूर्वम्। तथा च तदर्थशास्त्राद्युक्तम्। तदुच्यते। अर्थप्रत्यायनार्थमेव यज्ञे मन्त्रोच्चारणम्। यदुक्तं न देवताभिर्यज्ञाङ्गैश्च संलापे प्रयोजनमस्तीति यज्ञे। यज्ञाङ्गप्रकाशनमेव प्रयोजनम्। कथम्? न ह्यप्रकाशिते यज्ञे यज्ञाङ्गे च यागः शक्योऽभिनिर्वर्तयितुम्। तस्मात्तन्निवृत्त्यर्थमर्थप्रकाशनं महानुपकारः कर्मणः तच्च करोतीत्यवगम्यते। तस्मादस्त्यस्य प्रयोजनम्। तच्च दृष्टं न शक्यम- पवदितुं नार्थाभिधानं प्रयोजनमिति। नन्वर्थाभिधानेनोपकुर्वत्सु, तां चतुर्भिरादत्त इत्येवमाद्यनर्थकं कामं भवतु, न जातुचिदपजानीमहे दृष्टमर्थाभिधानस्योपकारकत्वम् ॥ ३२ ॥ भा० वि०-सिद्धान्तमाह-अविशिष्टस्त्विति। तुशब्दः पक्षव्यावर्तकः, यस्माल्लोके वेदे च वाक्यादर्थप्रत्ययोऽविशिष्टः तस्माद्यथा लोके प्रतीयमानोऽर्थो विवक्षितस्तथा वेदेऽपि विवक्षित एवं सोऽर्थो भवितुमर्हतीति सूत्रं व्याचष्टे-अविशिष्टस्त्विति। लोके प्रयुज्यमानानां पदानां वेदे च पदानां प्रयुज्यमानानामिति सम्बन्धः, इदमिह हृद्गतम्-यद्युच्चारणमात्रेणाहष्टादर्थता भवेत्, ततोऽविवक्षितार्थता कल्प्येत, न त्वेवं सम्भवति। तथा हि मन्त्रोच्चारणस्य तावत् कर्माङ्गत्वं प्रयाजादिवत् साक्षाद्वा मन्त्रादिद्वारेण वा प्रोक्षणादिवदभ्युवगम्यते साक्षादप्यङ्गत्वं प्रकरणेन