भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 258, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 258

२०६ मीमांसादर्शनम् [ सू० ननु अस्तु श्रुत्यविनियुक्तानां बर्हिर्देवत्यादिमन्त्राणामर्थाभिधानार्थता श्रुति- विनियोज्यानां त्वर्थपरत्वे लिङ्गादेव विनियोगसिद्धेः विनियोजकशास्त्रानर्थक्यं स्यादिति शङ्कते-नन्विति । निगूढाभिप्रायः परिहरति-काममिति । दृष्टो- पकाराविरोधेन विनियोजकशास्त्रस्य विषयान्तरं कल्पनीयमिति निगूढो- भिप्रायः ॥३२॥ त० वा०-मन्त्रोच्चारणं तावदक्षरग्रहणेन निराकाङ्क्षोकृतं न साक्षात्क्र- त्वङ्गत्वं प्रतिपद्यते । अक्षराणां च द्रव्यवदनितिकर्तव्यतात्मकत्वात्प्रकरणेना- ग्रहणम् । एवं पदार्थज्ञानस्य वाक्यार्थप्रत्ययेन नैराकाङ्क्ष्यादग्रहणम् । वाक्यार्थ- प्रत्ययस्त्वकृतार्थः प्रकरणे विपरिवर्तमानः क्रियात्मकत्वात्प्रयोगवचनाकाङ्क्षितः कर्मसमवेतानुष्ठानस्य मानार्थस्मृतिफलत्वेनेतिकर्तव्यता भवति । तत्रादृष्टकल्पना- निमित्ताभावः । समाम्नानान्यथानुपपत्त्या हि तत्कल्प्येत, नोपपन्नेऽर्थवत्त्वे । यद्यपि च तत्कल्पनावसरो भवेत्, तथाऽपि कामं वाक्यार्थप्रत्ययादेव न त्वौपायि- कार्थप्रतीतिनिराकाङ्क्षाद्वाक्यात् । अवश्यं च दृष्टादृष्टयोर्विनियुज्यमानस्य प्रमाण- मुपन्यसितव्यम् । इह च प्रकरणाददृष्टार्थता लिङ्गाच्च दृष्टार्थता । न च प्रकरण- मशक्येऽर्थे विनियोक्तुमर्हतोत्येकान्तेनैतदापतति-यच्छक्नुयात्तन्मन्त्रेण कुर्या- दिति । न चासावदृष्टं शक्नोतीति लौकिकं वैदिकं वा प्रमाणं विद्यते । तस्मादु- भयोलिङ्गाप्रकरणयोर्दृष्टार्थप्रयोगेणैकवाक्यता । एवं च सति याज्ञिकप्रयोग- प्रसिद्धेर्न मूलान्तरकल्पनाक्लेशो भविष्यति । अतः स्वाभाविकमेवार्थप्राधान्यम- वस्थितम् । नैवमिति । न दृष्टोऽर्थो निर्वृत्त इत्येतावत्तैव तादर्थ्यमवसोयते । पुरुषार्थानुपयोगेन स्वाध्यायाध्ययनविधेरानर्थक्यात् । न च बुद्धशास्त्राविद्यमान- वचनार्थबन्धनान्मन्त्रार्थोपयोगः । तत्र यदि दूरेऽप्यदृष्टकल्पनातो न मुच्यामहे ततोऽतिक्रमणा भावादुच्चारणादेव कल्पनीयम् । उभयवादिसिद्धत्वादुच्चारण- कर्तव्य तायास्तत्प्रभवत्वाच्चादृष्टकल्पनस्य । तत्रोच्यते यज्ञे यज्ञाङ्गप्रकाशनमेव प्रयोजनमिति । यद्यपि लोकवत्तैर्न संव्य- वहारः तथाऽपि तत्तत्स्वरूपप्रकाशनमात्रमेवानुष्ठातृणामुपकरिष्यति । अतश्च यावन्मात्रमेवानौपयिकं सम्बोधनादि, कामं तन्न विवक्ष्येत, न तु तद्वशेन सर्वमेव त्यक्तव्यं न ह्यैकरूप्यं नाम केनचिन्नियतम् । तस्माद्यथादर्शनाभ्युपगमाद्बर्हिर्देव- सदनं दामीत्येवमादीनां तावदविहतगर्थप्राधान्यम् । तां चतुर्भिरादत्त इत्यत्रादि वदामः ॥३२॥ न्या० सु०-- सिद्धान्तसूत्रव्याख्यानार्थमविशिष्टस्त्वितिभाष्यं प्रतीतिमात्रेण विवक्षा- नुपपत्तेरयुक्तम शङ्क्योपपादयति-मन्त्रेति । अयमाशयः-मन्त्रोच्चारणस्य कर्माङ्गत्वं प्रयाजादिवत्साक्षाद्वाभ्युपगम्यते प्रोक्षणादिवद्वा । मन्त्रद्वारेण साक्षादप्यङ्गत्वं प्रकरणेन वा,

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित) · पृष्ठ 258, कुल 804 में से · BharatKosha