मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 259, कुल 804 में से
संदर्भ में पढ़ें३२ ] प्रथमाध्याये द्वितीयपादः २०७ स्यादध्ययनविधिसामर्थ्येन वा । न तावत्प्रकरणेन कर्म्मप्रकरणे मन्त्रोच्चारणस्याविधानात् स्वाध्यायःध्ययनविधिना यथाऽम्नानवेदाध्ययनविधानात्कर्मप्रकरणपठितानां तत्रैवाध्ययनं विदधता कर्मप्रकरणाध्ययननियमार्थवत्त्वाय तदङ्गत्वमाक्षिपन्नोच्चारणं विनाऽङ्गत्वायोगा- त्कर्मकालोच्चारणविधिकल्पने कृते कैमर्थ्यापेक्षायामुच्चारणस्य कर्माङ्गत्वमाक्षिप्यत इति चेत् ? न ।। मन्त्राङ्गत्वनिर्वाहाय कल्पितस्योच्चारणस्य मन्त्राक्षराभिव्यक्तिमात्रेण निरा- काङ्क्षस्य साक्षात्कर्म्माङ्गत्व्रायोगात् । नापि मन्त्रद्वारेणोच्चारणस्य कर्म्माङ्गत्वम्, मन्त्रा- क्षराणामक्रियारूपत्वेन प्रकरणाग्राह्यत्वात् । यथोक्तम् । नावान्तः क्रियायोगार्हते वाक्योकल्पितात् । गुणद्रव्ये कथम्भावैर्गृह्णन्ति प्रकृताः क्रियाः ।। इति (तं० वा० २८४) अध्ययनविध्याक्षिप्तस्याप्यङ्गत्वस्य स्वव्यापारं विनानुपपत्तेरुच्चारणस्य पुंव्यापारत्वे- नाभिधानमन्तरेणानिर्वाहात् । अत एव श्रुतिविनियुक्तानामपीषे त्वादीनामभिधानं विनाङ्ग- त्वानुपपत्तिः । न च पदार्थाभिधानव्यापारमात्रेणाङ्गत्वम्, कर्मानुष्ठानानोपयिकत्वेन तस्य वाक्यार्थमात्रप्रतिपादनमात्रे पर्यवसानात् । अतः प्रकरणावधारिताङ्गभावानां मन्त्राणां कर्मानुष्ठानोपयिकवाक्यार्थप्रतिपादनव्यापारेणाङ्गत्वतावसायात्, कर्मकाले मन्त्रोच्चारणार्थ- स्यार्थाभिधानपर्यवसानसिद्धिरिति कर्मसमवेतानुष्ठास्य मानार्थस्मृतिफलत्वेनेति करणामन्त्रा- भिपप्रायम् । क्रियमाणानुवादिनामनुष्ठीयमानार्थस्मृतिफलत्वात् । अनुमन्त्रणादीनां च कृताकृत- प्रत्यवेक्षणायानुष्ठितार्थस्मृतिफलत्वात्, प्रोत्साहनार्थानां चाग्नन्मस्वः, संज्योतिषाऽभूमेत्या- दीनां यदेव श्रद्धया करोति तदेव वीर्यवत्तरं भवतीति वाक्यावधारितकर्माङ्गभूतश्रद्धा- जननार्थमनुष्ठेयकर्म्मस्मृतिफलत्वात्, स्तोत्रशस्त्रमन्त्राणां चारादुपकारकत्वं स्तुत्यर्थत्वेन कर्मसमवेतार्थप्रकाशनानियमात् । एवं च कर्मौपयिकाऽर्थाभिधानार्थत्वेन प्रकरण । ठार्थं.वोप- पत्तेर्नादृष्टकल्पना युक्तेत्याह—अतश्चेति । ननु प्रकारान्तरेणाप्यनुष्ठेयार्थस्मृतिसिद्धेर्मन्त्रनियमस्यादृष्टार्थत्वं त्वत्पक्षेऽपि कल्प्यम् । अत आह—यद्यपि चेति । लिङ्गाच्च दृष्टार्थतावगतेर्न दुर्बलप्रमाणवशेनार्हष्टार्थत्वं कल्पयितुं शक्यमित्याह—अवश्यं चेति । ननु प्रकरणबाधे सामान्यसंबन्धाभावात्तत्सापेक्षत्वेन लिङ्गस्याविनियोजकत्वं स्यादत आह—न चेति । नात्र प्रकरणावगम्यक्रतुसंबन्धाख्यसामान्यसम्बन्धो बाध्यते, विरोधा- भावाद् । द्वारविशेषसम्बन्धे तु विरोधः । तत्र च प्रकरणस्य शक्तिरूपलिङ्गसापेक्षत्वात्तद्- बाध्यत्वं युक्तमेवेत्याशयः । दृष्टार्थत्वेनाविरोधान्न कस्यचिद् बाध इत्याह—तस्मादिति । अभिधानार्थत्वाभावे च निर्व्यापाराणां मन्त्राणां प्रकरणग्रह णायोगादुच्चारणं व्यापारद्वारेण प्रकरणग्रहणे तस्यानुष्ठानौपयिकत्वेनाभिधानवत्कर्मविधिनानाक्षेपादविधानाच्चोच्चारण- द्वारेण प्रकरणग्रहणम्, प्रकरणग्रहणाच्चोच्चारणमितीतरेतराश्रयापत्तेरुच्चारणविधिकल्पनं