मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 263, कुल 804 में से
संदर्भ में पढ़ें३४ ] प्रथमाध्याये द्वितीयपादः २११ लिङ्गं विनियोजकम् । तच्चास्य प्रकरणाम्नानानुमितं वाक्यं नास्ति । कतरत्तत् ? अनेन मन्त्रेणाऽऽदानं कुर्यादिति यस्मिन्सति रशनामात्रं लिङ्गात्प्रा- प्नोति । अश्वाभिधान्यां तु प्रत्यक्षमेव वचनम् । अस्मिन्सति, तदानुमानिकं नास्ति । तेन गर्दभरशनायां न प्राप्तिरेवेति ॥ ३४ ॥ भा० वि०—उदाहरणाम्तरे परोक्तमानर्थक्यं परिहरति - परिसङ्ख्येति । परिसङ्ख्या पुनः श्रवणफलमित्यर्थः, तत्र परोक्तान्दोषाननुवदति—परिसङ्ख्याणे चेति । इमामगृभ्णन् रशनामृतस्येत्येतस्मिन् वाक्ये परिसङ्ख्यां कुर्वति सति स्वार्थहान्यादयः त्रयो दोषाः प्राप्नुयुरिति यदुक्तमित्यर्थः, तदयुक्तमित्यध्याहार्यम्, तत्र स्वार्थहानिं तावत् परिहरति—नैवमिति । यद्येषा श्रुतिर्मन्त्रं रशनादानमात्रे विनियोजयेत्, ततो लिङ्गादेवाप्राप्तेः विध्यनर्थक्येन तत्परत्वरूपस्वार्थहानिः स्यान्न त्वेवमश्वाभिधानीविशिष्टरशनादाने मन्त्राविनियोजकत्वाद्वाक्यस्य, न चैव- मप्राप्तविधित्वात् परिसङ्ख्येयमिति वक्तव्यम्, फलेनैवमभिधानात् । तथा हि परिसङ्ख्याशब्दादेवकाराद्विना न श्रुत्या परिसङ्ख्यातवम्, वर्जनार्थफलत्वात्तु परि- सङ्ख्योच्यते, तच्च प्रकृतेऽप्यस्तीति परिसङ्ख्यातवोपपत्तिः, अतो न स्वार्थहानि- रित्यभिसन्धिः । इदानीं प्राप्तमेव बाधेत परार्थञ्च कल्प्येतेति दोषद्वयं परिहरति- लिङ्गादित्यादिना । रशनादाने=रशनामात्राभिधाने इतीति, तेनादावेव विशेष- श्रुतिपरिच्छिन्ने सति नैराकाङ्क्ष्यादेव मूलश्रुतिकल्पनासम्भवेन लिङ्गस्य विनि- योजकत्वाभावात् न गर्दभरशनादाने मन्त्राप्राप्तिरित्यर्थः, अस्तु तर्हि विना-श्रुति- कल्पनं लिङ्गं विनियोजकमित्यत आह—सति चेत्यादिना । वाक्यमिह श्रुतिः, ततः किमित्यत आह—तच्चेति । सामान्यविनियोजकं वाक्यं श्रुतिरस्य लिङ्गस्य कल्पनीयतया सामान्यप्रकरणाम्नानानुमितापि श्रुतिः प्रत्यक्षश्रुतिनैराकाङ्क्ष्येणा- नुमानासम्भवादेव नास्तीत्यर्थः, सामान्यविनियोजकश्रुत्याभावं विवरीतुं प्रश्नपूर्वकं श्रुतिस्वरूपं तावदाह—कतरदित्यादिना । ईदृशमेव तदित्यत्र लिङ्गमाह—यस्मि- न्निति । प्राप्नोति मन्त्रः तद्वाक्यमेतदेवेति शेषः, किमत इत्याशङ्क्य प्रत्यक्षश्रुति- विरोधेन तदभावं प्रकृते दर्शयति—अश्वाभिधान्यां त्विति । एकवाक्यत्वं मन्त्रस्या- श्वाभिधान्यामङ्गत्वमानुमानिकं तद्वाक्यं नास्ति, अनुमानमेव नोदेतीत्यर्थः, अतः प्राप्यभावान्न प्राप्तबाधोऽपि इति निगमयति—तेनेति । प्राप्यभावादेव गर्दभरशना नेत्ति प्रतिषेधान्यपरार्थत्वकल्पनापीत्याशयः ॥ ३४ ॥ त० वा०—यावद्धि मन्त्राम्नानमनवगतप्रयोजनम्, प्रकरणी चाकृतार्थः, तावद्यत्तत्सिद्धयर्थं कल्प्यते तत्सर्वं वैदिकं भवति । नैराकाङ्क्ष्योत्तरकालं तु कल्पितमपि पौरुषेयत्वादप्रमाणं स्यात् । न च श्रुतिमकल्पयित्वा लिङ्गादेः स्वातन्त्र्येण प्रामाण्यमिति वक्ष्यते ।