मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 264, कुल 804 में से
संदर्भ में पढ़ें२१२ मीमांसादर्शनम् [ सू० तदेतदाह। सति च वाक्ये लिङ्गं विनियोजकं तच्चास्य नास्तीति। यदैव हि प्रकरणादनेन यजेत, रशनां वा गृह्णीयादिति कल्पयितुमिष्यते तदैवाश्वा- भिधानीमित्यनेनापहारो मन्त्रस्य। यद्यपि नैवं सम्बन्ध इत्यादत्त इति, कथं तर्हीत्यश्वाभिधानीमिति। तत्कारक सम्बन्धसम्भवात्क्रिययैव सह सामान्याभि- प्रायेण द्रष्टव्यम्। तस्मान्नाऽऽदानमात्रे विधीयते किं तर्ह्यश्वाभिधानीविशिष्टे। अथ वा फलतः पश्चात्तन्नकारक सम्बन्ध उपन्यस्यते। सर्वथा दर्शशास्त्रता नास्ति। यदि हि यदेव मन्त्रवचनात्प्राप्नुयात्तदेव प्रत्यक्षवचनेनोच्यते, ततो वयमुपालभ्येमहि। नन्वेवमप्राप्तविधीरेवायं संजात इति, न वक्तव्यं परिसंख्येति। फलेनैवमभिधानाददोषः। सर्वत्र हि परिसंख्याशब्दादेवकाराद्वा विना न श्रुत्या परिसंख्या नियमो वोच्यते, विधिरेव त्वेवंजातीयकस्य फलेनैवं व्यपदेशः। कस्तर्हि विधिनियमपरिसंख्यानां भेदः। उच्यते। अपूर्व-नियम-परिसंख्याविधीनां निरूपणम् विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति। तत्र चान्यत्र च प्राप्ते परिसंख्येति कीर्त्यते ॥ विधिरेव हि केनचिद्विशेषेणैवं भिद्यते। तत्र योऽत्यन्तमप्राप्तोः, न च प्राप्स्यति, प्राग्वचनादित्यवगम्यते, तत्र नियोगः शुद्ध एव विध्यर्था व्रीहीनप्रोक्षतीति। यत्र तु प्राग्वचनात्पाक्षिकी प्राप्तिः सम्भाव्यते, तत्राप्राप्तिपक्षं पूरयन्न्यो विधिः प्रवर्तते, स नियन्तृत्वात्नियम इत्युच्यते। यथा व्रीहीनवहन्तीति। तण्डुलनिष्प- त्त्यर्थाक्षेपादेव तत्सिद्धेर्न तत्प्राप्तिमात्रं विधेः फलम्, किं तर्हि अप्राप्तांशपूरणम्। तदप्राप्तिपक्षे च तण्डुलैरुपायान्तराण्याक्षिप्येरन्। पूरणे तु सति या तेषां निवृत्ति- रसावर्थान्न वाक्यात्। न च तद्धारणं नियमः। परिसंख्या हि तथा स्यात्। प्रत्यासन्नां वाऽवहन्तिनियततामुत्सृज्य नान्यनिवृत्तिफलकल्पनावसरः। तत्प्र- सक्तिद्वारा त्ववहन्तेरनियतिरासीदिति, नियमन्तर्गतैवार्थात्निवृत्तिर्गम्यते। न च प्राप्ते सति विधिरयं प्रवृत्तः, येनास्यान्निवृत्त्यर्थता कल्प्येत। प्रागेव तु प्रवर्त्त- मानेनार्थस्य प्रापकशक्तिनिरोधादन्याप्रप्तिः कृता, सा चार्थलभ्येति, न तयैव व्यपदिश्यते। यः पुनः प्राङ्नियोगात्तत्र चान्यत च प्राप्नुयादिति सम्भाव्यते, यत्र वा यच्चान्यच्च सा परिसंख्या। यथाऽत्रैवोदाहृते। यथा च गृहमेधीये पञ्चमे पक्षे। अत्रापि च न प्राप्ते सत्येषा प्रवर्त्तते, प्रापकस्य शास्त्रस्याननुमितत्वात्। कथं तर्हि ? यद्येतद्वाक्यं नाभविष्यत्तत एनं प्राप्स्यदिति। सर्वस्य प्रत्यक्षस्य वाक्यस्य