भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 266, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 266

२१४ मीमांसादर्शनम् [ सू० दर्शयितुं नियमग्रहणम् । परिसंख्या-वर्जनबुद्धिः । तदर्थो नञादिः परिसंख्याशब्दः । तस्माद्द्वा ब्राह्मणो न हन्तव्यो नेक्षेतोद्यन्तमादित्यमित्यादीनामेव श्रुत्या परिसंख्यात्वं निषेधपर्युदासव्यपदेशविशेषात्तु व्यवहारसिद्धेः न परिसंख्याव्यपदेशः । सत्यमेव वेदितव्य- मित्यादीनामेवकाराच्छ्रुत्या नियमत्वम् । अन्यत्र तु फलेनैव नियमपरिसंख्याव्यपदेशः । ननु प्रोक्षणादावप्यौदासीन्यनिवृत्तिकर्त्तव्यतानियमदर्शनादवघातादौ चाप्राप्तप्रापणाद्द- लनादिनिवृत्तिदर्शनात्, इमामगृभ्णन्नित्यादावपि चाप्राप्तप्रापणकर्त्तव्यतानियमदर्शनात् फलतो व्यपदेशः तत्सङ्करात् विद्यादीनां सङ्करप्रसङ्ग इत्यभिप्रायेण पृच्छति—कस्तर्हीति ? फलासङ्कराभिप्रायेणोत्तरमाह—उच्यत इति । श्लोकं व्याचष्टे—विधिरव हीति । कोऽसौ विशेष इत्यपेक्षायामाह—तत्रेति । विधेयस्वरूपप्राप्तेरेवात्र फलत्वसम्भवान्न तत्र नियमौ- दासीन्यनिवृत्त्योर्विप्रकृष्टयोः फलत्वं युक्तमिति भावः । अवघातादौ तु नियमताफलत्वान्नियमव्यपदेशमाह—यत्र त्विति । ननु तत्राप्यर्था- क्षेपात् प्रागेव प्रत्यक्षेण विधिनावघातादेरप्राप्तस्यैव विधेः स्वरूपप्राप्तिरेव फलं स्यादत आह—तण्डुलेति । नन्वर्थतः प्राप्तिसम्भवान्माभूत्प्राप्तिमात्रस्य फलत्वम् । अप्राप्तांशपूरण- वत्त्वन्यनिवृत्तेरपि प्रतीयमानायाः कस्मान्न फलत्वं स्यादत इत्याह—तदप्राप्नोति । अय- माशयः—अप्राप्तांशपूरणात्प्रागुपायान्तराक्षेपस्य निराकर्त्तुमशक्यत्वान्नितिवृत्त्यनुपपत्तेः उत्तरकालं चानुनिष्पादितत्वेन सिद्धेनं प्रयोजनापरपर्यायमन्यनिवृत्तेः फलत्वं युक्तमिति । प्रसिद्धनियमव्यपदेशहान्यापत्तेरपि नास्याः फलत्वमित्याह—न चेति । अविधेयगतत्वेन च विप्रकृष्टत्वान्नान्यनिवृत्तिः फलमित्याह—प्रत्यासन्नं वेति । नन्वन्यनिवृत्तेः फलत्वाभावे विध्यनिवारितत्वादुपायान्तराणामप्याक्षेपः प्रसज्येतेत्यत आह—तत्प्रसक्तोति । अन्य- [।निवृत्ति विना नियमानुपपत्तेर्नान्तरीक्यान्यनिवृत्त्यवगतेरुपायान्तराक्षेपवारणमित्याशयः । यदि चाक्षिप्तेषूपायान्तरेष्वयं विधिः प्रवर्त्तेत, ततः शास्त्रमन्तरेण प्राप्तोपायान्तरनिवृत्य- योगाच्छास्त्रस्येवान्यनिवृत्तावपि तात्पर्यकल्पना स्यात् न त्वेतदस्ति । श्रुतिकल्पनं विना- र्थाक्षेपस्याप्राप्तत्वेन मन्थरत्वाच्छीघ्रप्रवृत्तेन प्रत्यक्षेण विधिनेवैकोपायनियमे नैराकाङ्क्ष्ये- णार्थाक्षेपानुपपत्तेः प्रापकाभावादेवोपायान्तरनिवृत्तिसिद्धेनं शास्त्रस्य तत्पर्यन्तं व्यापारः कल्प्यत इत्यभिप्रायेणाह—न चेति । उपसंहरति—सा चेति । शेषपरिसंख्याशेषपरिसंख्यानिरूपणम् उभयोस्तु नित्यप्राप्तौ पुनर्वचनस्य स्वरूपप्राप्तिनियमफलत्वायोगानान्यनिवृत्तिफलत्वा- त्परिसंख्याव्यपदेश्यत्वमित्याह—यत्पुनरिति । प्राप्त इति सप्तम्याः, तत्र चान्यत्र चेति सप्तमीभ्यां वैयधिकरण्येनान्वये तत्र चान्यत्र च प्राप्नुयादित्यर्थो भवति, सामानाधिकरण्ये तु तच्चान्यच्चेति । यथासंख्येनोभयत्रोदाहरणमाह—यथेति । गृहमेधीयाधिकरणार्थवर्णनम् चातुर्मास्येषु साकमेधपर्वणि पूर्वैद्युर्गृहमेधीयेष्टिं विधाय श्रुतमाज्यभागौ यजति यज्ञ- ताया इत्युदाहृत्य दशमेऽष्टधा चिन्तयिष्यते ।