मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 267, कुल 804 में से
संदर्भ में पढ़ें३४ ] प्रथमांध्याये द्वितीयपादः ११५ तत्रातिदेशप्राप्तयोराज्यभागयोरनुवादमात्रमेतदित्याद्यः पक्षः। द्वितीयस्त्वानर्थक्यपरिहारायोभयत्र विहितयोराज्यभागयोरिहाभ्युदयकारित्वकल्पनया प्रकृतिवदित्थं कर्त्तव्यमित्युपदेशातिदेशाभ्यां संहृत्य विधिरिति। तृतीयस्तूभाभ्यां विधानस्यादृष्टार्थत्वापत्तेर्यज्ञताया इति च स्तुतिदर्शनात् प्रकृतगृह- मेधीयस्तुत्यर्थमिति । चतुर्थस्तु गृहमेधीयविध्येकवाक्यत्वाभावेन तत्प्रशंसार्थत्वायोगात् यज्ञताया इत्याज्य- भागस्तुतिप्रतीतेरनन्यपरं पुनः श्रवणमाज्यभागधर्म्मककर्मान्तरविधानार्थमिति । पञ्चमस्त्वाज्यभागशब्दस्य धर्मलक्षणार्थत्वापत्तेः कर्मान्तरविध्ययोगादतिदेशो नाज्य- भागयोः प्रयाजादिषु च प्राप्तेष्वाज्यभागपुनःश्रवणमन्यपरिसंख्यार्थमिति । सोऽयमिह दर्शितः । षष्ठस्तु चोदकप्राप्तेः प्राथम्यात्फलतः परिसंख्यानुपपत्तेस्त्रिदोषत्वापरिहारादुपदिष्टाज्य- भागवर्जमतिदेश इति । सप्तमस्त्वखण्डकरणोपकारातिदेशद्वारेण युगपत्सर्वपदार्थप्राप्तेस्तद्वर्जनपक्षस्य तृतीये चोदनार्थकार्त्स्न्यात्तु मुख्यविप्रतिषेधात्प्रकृत्यर्थमित्यत्र निराकृतत्वादाज्यभागयोरेवातिदेशो- पसंहार इति । इममपि पक्षमतिदेशस्य क्रत्वर्थपदार्थविशेषगोचरत्वेन सामान्यविधिरस्पष्टः संह्रियेत विशेषत इत्युपसंहारायोग्यत्वान्निराकृतस्य कॢप्तोपकारप्राकृताज्यभागनिराकाङ्क्षत्वेनाति- देशाभावाद् गृहमेधीयस्यापूर्वत्वज्ञापनार्थमिदं वचनमिति सिद्धान्तो वक्ष्यते । नन्वन्यनिवृत्तिफलत्वे परिसङ्ख्याया निवृत्तेः प्राप्तिपूर्वकत्वात्प्राप्तमन्त्रविषयत्वोपपत्तेः त्रिदोषतापपरिहार्यं स्यादत आह—अत्रापि चेति । नन्वेवं सत्यानुमानिकवाक्यप्रति- बन्धकत्वत्वेनाथंवत्त्वोपपत्तेर्न गर्दभरशनानिवृत्तिफलत्वं स्यादत आह—सर्वस्येति । अप्राप्तविधित्वेऽपि फलतः परिसंख्यात्वे विस्तरेणोक्तम् सुखग्रहणार्थं सफलयति—तेनेति । परिसंख्यानिरूपणस्य तदर्थंशास्त्रतापरिहारोपयोगितामाह—इत्यपौनरुक्त्यादिति ॥ ३४ ॥ भा० प्र०—"इमामगृभ्णन् रशनामृतस्य इत्यश्वाभिधानीमादत्ते' (वा० सं० २२।२) इत्यादि वाक्य कहे गये हैं, किन्तु पुनः उल्लेख नहीं है। कारण, 'अश्वरशना' एवं 'गर्दभ- रशना' दोनों की ही प्राप्ति की सम्भावना है। ब्राह्मणवाक्य में कहा गया है कि गर्दभरशना ग्रहणीय नहीं है अश्वरशना ही ग्राह्य है। इस प्रकार की विधि न रहने पर गर्दभरशना भी ग्राह्य हो सकती थी, कारण, अश्वरशना के समान वह भी प्रकरण प्राप्त है। किन्तु, ब्राह्मणोपदिष्ट परिसंख्या विधि गर्दभारशना की व्यावृत्ति कर देती है। इस प्रसङ्ग में पूर्वपक्षी कह सकते हैं कि परिसंख्या अर्थात् अन्य की निवृत्ति स्वीकार करने पर तीन दोषों की प्राप्ति होती है।