मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
३४ ] प्रथमांध्याये द्वितीयपादः ११५ तत्रातिदेशप्राप्तयोराज्यभागयोरनुवादमात्रमेतदित्याद्यः पक्षः। द्वितीयस्त्वानर्थक्यपरिहारायोभयत्र विहितयोराज्यभागयोरिहाभ्युदयकारित्वकल्पनया प्रकृतिवदित्थं कर्त्तव्यमित्युपदेशातिदेशाभ्यां संहृत्य विधिरिति। तृतीयस्तूभाभ्यां विधानस्यादृष्टार्थत्वापत्तेर्यज्ञताया इति च स्तुतिदर्शनात् प्रकृतगृह- मेधीयस्तुत्यर्थमिति । चतुर्थस्तु गृहमेधीयविध्येकवाक्यत्वाभावेन तत्प्रशंसार्थत्वायोगात् यज्ञताया इत्याज्य- भागस्तुतिप्रतीतेरनन्यपरं पुनः श्रवणमाज्यभागधर्म्मककर्मान्तरविधानार्थमिति । पञ्चमस्त्वाज्यभागशब्दस्य धर्मलक्षणार्थत्वापत्तेः कर्मान्तरविध्ययोगादतिदेशो नाज्य- भागयोः प्रयाजादिषु च प्राप्तेष्वाज्यभागपुनःश्रवणमन्यपरिसंख्यार्थमिति । सोऽयमिह दर्शितः । षष्ठस्तु चोदकप्राप्तेः प्राथम्यात्फलतः परिसंख्यानुपपत्तेस्त्रिदोषत्वापरिहारादुपदिष्टाज्य- भागवर्जमतिदेश इति । सप्तमस्त्वखण्डकरणोपकारातिदेशद्वारेण युगपत्सर्वपदार्थप्राप्तेस्तद्वर्जनपक्षस्य तृतीये चोदनार्थकार्त्स्न्यात्तु मुख्यविप्रतिषेधात्प्रकृत्यर्थमित्यत्र निराकृतत्वादाज्यभागयोरेवातिदेशो- पसंहार इति । इममपि पक्षमतिदेशस्य क्रत्वर्थपदार्थविशेषगोचरत्वेन सामान्यविधिरस्पष्टः संह्रियेत विशेषत इत्युपसंहारायोग्यत्वान्निराकृतस्य कॢप्तोपकारप्राकृताज्यभागनिराकाङ्क्षत्वेनाति- देशाभावाद् गृहमेधीयस्यापूर्वत्वज्ञापनार्थमिदं वचनमिति सिद्धान्तो वक्ष्यते । नन्वन्यनिवृत्तिफलत्वे परिसङ्ख्याया निवृत्तेः प्राप्तिपूर्वकत्वात्प्राप्तमन्त्रविषयत्वोपपत्तेः त्रिदोषतापपरिहार्यं स्यादत आह—अत्रापि चेति । नन्वेवं सत्यानुमानिकवाक्यप्रति- बन्धकत्वत्वेनाथंवत्त्वोपपत्तेर्न गर्दभरशनानिवृत्तिफलत्वं स्यादत आह—सर्वस्येति । अप्राप्तविधित्वेऽपि फलतः परिसंख्यात्वे विस्तरेणोक्तम् सुखग्रहणार्थं सफलयति—तेनेति । परिसंख्यानिरूपणस्य तदर्थंशास्त्रतापरिहारोपयोगितामाह—इत्यपौनरुक्त्यादिति ॥ ३४ ॥ भा० प्र०—"इमामगृभ्णन् रशनामृतस्य इत्यश्वाभिधानीमादत्ते' (वा० सं० २२।२) इत्यादि वाक्य कहे गये हैं, किन्तु पुनः उल्लेख नहीं है। कारण, 'अश्वरशना' एवं 'गर्दभ- रशना' दोनों की ही प्राप्ति की सम्भावना है। ब्राह्मणवाक्य में कहा गया है कि गर्दभरशना ग्रहणीय नहीं है अश्वरशना ही ग्राह्य है। इस प्रकार की विधि न रहने पर गर्दभरशना भी ग्राह्य हो सकती थी, कारण, अश्वरशना के समान वह भी प्रकरण प्राप्त है। किन्तु, ब्राह्मणोपदिष्ट परिसंख्या विधि गर्दभारशना की व्यावृत्ति कर देती है। इस प्रसङ्ग में पूर्वपक्षी कह सकते हैं कि परिसंख्या अर्थात् अन्य की निवृत्ति स्वीकार करने पर तीन दोषों की प्राप्ति होती है।
२१६ मीमांसादर्शनम् [ सू० १—श्रुतार्थ त्यागः—श्रुत अर्थात् वाक्य प्राप्त गर्दभरशना-ग्रहणरूप अर्थ का परि- त्याग करना होगा। २—अश्रुत अर्थ की कल्पना—गर्दभरशना ग्रहणत्यागरूप अश्रुत अर्थ की कल्पना करनी होगी। ३—प्राप्तबाध—प्रकरण या लिङ्ग अर्थात् सामर्थ्यवश प्राप्त गर्दभरशना का बाध करना होगा। अश्वरशना के समान गर्दभरशना भी प्रकरण या लिङ्ग के अनुसार ग्रह- णीय होता है, किन्तु, परिसंख्या के द्वारा बाधित होकर अश्वरशना के ग्रहण में ही पर्यवसित होता है, इस प्रकार तीन दोषों की प्रसक्ति होती है। पूर्वपक्षी ने परिसंख्या में इन तीन दोषों का उद्भावन किया है। किन्तु, ये दोष सङ्गत नहीं हैं। कारण, प्राप्त विषय का बाध होने पर ही उक्त तीन दोषों की सम्भावना होती। किन्तु, इस स्थल में प्रकरण या लिङ्गवश गर्दभरशना की प्राप्ति से पूर्व ही प्रत्यक्ष श्रुति के आधार पर अश्वरशना ग्रहण बोधित है, अतः, प्राप्तार्थ का बाध नहीं होता है। क्योंकि, प्रकरण या लिङ्ग स्वयं विनियोजक नहीं होता है, प्रकरण के द्वारा वाक्य, वाक्य के द्वारा लिङ्ग या सामर्थ्य एवं सामर्थ्य के द्वारा विधायिका श्रुति अनुमित होती है। "इत्य- श्वाभिधानीम्" इस स्थल में प्रत्यक्ष श्रुति ही अश्वरशना के ग्रहण का विधान करती है। प्रत्यक्ष श्रुति की अपेक्षा लिङ्ग या प्रकरण परवर्ती है, उसके द्वारा प्रत्यक्ष श्रुति के द्वारा किसी पदार्थ के प्राप्त होने के बाद ही अन्य पदार्थ की प्राप्ति होती है। जिस समय प्रत्यक्ष श्रुति के द्वारा किसी पदार्थ का विधान होता है, उस समय लिङ्ग आदि के द्वारा विहित पदार्थ की प्राप्ति की उपस्थिति न होने से उसके बाध का प्रश्न ही नहीं उठता है। अनुपस्थिति का बाध कैसे सम्भव है ? प्राप्त अर्थ का बाध न होने पर निषेध रूप पदार्थ की कल्पना एवं विधि के स्वार्थ त्याग का भी प्रश्न नहीं है। इस दृष्टि से मीमांसकों ने स्वीकार किया है कि प्राप्त परिसंख्या में ही तीन दोषों का प्रसङ्ग होता है, अप्राप्त परिसंख्या दोष शून्य है। अतः, त्रिविध दोषों में एक दोष भी यहाँ सम्भावित नहीं है। फलतः, परिसंख्या के कारण इस स्थल में पुनरुल्लेख नहीं है। 'परिसंख्या' = अन्य निवृत्ति। 'इत्यश्वाभिधानीमादत्ते' इत्यादि स्थल में परिसंख्या अर्थात् अन्य की निवृत्ति के लिए ही ब्राह्मणवाक्य कहा गया है। आशय यह है कि "इमामगृभ्णन् रशनामृतस्य" (वा० सं० २२।२) 'इत्यश्वा- भिधानीमादत्ते' इस मन्त्र के सामर्थ्य से ही प्राप्त रशनादान का ब्राह्मणवाक्य विनियोजक है, इसका पुनः कथन व्यर्थ है। 'गर्दभामिधानीमादत्ते' यह परिसंख्या है। परिसंख्या में तीन दोष हैं—आदत्ते यह रशनादान रूप स्वार्थ का परित्याग करेगा, गर्दभरशना के आदान का निषेध रूप अन्य अर्थ की शब्द से कल्पना करनी पड़ेगी, रशनात्व सामान्य के आदान से गर्दभरशना और अश्वरशना इन दोनों के आदान की प्राप्ति होने से गर्दभ-
३५ ] प्रथमाध्याये द्वितीयपादः २१७ रशना के आदान का बाध होगा। इस प्रसङ्ग में सिद्धान्ती का कथन है कि गर्दभरशना की अप्राप्ति ही है। प्रकरण पाठ की अन्यथा अनुपपत्ति होने से इस मन्त्र से 'आदान= ग्रहण करना चाहिए' इस वाक्य की परिकल्पना होती है। इस वाक्य से मन्त्र और आदान का सम्बन्ध सिद्ध होने के बाद किस विषय का आदान किया जाय इस अन्वेषण में लिङ्गवश रशनामात्र का आदान प्राप्त होने से गर्दभरशना की प्राप्ति होनी चाहिए। किन्तु, यह विलम्ब से प्राप्त है। अतः 'अश्वाभिधानीम्' इस प्रत्यक्ष वाक्य से मन्त्र और आदान का सम्बन्ध रहने पर लिङ्गाधीन रशना अर्थ का प्राप्त आदान की 'अश्वाभिधानीम्' इस श्रुति से विशेष व्यवस्था होती है। रशना विशेष का आदान अश्वरशना के आदान से मन्त्र निराकाङ्क्ष हो गया है, अतः, गर्दभरशना के आदान की अप्राप्ति होने से प्राप्त का बाध नहीं होता है। इसलिए निषेधार्थ की कल्पना और विधि व अर्थ का त्याग यहाँ नहीं है। अप्राप्त गर्दभरशना का निवारण की दृष्टि से परिसंख्या अर्थात् अन्य निवृत्ति कही गई है ॥ ३४ ॥ अर्थवादो वा ॥ १.२.३५ ॥ शा० भा०—उरु प्रथा उरु प्रथस्वेति पुरोडाशं प्रथयतीत्यर्थवादार्था पुनः श्रुतिः, यज्ञपतिमेव तत्प्रथयतीति। ननु नायं मन्त्रस्य वाक्यशेषो, न च प्राप्तस्य स्तुत्या प्रयोजनम्। सत्यम्। नायं मन्त्रस्य विधिः संस्तवः। प्रथनमेव तत्र स्तूयते। मन्त्रः पुन रूपादेव प्राप्त इहानूद्यते प्रथनं स्तोतुम्। इत्थं प्रथनं प्रशस्तं यत्क्रियमाणमेवंरूपेण मन्त्रेण क्रियते। कस्तदा भवति गुणः। 'यज्ञपतिमेव तत्प्रजया पशुभिः प्रथयति'। किमेतदेवास्य फलं भवति। नेति ब्रूमः। स्तुतिः कथं भविष्यतीत्येवमुच्यते कथमसति प्रथने प्रथयतीति शब्दः। मन्त्राभिधानात्। मन्त्रेण पुरोडाशमध्वर्युः प्रथस्वेति ब्रूते। यश्चैवं प्रथस्वेति ब्रूते, स प्रथयति। यथा यः कुर्विति ब्रूते, स कारयति ॥ ३५ ॥ भा० वि - परोक्तं शास्त्रान्तरानर्थक्यं परिहरति—अर्थवादो वेति। सूत्रं व्याकरोति—उरु प्रथस्वेतीति। अर्थवादार्थत्वेन=स्तुत्यर्थत्वेनेति यावत्, स्तुति- मभिनयति—यज्ञेति। ब्राह्मणप्रदेशाम्नातस्यास्य न मन्त्रप्रदेशाम्नातमन्त्रविशेष- लिङ्गप्रकरणानुमितविधिशेषत्वेन स्तुतित्वमित्युक्तमित्याशङ्कते—नन्विति। मन्त्र- स्य=मन्त्रलिङ्गानुमितस्य विधेरित्यर्थः, किं च स्वस्यैव परोचनाशक्त्याविभवेन निवृत्ताकाङ्क्षत्वान्न स्तुत्या सम्बन्ध इत्याह—न चेति। प्राप्तस्य=पर्यवसितस्येत्यर्थः, यद्यपि नायं मन्त्रस्य प्रथने विनियोगं विधत्ते, लिङ्गानुमितिविधिनेव तत्सिद्धेः, नापि विनियोगं स्तौति, प्रकरणान्तरस्थत्वादस्य, तथापि प्रथयतीति प्रथनोत्पत्ति विधायोरु प्रथस्वेति प्रथनं स्तूयते नानर्थक्यमिति परिहरति—उच्यते इत्यादिना।
२१८ मीमांसादर्शनम् [ सू० ननु यज्ञपतिमेव तत्प्रजया प्रथयसीति अनेनैव स्तुतौ सिद्धायां किं प्रथन- मन्त्रानुवादेनेति तत्राह - मन्त्रः पुनरिति । स्तोतुमिति । प्रथनसाधनमन्त्रपर्या- लोचनयापि स्तोतुमित्यर्थः, स्तुतिमभिनयति--इत्थमिति । नन्वनेन मन्त्रेण क्रियमाणमपि प्रथनं कथं प्रशस्तं भवतीति पृच्छति--कस्तद्वेति । उत्तरं-- यज्ञपतिमिति । एतन्मन्त्रशेषे हि उरु ते यज्ञपतिः प्रथतां इत्येवंरूपाण्यक्षराणि पठ्यन्ते, तत्र च पुरोडाशप्रथनस्य यजमानप्रथनसाधनत्वावगमात् स्पष्टा प्रथन- स्तुतिरित्यर्थः, यज्ञपतिप्रथनमस्य फलत्वेन स्तुतित्वेन वा सङ्कीर्त्यत इति जिज्ञा- सया पृच्छति--किमिति । अस्य पुरोडाशप्रथनस्य यज्ञपतिप्रथनमेव फलं भवति किं फलमस्यैवैतत् किं न स्यादिति भावः । लिङ्गविनियोज्यतया प्रमेयमन्त्रस्य फलप्रमापकत्वाभावात् प्रथनफलानुवादेन स्तुत्युपपत्तेश्च, स्तुत्यर्थतैव युक्तेति परिहरति - नेति । ब्रूम इति । ननु प्रयोज्यव्यापाराभिधानं विना प्रयोजकव्या- पाराभिधानासम्भवात् प्रथत इति च प्रयोज्यव्यापारानभिधानेन च प्रथयतीत्यपि निर्देशाासम्भवात् अप्रतीयमानप्रयोजकव्यापारविधानासम्भवाच्च न विधिशेषतया स्तुतित्वेनार्थवत्तेति चोदयति--कथमसतीति । प्रथने=प्रथनशब्द इत्यर्थः, ऊरु प्रथस्वेति प्रतीकोपात्तमन्त्राभिहितप्रथनरूपप्रयोज्यव्यापारमाश्रित्य प्रथयतीति प्रयोजकव्यापारविधिसम्भवाद्युक्ता स्तुत्यर्थतेति परिहरति--मन्त्राभिधानादिति । एतद्विवृणोति--मन्त्रेणेति । तथा किमित्यत आह--यश्चेति । प्रथस्वेति स्व- व्यापारे प्रथने पुरोडाशं प्रेरयन् ह्यध्वर्युः प्रथयति, ततश्च प्रथनरूपप्रयोज्यव्या- पाराभिधायित्वं मन्त्रस्य स्फुटमित्यर्थः, प्रयोज्यं स्वव्यापारे प्रेरयन् प्रयोजको भवतीत्यत्र दृष्टान्तमाह-यथेति ॥ ३५ ॥ त० वा०- यद्यपि प्रदेशान्तरस्थत्वान्मन्त्रविधानं न स्तूयते, तथाऽपि प्रथन- विधानात्तत्परोचनया च सकलं वाक्यमर्थवत् । तस्य ह्येतदेवोत्पत्तिवाक्यम् । ननु च पुरोडाशान्यथानुपपत्तिप्राप्तत्वात्प्रथनं न विधातव्यम् । नैतन्नियोगातः प्राप्नोति । द्रुततरं हि पिष्टमप्रथितमपि प्रथेत् । विधाने तु सति तादृशं कर्तव्यम्, येन प्रथयितव्यं भवति । एवं चाध्वर्युकर्तृकताऽपि सिद्ध्यति । पठ्यमानं ह्याध्वर्य- वसमाख्यां लब्ध्वा कर्तृविशेषं नियच्छति । अर्थप्राप्तं त्वसमाख्यातत्वान्न निया- मकं स्यात् । एवमर्थं च यद्यप्येकान्ततोऽर्थात्प्राप्नुयात्, तथाऽपि वाक्येनैव प्राप- यितव्यम् । तस्मादुपपन्नो प्रथनस्तुतिः । एवमपि यज्ञपतिमेव तत्प्रथयतीत्यनेन स्तुतौ सिद्धायां मन्त्रग्रहणमनर्थकम् । न । मन्त्रस्यैव स्तुत्यर्थमुपादानात्, प्रथनं कर्तव्यम्, तस्य हि क्रियमाणस्यायं मन्त्रः साधनं भवति । तत्र चोरु ते यज्ञपतिः भवतीति गुणो लभ्यते । किमेतदेवास्य फलमिति । नेत्याह । स्तुत्यर्थमेव तद् द्रव्यसंस्कारकर्मस्विति न्यायात् । यद्यप्यत्र
पादायापि व्यापारं शब्देन प्रयोजकव्यापारः सिद्ध्यतीत्येतदप्युत्तरं सम्भवति,
३५ ] प्रथमाध्याये द्वितीयपादः २१९ करणमन्त्राभिहितत्वात्फलं कल्प्येत, तथाऽपि ब्राह्मणे तावत्तत्संकीर्तनमेकान्तेन स्तावकम्। मन्त्रोऽपि तु लिङ्गविनियोज्यो न फलकल्पनायै प्रभवति। करण- विभक्तिविनियुक्तानां हि सकलोपयोगान्यथानुपत्त्या फलसाधनता युक्ता, लिङ्गा- नुमिता पुनः श्रुतिराकाङ्क्षावशेन क्रियाप्रकाशनमात्रविनियोगायैव ज्ञायते। तेनैवंजातीयको मन्त्रोऽपि प्रधानफलसंकीर्तनात्मिका स्तुतिरेवाभ्युपगन्तव्या। कथमसति प्रथन इति। कस्यायं प्रश्नः किं विध्युद्देशवर्तिनः पुरोडाशप्रथन- स्य, अथ वाऽर्थवादगतस्य यज्ञपतिप्रथनस्येति। द्विधाऽपि चायुक्तं पुरोडाशप्रथनं तावद् विधीयमानत्वादेव न प्रष्टव्यम्। न च मन्त्राभिधानात्तस्यास्तित्वम्, किं तर्हि ? स्वरूपसद्भावादित्युत्तरमप्यसम्बद्धम्। अथ पुनरितरार्थवादन्यायेन कथ- मरुदतीतिवत्प्रश्नः। तथाऽप्युत्तरमसम्बद्धम्। मन्त्रेणाध्वर्युः पुरोडाशमिति पुरोडाशेन सम्बध्यते, न यजमानेन। तस्मादग्रन्थ इति केचित्। उभयथाऽपि त्विदमदुष्टम्। अस्तु तावत्पुरोडाशप्रथने। तत्र हि याज्ञिकानां केषाञ्चिदय मन्त्रः कृत्वा प्रथनम्, अभिमर्शने प्रयुज्यते। सोऽयं स्वसिद्धान्तेन पृच्छति कथमसति वृत्ते प्रथने प्रयुज्यमानेनानेन प्रथयतीति। तत्राभ्युपेत्यवादेनोत्तरं मन्त्राभिधानादिति। यद्यपि प्रथनं प्रथमकृतत्वा- न्नास्ति, मन्त्रेण नु सत्तयोच्यत इत्युपपन्नः शब्दार्थः। अथ वा सर्वप्रयोजकव्यापा- राणां प्रयोज्यव्यापारपूर्वकत्वमर्थरूपेण स्थितमिति शब्दैरपि तथैव प्रवर्तितव्यम्। इह च स्तुतिविषयसिद्धयर्थं प्रथयतीत्येतद्विधीयत इत्युक्तम्। तत्राऽऽह नायं विधिः सम्भवति, विषयानुपपत्तेः। प्रयोजकव्यापारो हि प्रतीयमानस्तद्गोचरः स्यात्। स चानुपान्तप्रयोज्यव्यापारत्वान्न प्रतीयते, तेन यथा यजेतेत्यनुक्ते याजयतीति नोच्यते, तथैह प्रथेतेत्यनुक्ते प्रथयतीति न वाच्यम्। न चेह पुरोडाशः प्रथेत, तेन वा प्रथितव्यमित्युपादानमस्ति। तस्मिन्न- सति प्रथयतीत्यनुपपन्नम्। तदुपपादयति मन्त्राभिधानादिति प्रतीकगृहीतमन्त्रोपात्तप्रयोज्यव्यापारं हि ब्राह्मणं प्रथयतीति विधत्ते। यश्च प्रथस्वेति ब्रूत इत्यनेन पुरोडाशकर्तृकं क्रिया- मध्वर्युः प्रेष्यतीत्येतद्दर्शयति। यद्यपि च सम्भाव्यमानक्रियाणां प्रयोज्यानामनु- पादायापि व्यापारं शब्देन प्रयोजकव्यापारः सिद्ध्यतीत्येतदप्युत्तरं सम्भवति, तथाऽपि तूत्तरविभवाद्दुपादानपूर्वकतैवोत्का। अथ वाऽस्तु यजमानप्रथने कथमसतीति सर्वस्तुतीनां किञ्चिच्छब्दगतमर्थगतं वाऽऽलम्बनमुक्तम्। तदत्र किंनिबन्धना स्तुतिरिति। तदभिधीयते। मन्त्रोक्तमर्थ- माश्रित्य स्तुतिः प्रवर्तिष्यते। मन्त्रेणाध्वर्युः पुरोडाशं ब्रूत इति न पुरोडाशप्रथनो- पादानाभिप्रायम्, किं तर्हि पुरोडाशं ब्रवीति, उरु ते यज्ञपतिः प्रथतामिति।
प्रथस्वेत्यपीतिकरणः प्रभृत्यर्थो न शब्दपदार्थतायै । यश्च प्रथस्वेति ब्रूत इत्यपि तदाचष्ट एव । प्रथतामिति ब्रूत इत्यर्थः । यश्चैवं ब्रूते, स प्रथयत्यनेनैव, गुण- वादात् । अथ वा तदाचष्ट इत्येवं मुख्यमेव प्रथयतीत्यर्थमाश्रित्य प्रथनबुद्ध्या सिद्धा स्तुतिः ॥ ३५ ॥ न्या० सु०-नन्विति । भाष्येण ब्राह्मणाम्नातस्य वाक्यस्य मन्त्रप्रदेशाम्नातमन्त्र- विशेषलिङ्गप्रकरणानुमितविधिशेषत्वाभावादर्थवादत्वं न युक्तमिति, प्रागुक्तां शङ्कामनु- भाष्य नायमित्यादिना मन्त्रस्तुत्यसम्भवेऽपि प्रथनस्तुतिर्भविष्यतीति परिहृतं तद्व्याचष्टे- यद्यपीति । प्रथनस्यार्थप्राप्तत्वेनाविधेयत्वात् । स्तुतिरयुक्तेति शङ्कते-ननु चेति । परिहरति-नैतदिति । आनर्थक्यात्तर्ह्यविधेयं प्रथममत आह-विधाने त्विति । अस्तु वा नियोगतः प्राप्तिः तथाप्यर्थाक्षेपात्प्रागध्वर्युकर्तृकत्वसिद्धयर्थं विधिरर्थवान् भविष्य- तीत्याह - एवं चेति । उपसंहरति-तस्मादिति । मन्त्रः पुनरिति भाष्यमवतारयितुमा- शङ्कते-एवमपीति । एतदाशङ्कानिराकरणार्थत्वेन व्याचष्टे-नेति । कथं मन्त्रोपादानेन प्रथनस्तुतिरित्युपेक्षायां स्तुतिप्रकारदर्शनार्थमित्यमिति भाष्यं व्याचष्टे-प्रथनमिति । प्रसङ्गाद्यज्ञपतिप्रथनं पुरोडाशप्रथनस्य फलत्वेन कीर्त्यते स्तुत्यर्थं चेति जिज्ञासितुं किमेत- दिति पृष्टं तद्व्याचष्टे-किमिति । फलत्वेन मन्त्रार्थत्वेनानुसन्धानमनेकयजमानकेषु च विकारेषु यजमानशब्दवद्यज्ञपतिशब्दस्येह इति जिज्ञासाप्रयोजनम् । 'नेति ब्रूम' इत्युत्तर- भाष्यमर्थवादाभिप्रायेण तावत् व्याचष्टे-नेत्याहेति । एवं तु मान्त्रवर्णिकफलकल्पनसम्भवेन यज्ञपतिप्रथनस्य फलत्वानपायात्पूर्णमय्यधिकरणे निराकृतत्वेन च जिज्ञासाऽनुपपत्तेरपरि- तोषान्मन्त्राभिप्रायेण व्याचष्टे-मन्त्रोऽपि त्विति । करणविभक्तिनिर्देशाभावेऽपि ममाग्ने वर्चो विहवेष्वस्त्वितिपूवंमग्निं गृह्णातीत्यादिषु तृतीये किमृत्विग्गामितया वर्चःप्रभृति- फलमाशास्यं यजमानगामितया वेति विचारदर्शनेन फलकल्पनाभ्युपगमादिति करणावगत- क्रियासम्बन्धान्यथानुपपत्तिकल्पितकरणतान्वयसिद्धयर्थं श्रुतार्थापत्त्या करणविभक्तिकल्प- नमभिप्रेत्य, करणविभक्तिविनियुक्तानामित्युक्तम् । कथमित्यादिना भाष्यमाक्षिपति- कथमिति । कस्येति कर्मणि षष्ठी । किं विषये इत्यर्थः । समाधानं प्रतिजानीते-उभय- थाऽपि त्विति । पुरोडाशप्रथनविषयत्वमङ्गीकृत्य प्रश्नं तावदुपपादयति-अस्तु तावदिति । सोऽयं याज्ञिकमतानुसारीत्यर्थः-स्वसिद्धान्तेनेति । निष्प्रमाणकत्वं सूचितम् । उत्तरमुप- पादयति-तत्रेति । यस्त्वयमध्वर्युकर्तृकः पुरोडाशविषयः प्रयोजकव्यापारात्मकः प्रथन- रूपोऽर्थो नास्तीत्युक्तः स यद्यपि पूर्वमेव कृतत्वाद्विदानीं नास्त्येव, न वर्त्तते, तथापि यथा सत्ता वर्त्तमानता भवति तथा मन्त्रेणोच्यत इत्यर्थः । इत्थम्भूतलक्षणे सत्तयेति तृतीया । ननु पुरोडाशकर्त्तृकः प्रयोज्यव्यापारो मन्त्रेणानुष्ठेयतयोच्यते, नाध्वर्युकर्त्तृकः प्रयोज्य- व्यापारो वर्त्तमानतयेत्याशङ्क्योपपन्नः शब्दार्थ इत्युक्तम् । अनुष्ठातृरूपप्रयोजकव्यापारान- भिधानेऽपि प्रेषणात्मकप्रयोजकव्यापाराभिधानादुपपन्नः प्रथयतिशब्दार्थ इति भावः ।
पादानपरतया व्याचष्टे — यश्चेति ।
३५ ] प्रथमाध्याये द्वितीयपादः २२१ अनेन च यश्चेत्यादिभाष्यं व्याख्यातं लिङ्गान्मन्त्रस्य प्रथनाङ्गत्व्वावगतेरभिमर्शंनकाले प्रयोज्यत्वानुपपत्ते रपरितोषात्पुरोडाशप्रथनविषय एवान्यथाभाष्यं व्याचष्टे—अथ वेति । अस्मिन्पक्षे कथमसत्यनुक्ते पुरोडाशकर्तृ ˚के प्रयोज्यव्यापाररूपे प्रथने प्रयोजकव्यापारवाची प्रथयतीतिशब्द इति प्रश्नभाष्यार्थः । उत्तरभाष्यं व्याचष्टे—तदुपपादयतीति । प्रतीकेनैक- देशेन गृहीतो यो मन्त्रः तेनोपात्तः प्रयोज्यव्यापारो यस्मिन्ब्राह्मणे, तत्प्रथयतीति । प्रयोजकव्यापारं विधत्त इत्यर्थः । यश्चेति भाष्यं प्रथस्वेति प्रेषणरूपे प्रयोजकव्यापारा- भिधानेन प्रयोज्यव्यापाराभिधानानुपादानादस्मिन्पक्षेऽनुपपन्नमाशङ्क्य, प्रयोज्यव्यापारो- पादानपरतया व्याचष्टे — यश्चेति । नन्वेतयान्नाद्यकामं याजयेदित्यादिषु प्रयोज्यव्यापारानुपादानेऽपि प्रयोजकव्यापारो- पादानदर्शनात्तत्पूर्वकत्वनियमो नास्तीत्युत्तरं कस्मान्नोक्तमत आह—यद्यपि चेति । अर्थक्रमानुसा रिशब्दक्रमनियमादर्शनेनास्याभिप्रायस्यातितुच्छत्वात्प्रश्नोत्तरभाष्ययोश्चोभयो- रप्यनाजंवापत्ते रपरितोषात्स्वमतेनार्थवादगतयज्ञपंतिप्रथनप्रश्नविषयतया व्याचष्टे—अथ वेति । अत्रैवोत्तरभाष्यं व्याचष्टे—तदभिधीयत इति । नन्वस्मिन्पक्षे मन्त्रेणेत्यादिभाष्यं पुरोडाशप्रथनाभिधायित्वादयुक्तं स्यादत आह—मन्त्रेणेति । नन्वेवं तर्ह्यरु ते यज्ञपतिः प्रथतामिति ब्रवीति यश्चोरु ते यज्ञपतिः प्रथतामिति ब्रूत इति च वक्तव्यमत आह— प्रथस्वेत्यतमिति । ततश्चैवं भाष्यार्थो भवतीत्याह—यश्चैवमिति । यश्चोरु ते यज्ञपतिः प्रथतामिति शब्दोच्चारणेन यज्ञपतिं प्रथयतोत्यर्थः । कथं शब्दोच्चारणमात्रेण प्रथन- कर्तृत्वं स्यादत आह—गुणवादादिति । प्रेषणरूपप्रयोजकव्यापारकर्तृत्वमुत्पादनरूपप्रयो- जकव्यापारकर्तृत्वेनोपचर्यत इत्यर्थः । यद्वा तत्करोति तदाचष्टे इत्याख्यानेऽपि णिजुत्पत्तिस्मरणान्मुख्यवृत्तित्वेन प्रथनाख्या- नात्प्रथयतिशब्दोपपत्तिरित्याह – अथ वेति । एवं व्याख्याने यज्ञपतिप्रथनस्य फलत्वाभावे निरालम्बना स्तुतिर्न युक्तेत्याशङ्कोत्थानात्पूर्वग्रन्थसङ्गतिः समञ्जसेति, एतदेव व्याख्या- नमभिप्रेतम् ॥३५॥ भा० प्र०—"उरु प्रथस्वेति पुरोडाशं प्रथयति" (तै० ब्रा० ३।२।८।४) यह ब्राह्मण वाक्य न तो मन्त्र का विधायक है और न प्रशंसा है । यह वाक्य 'यज्ञपतिमेव तं प्रथयति' यह वाक्य मन्त्रार्थ का ही अनुवादक है इसके द्वारा मन्त्र-प्राप्त प्रथन की प्रशंसा की गई है । इस सूत्र में 'वा' शब्द वैयर्थ्य का वारण करता है । अर्थवाद से सम्बन्ध के लिए ही ब्राह्मण में विधि कही गई है । “अर्थवादः” = ‘वा’ (एव) = आशङ्कित विफलता के निवारण के लिए है । “उरु प्रथस्वेति प्रथयति” इस स्थल में अर्थवाद होने से ब्राह्मण ग्रन्थ में मन्त्र के अर्थ का अनुवाद किया गया है ॥ ३५ ॥
२२२ मीमांसादर्शनम् [ सू० अविरुद्धं परम् ॥ १.२.३६ ॥ शा० भा०—यदुक्तं पदनियमस्यार्थवत्त्वादविवक्षितार्था मन्त्रा इति । काम- मनर्थको नियमः, न दृष्टमप्रमाणम् । नियतोच्चारणमदृष्टायेति चेत् ? अविरुद्धा अदृष्टकल्पनाऽस्मत्पक्षेऽपि । एवं प्रत्याय्यमानमभ्युदयकारि भवतीति ॥ ३६ ॥ भा० वि०—परमविवक्षितार्थत्वकारणं दूषयति--अविरुद्धमिति । परमित्य- नुवादभागं व्याचष्टे--यदुक्तमिति । अर्थवत्त्वाद्धेतोरर्थवत्त्वायैति यावत् । नियम एव निष्प्रयोजनत्वादविवक्षितो भवतु, न दृष्टफलमर्थाभिधानमप्रमाणमविवक्षित- मिति दूषयति--काममिति । नियमस्यापि निष्प्रयोजनत्वमसिद्धमिति शङ्कते-- नियमेति । अविरुद्धमिति सूत्रावयवं व्याचक्षाणः परिहरति--अविरुद्धेति । अदृष्टकल्पनाप्रकारमाह--एवमिति । क्रमविशेषवद्भिः पदसमूहैरर्थरूपं प्रत्या- य्यमानमित्यर्थः, उच्चारणाददृष्टं ब्रुवतापि यथाक्रमनियमाददृष्टं कल्प्यते इति न विरोध इत्यर्थः ॥ ३६ ॥ त० वा० अदृष्टार्थोच्चारणवादिनोऽपि तन्नियमादपरमवश्यं कल्पनीयमदृष्टम्, तन्ममापि प्रत्यायननियमाद्भविष्यतीत्यविरोधः । एतेन मन्त्रत्वादिनियमः प्रयुक्तः । सत्स्वप्युपायान्तरेषु विशिष्टानुपूर्वीकमन्त्रविशेषास्नानादुपायान्तरनिवृत्तौ नियमाददृष्टमात्रकल्पनया सिद्धमर्थाभिधानम् ॥ ३६ ॥ न्या० सु० - यदुक्तमिति भाष्येणार्थपरत्वे विशिष्टपदक्रमसमूहात्मकवाक्यनियमानर्थ- क्याशङ्कानुभाषणाथंत्वेन परमिति सूत्रावयवं व्याख्याय, काममित्यादिना परिहारार्थ- त्वेनाविरुद्धमिति सूत्रावयवो व्याख्यातः, तस्य तात्पर्यमाह—दृष्टार्थेति । क्रमान्यत्वेऽप्यु- च्चारणविशेषावगमाददृष्टान्तरं विनोच्चारणक्रमनियमानर्थक्यापत्तेरदृष्टद्वयकल्पनात्पूर्वपक्षे गौरवमित्याशयः । वाक्यनियमहेतोर्व्याख्यानान्तरेष्वप्येतदेव सूत्रं परिहारार्थत्वेन योजयति— एतेनेति । एतेन नियमाददृष्टकल्पनायामपि दृष्टार्थस्याविरोधिनादृष्टार्थहेतुत्वेन मन्त्रत्वादि- नियमो निराकृत इत्यर्थः; एतदेव विवृणोति—सत्स्वपीति ॥ ३६॥ भा० प्र०—पूर्वपक्ष में 'अग्निमूर्द्धा दिवः' इत्यादि मन्त्रों का पद विन्यास का क्रम नियत है, अर्थात् क्रम में किसी प्रकार का परिवर्तन सम्भव न होने से ( अपरिवर्तनीय ) होने से वह अदृष्टार्थक है—यह मैं भी स्वीकार करता हूँ । जिस रूप में मन्त्र का पाठ है, उसी रूप में वह उच्चारणीय है, व्यतिक्रमकर उच्चारण करने पर वह याग के फल के साधनीभूत अपूर्व का जनक नहीं होता है । किन्तु, अदृष्ट के अनुरोध से अर्थ-प्रकाश रूप दृष्ट प्रयोजन का अपलाप करना उचित नहीं है । क्योंकि, अदृष्ट दृष्ट का विघातक नहीं हो सकता है । कारण, दृष्ट के उपपादन के लिए ही अदृष्ट की कल्पना होती है,
सूत्रार्थो विवृतः अनुपलम्भ इति परिहारप्रतिज्ञां व्याचष्टे - तन्नेति । संस्कार-
३७ ] प्रथमाध्याये द्वितीयपादः २२३ इसलिये आचार्य उदयन ने कहा है—“नादृष्टं दृष्टघातकम्” ( कुसु० ५।४ ) अतः, द्वितीय दूषण मेरे सिद्धान्त का विरोधी नहीं है । “अविरुद्धम्” = विरुद्ध नहीं है, परम् = द्वितीय वचन, वाक्यनियमात् = यह वचन हमारे सिद्धान्त का विरोधी नहीं है ॥३६॥ सम्प्रैषे कर्मगर्हानुपलम्भः संस्कारत्वात् ॥ १.२.३७ ॥ शा० भा०—अथ यदुक्तं ‘प्रोक्षणीरासादयेति’ बुद्धबोधनमशक्यं अत उच्चा- रणाददृष्टमिति । तन्न । कर्तव्यमित्यपि विज्ञातेऽनुष्ठानकाले स्मृत्या प्रयोजनम् । उपायान्तरेणापि सा प्राप्नोति । अतोऽनेनोपायेन कर्तव्येति नियमार्थमाम्नानम्, संस्कारत्वात् ॥ ३७ ॥ भा० वि०—यद्वा अविरोधे हेतुमाह—एवमिति । इतिर्हेतौ । बुद्धशास्त्रानर्थक्यं परिहरति—सम्प्रैष इति । सम्प्रैषे कर्मगर्हेति सूत्रावयव- मनुभाषणपरतया व्याचष्टे—अथेति । यद्यपि पूर्वमग्नीदग्नीनिति वाक्यमुदा- हृतमिति ध्येयम्, अनेन सम्प्रैषेऽग्नीदग्नीन् इत्यादौ याभिधानकर्मगर्हाभिप्रेतेति सूत्रार्थो विवृतः अनुपलम्भ इति परिहारप्रतिज्ञां व्याचष्टे - तन्नेति । संस्कार- त्वादिति हेतुमनुष्ठेयार्थस्मृतिलक्षणपुरुषसंस्कारार्थत्वादिति व्याचष्टे—कर्तव्य- मिति । बुद्धबोधनमपि कर्तव्यमिति विज्ञायते यतः प्रयोगकालीनया स्मृत्या प्रयोजनमस्तीति सम्बन्धः । ननु विद्यादिनापि स्मृतिसिद्धेरानर्थक्यं तदवस्थमेवेति चोदयति—उपाया- न्तरेणेति । संस्कारत्वादिति हेतुमावृत्त्या योजयन् परिहरति—अनेनेति । अदृष्ट- रूपसंस्कारार्थत्वात् स्मरणस्य मन्त्रेणैवोपायेन कर्तव्यमिति नियमार्थं शास्त्र- मर्थवदित्यर्थः ॥ ३७ ॥ त० वा०—येयं सम्प्रैषे ‘अग्नीदग्नीनित्यत्र’ बुद्धबोधनासम्भवादभिधानकर्म- गर्हाऽभिहिता, साऽप्यनुपालम्भः, स्मरणसंस्कारार्थत्वात् । बुद्धीनां हि क्षणिकत्वा- त्स्वाध्यायकालोत्पन्नानां न प्रयोगकालं यावदवस्थानम्, तत्रावश्यं केनचिद्ध्याना- दिनाऽनुसन्धाने कर्तव्ये मन्त्रो नियम्यते । अथ वा संस्कारत्वादिति । यदि हि बोध एवावतिष्ठते, ततोऽनवकाशत्वं भवेत्, इह तु तदीयसंस्कारमात्रावस्थानात्तदभिव्यक्तिद्वारेणास्ति ज्ञानोत्पत्त्यवसर इति न मन्त्रानर्थक्यम् ॥ ३७ ॥ न्या सु०—अथेति भाष्येण बुद्धशास्त्रानर्थक्याशङ्कानुभाषणाथंत्वेन सम्प्रैषे कर्मगर्हेति सूत्रावयवं व्याख्याय, तन्नेत्यनेन च परिहारप्रतिज्ञार्थत्वेनानुपालम्भ इति सूत्रावयवं
२२४ मीमांसादर्शनम् [ सू० व्याख्याय, कर्त्तव्यमित्यनेन च हेतुप्रतिपादनार्थत्वेन संस्कारत्वादिति सूत्रावयवं व्याख्याय पुनरुपायान्तरेणापि सा प्राप्नोतीत्यन्यथापि स्मृतिसिद्धेरानर्थक्यमाशङ्क्योनानेनोपायेनेत्यनेन भाष्येणादृष्टसंस्कारत्वादिव्यावृत्त्या स एव व्याख्यातः तत्सर्वं तात्पर्यतो व्याचष्टे—येयमिति । संस्कारत्वादिति सूत्रावयवं स्वयमन्यथा व्याचष्टे—अथ वेति ॥ ३७॥ भा० प्र०—'बुद्धशास्त्रात्' इस सूत्र में पूर्वपक्षियों ने दोष उद्भावन किया है, किन्तु वह ठीक नहीं है। क्योंकि मन्त्र के द्वारा अनुष्ठेय विषय का स्मरण होता है। मन्त्र के द्वारा स्मरण करने पर याग संबंधी अपूर्व निष्पन्न होता है, अन्यथा नहीं। अतः, ऐसे स्थलों में मन्त्र के द्वारा ही स्मरण करना चाहिए—इसी नियम की कल्पना करना चाहिए। 'संस्कारार्थात्' इसके अर्थ में आचार्य कुमारिल ने कहा है कि—स्मृति उद्बो- धक सापेक्ष है। और मन्त्र स्मरणीय विषयक उस उद्बोधनरूप संस्कार का साधन है। अतः, मन्त्र के द्वारा अग्नीध्र का संस्कार अर्थात् स्मृति का उद्बोध न होने से वह निरर्थक नहीं है। इसलिए, जूता पहने हुए पैर में पुनः जूता के पहनने का दृष्टान्त इस स्थल में उपयुक्त नहीं है। “सम्प्रेष”='अग्नीदग्नीन् विहर' इत्यादि प्रैषण में, 'कर्मगर्हा'=ज्ञातकर्म को पुनः ज्ञापनरूप निन्दा या दोष का उदाहरण दिया है वह “अनुपालम्भः” = निन्दा या दूषण नहीं है 'संस्कारत्वात्' = क्योंकि, उसके द्वारा अग्नीध्र का संस्कार होता है ॥३७॥ अभिधानेऽर्थवादः ॥ १.२.३८ ॥ शा० भा०—'चत्वारि शृङ्गा' इत्यसद्भिधाने गौणः शब्दः । गौणी कल्पना प्रमाणवत्त्वात् । उच्चारणाददृष्टमप्रमाणम् । चतस्रो होत्राः शृङ्गाणीवास्य । त्रयोऽस्य पादा इति सवनाभिप्रायम् । द्वे शीर्षे इति पत्नीयजमानौ । सप्त हस्तास इति च्छन्दांस्यभिप्रेत्य । त्रिधा बद्ध इति त्रिभिर्वेदैर्बद्धः । वृषभः कामा- न्वर्षतीति, रोरवीति शब्दकर्मा, महो देवो मर्त्यानाविवेशेति मनुष्याधिकाराभि- प्रायम् । तद्यथा चक्रवाकस्तनी हंसदन्तावली काशवस्त्रा शैवालकेशी नदीति नद्याः स्तुतिः । यज्ञसमृद्धये साधनानां चेतनसादृश्यमुपपादयितुकाम आमन्त्रणशब्देन लक्ष- यति ओषधे त्रायस्वैनमिति, शृणोत ग्रावाण इति च । अतः परं प्रातरनुवाकानु- वचनं भविष्यति, यत्राचेतनाः सन्तो ग्रावाणोऽपि शृणुयुः, किं पुनर्विद्वांसोऽपि ब्राह्मणा इति । इत्थं चाचेतना अपि ग्रावाण आमन्त्र्यन्ते ॥ ३८ ॥ भा० वि० — असदर्थत्वेनानर्थक्यं दूषयति — अभिधाने इति । सूत्रं व्याचष्टे— चत्वारीति । अविद्यमानमपि चतुश्शृङ्गत्वदिरूपकल्पनयाभिधाय यागस्तावको- ऽयं मन्त्रः इत्यर्थः ।
३८ ] प्रथमाध्याये द्वितीयपादः २२५ ननु गौणार्थत्वकल्पनाददृष्टार्थत्वकल्पनं गौरवमत आह-गौणेति । प्रमाणवती दृष्टचरी अप्रमाणं-विनियोजकप्रमाणरहितम् । उपमेयस्योपमानगुणयोगं सूचयितु- मुपमेयस्वरूपं दर्शयन् मन्त्रं व्याचष्टे-चत्वार इति । शृङ्गाणीव शृङ्गाणि होनारः अत्यन्तोपकारकत्वगुणयोगात्, अस्य यागस्य त्रीणि सवनानि पादा इव पादाः, अस्य सवनाश्रितत्वाद्यज्ञस्य, प्राधान्यात् पत्नीयजमानौ शीर्ष इव शीर्षे । गायत्र्या- दीनि चन्दांसि हानोपादानोपायत्वात् हस्ता इव हस्तासः, त्रिभिर्वेदैः बन्धन- कल्पैः बद्धः अयमेव यज्ञो नायमिति, ततः काम्यमानफलत्वाद्वृषभ इव वृषभः रोरवीतीव स्तोत्रशास्त्राद्यनेकशब्दोपेतत्वात् आवेशस्यासंभवादाविवेशेवेति मनुष्याधिकाराभिप्रायम् । एवं गुणवादेन यज्ञस्तुतिपरोऽयं मन्त्र इत्यर्थः, गुण- कल्पनया स्तुतिं दृष्टान्तेनोपपादयति-तद्यथेति । एवं मा मा हिंसीरित्यादिषु हविर्धानादिष्वविद्यमानमपि हिंसादिसामर्थ्यमारोप्य तन्निषेधेन हविर्धानादिः स्तू- यत इति नानर्थक्यमिति द्रष्टव्यम् । अचेतनेऽर्थबन्धनपरिहारतयाप्येतत्सूत्रं व्याचष्टे-एवमिति । यज्ञसमृद्धये- यज्ञ उत्साहजननाय यज्ञसाधनभूतामोषधिं चेतनसादृश्येन स्तोतुमामन्त्रणशब्देन लक्षयति-ओषध इति । सम्बुद्ध्यन्तेन प्रतिपादयतीत्यर्थः, त्रायस्वेति प्रैषणं तु ग्रावप्रैषणन्यायेनाविद्धमिति मत्वा ग्रावप्रैषणमुपपादयति-शृणोतेति । इतः प्रभृति अस्माद्धोमादनन्तरमित्यर्थः, इतीत्यस्यानन्तरमनुवाकः स्तूयत इत्यध्या- हार्यम् । ग्रावस्वामन्त्रणोपपत्तिमप्याह-इत्थं चेति । प्रैषणवत् स्तुत्यर्थतयेत्यर्थः । अनेन च प्रबन्धेनाचेतने चैतन्याभिधानेऽर्थवादशब्द इति सूत्रं व्याख्यातम् । अर्थविप्रतिषेधं दूषयति-गुणादिति । सूत्रं व्याचष्टे-अदितिरिति । अदितेस्त- त्कार्यकारित्वेन गुणेन द्युदिव्यपदेशो गौण इति न विप्रतिषेध इत्यर्थः, व्यप- देशस्य गौणत्वेनापि प्रतिषेधं दृष्टान्तेनाह-यथेति । एतदेव सूत्रं गुणाद्विशेषणात् कर्मविशेषलक्षणं विशेषभेदं निमित्तीकृत्याय व्यपदेशः, अतो न विप्रतिषेध इत्येव- मुदाहरणान्तरे व्यावृत्त्या योजयति-तथैवेति ॥ ३८ ॥ त० वा०—'चत्वारि शृङ्गेति' रूपकद्वारेण यागस्तुतिः कर्मकाल उत्साहं करोति । होत्रे त्वयं विषुवति होतुराज्ये विनियुक्तः । तस्य चाऽऽग्नेयत्वादहंश्चाऽऽ- दित्यदैवतत्वसंस्तवादादित्यरूपेणाग्निस्तुतिरूपवर्ण्यते । तत्र चत्वारि शृङ्गेति दिवसयामानां ग्रहणम् । त्रयो अस्य पादा इति शीतोष्णवर्षाकालः । द्वे शीर्षे इत्य- यनाभिप्रायम् । सप्त हस्ता इत्यश्वस्तुतिः । त्रिधा बद्ध इति सवनाभिप्रायेण ! वृषभ इति वृष्टिहेतुत्वेन स्तुतिः । रोरवीति स्तनयित्नुना । सर्वलोकप्रसिद्धेर्महान्देवो मर्त्यानाविवेशेत्युत्साहकरणोपकारेण सर्वपुरुषहृदयानुनप्रवेशात् । एवमनेन मार्गे- णास्ति तावद्धर्मसाधनस्मृतिः ॥ ३८ ॥ १५
२२६ मीमांसादर्शनम् [ सू० न्या० सु०— चत्वारीत्यादिभाष्येणाविद्यमानवचनपरिहारार्थत्वेन तावदेतत्सूत्रं व्याख्यातम् । तत्र कस्य स्तुतिः ? किमर्था वेत्यपेक्षायामाह— चत्वारीति । अस्मिंस्तु व्याख्याने प्रदेशविशेषापरिज्ञानान्मन्त्रस्यादृष्टार्थत्वापत्तेरपरितोषाद्विनियोगानुसारेण स्वय- मन्मथा व्याचष्टे -होत्रे त्विति । हौत्रं-प्रवचनमृग्वेदः । तद्विहितानां मन्त्राणां नोत्साहकरत्वं यजुर्वेदविहितानामेव केषांचित्त्वात्त्वदर्शनादिति वक्तुं होत्रग्रहणम् । विषुवन्नामैकाहविशेषः तत्रातिदेशतश्च चत्वार्याज्यसंज्ञकानि शस्त्राणि होतुर्मैत्रावरुणब्राह्मणाच्छंस्यच्छावाकप्रयोज्यानि प्राप्तानि । तत्रान्येषामनाग्नेयत्वाद्वौत्रविशेषणम् । ततः किमिति चेत् अत आह—तस्येति । आग्नेयं होताज्यं शंसतीति श्रुतिर्होतुराज्यास्याग्नेयत्वं सूर्यदैवत्यं ह्येतदहरिति श्रुतेर्विषु- वत्संजकस्याह्न आदित्यदेवतात्वमतिदेशप्राप्तानेकेन्द्रवाय्वादिदेवतात्वान्न वस्तुवृत्त्याऽऽदि- त्यदेवत्वमस्तीति कृत्वा संस्तवादित्युक्तं तेजस्त्वादिसामान्यं चादित्यधर्माणामग्नावुपचार- स्यालम्वनम्, स्तोत्रशस्त्राणामदृष्टार्थत्वात्कर्मसमवेतदेवतानादरेणाव्यक्तलिङ्गत्वदस्य मन्त्रस्या- स्येति च सर्वनामयुक्तत्वात्सन्निहिताग्निस्तुत्यर्थत्वावधारणं यज्ञसमृद्ध्य इत्यादिभाष्येण एतदेव सूत्रमचेतनार्थबन्धनपरिहारार्थत्वेनाधीष्वष्याडावचेतनचैतन्याभिधानेनार्थवादत्वं परिहार इत्यावृत्त्या व्याख्यातम् । तत्करणमन्त्राणामदृष्टसाधनस्तुत्यर्थत्वानुपपत्तेर्युक्तमाशङ्कयाह-एवमिति । अविद्यमान- वचने यथा स्तुतित्वं परिहारः एवमचेतनार्थबन्धनेऽप्यनेन स्तुतित्वमात्रेण कर्मसाधन- स्मृतिपरिहार इत्यर्थः । कर्मसाधनस्मृत्यर्थस्यापि मन्त्रस्य विशेषणांशे स्तुत्यर्थत्वोक्तिरिति भावः । सकलस्य तर्हि मन्त्रस्य करणत्वं न सिद्धचेदित्याशङ्कयास्ति तावदित्युक्तम् । करणमन्त्रोच्चारणे, कर्मसाधनस्मृतिस्तावद्भवति । तत्राकर्मसमवेतार्थाभिधायिनामपि पदानां समवेतार्थपदशेषत्वेन स्मृत्यर्थत्वोपपत्तेः सकलस्य मन्त्रस्य करणत्वसिद्धिरित्याशयः ॥३८॥ मा० प्र०—अभिधाने = अभिधानविषय में अर्थात् अविद्यमानवचन के विषय के सम्बन्ध में जो कहा गया है वह, अर्थवादः = प्रशंसा निन्दा अर्थात् गौण अर्थ में प्रयुक्त हुआ है । पूर्वपक्षी । अविद्यमानवचनात् १।२।३१ इस सूत्र के द्वारा यह कहा गया है कि जिसका अस्तित्व नहीं है, उसके विषय में मन्त्र से कहा गया है । उस प्रसङ्ग मे उक्त आपत्ति का उत्थापन ठीक नहीं है, क्योंकि वह अर्थवाद मात्र है । चत्वारि शृङ्गास्त्रयो अस्य पादा द्वे शीर्षे सप्तहस्तासो अस्य ! त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आविवेश ॥ —(ऋग्वेद ४।५८।३) इस मन्त्र में रूपक के व्याज से यज्ञपुरुष का वर्णन किया गया है । यज्ञपुरुष का चार शृङ्ग अर्थात् होता, अध्वर्यु, उद्गाता एवं ब्रह्मा ये चार ऋत्विक् यज्ञ के शृङ्ग स्वरूप हैं । इनके तीन चरण अर्थात् प्रातःसवन, माध्यन्दिनसवन, तृतीयसवन ये तीन सवन तीन पादस्वरूप हैं । इनके दो शीर्ष अर्थात् यजमान और पत्नी ये दो मस्तक स्वरूप हैं । इनके सात हाथ अर्थात् (१) गायत्री, (२) उष्णिक्, (३) अनुष्टुप्,
३८ ] प्रथमाध्याये द्वितीयपादः २२७ (४) बृहती, (५) पङ्क्ति, (६) त्रिष्टुप्, (७) जगती ये सात छन्द सात हाथ स्वरूप हैं । त्रिधा बद्ध अर्थात् ऋग्वेद, यजुर्वेद और सामवेद इन तीन वेदों के द्वारा ऋङ् मन्त्र, साममन्त्र और यजुर्मन्त्र के द्वारा तीन प्रकार से बद्ध है। यह वृषभ अर्थात् कामनाओं का वर्षण करने वाला, सभी कामनाओं का सफल करने वाला है। रोरवीति = पुनः पुनः शब्द करता है अर्थात् ऋत्विक् यज्ञ में स्तोत्र, शस्त्र आदि की आवृत्ति के द्वारा शब्दाय- मान रहते हैं। यह महो देवः परिपूर्ण यज्ञपुरुष है। यह मर्त्यां आविशेश अर्थात् मनुष्यों के मध्य में प्रविष्ट हुए हैं। क्योंकि त्रैवर्णिक मनुष्य ही यज्ञ के अधिकारी हैं। काव्यों में कवियों के द्वारा किसी के सौन्दर्य आदि वर्णन के प्रसङ्ग में चक्रवाकस्तनी, हंसदन्तावली, शैवालकेशिनी नदी आदि रूपक कहा जाता है, प्रकृत में भी इसी प्रकार रूपक के व्याज से यज्ञपुरुष का वर्णन किया गया है। अतः यह अविद्यमान वचन नहीं है। यह निरुक्तकार ने व्याख्या प्रस्तुत की है। वस्तुतः इस मन्त्र का अर्थ गूढ है- महाभाष्य में आचार्य पतञ्जलि ने इस मन्त्र से शब्द ब्रह्म के स्वरूप का वर्णन किया है। सर्वदर्शन संग्रह में पाणिनीयदर्शनप्रकरण में एवं ऋग्वेदभाष्यभूमिका में व्याकरण की उपयोगिता-प्रदर्शन-प्रसङ्ग में सायणाचार्य ने महाभाष्य की व्याख्या को उद्धृत किया है-नाम, आख्यात, उपसर्ग और निपात ये चार शृङ्ग के समान हैं। भूत, भविष्य, और वर्तमान ये तीन काल चरण के समान हैं। सुबन्त एवं तिङन्त ये दो मस्तक हैं। सात सुप् विभक्तियां सात हाथ के समान हैं। वक्ष, कण्ठ एवं मस्तक इन तीन स्थानों के विशेष संस्पर्श से शब्दों की अभिव्यक्ति होने से शब्द तीन प्रकार से आबद्ध है। वृषभ कामना वर्षण करते हैं। ये विशेष रूप से रव शब्द करते हैं अर्थात् शब्द विवर्तप्रपञ्च के मध्य में प्रवेश करते हैं, जीव इनसे अभिन्न है क्योंकि जगत् शब्दब्रह्म का विवर्त होने से उसमें अध्यस्त है अर्थात् आध्यासिक सम्बन्ध से कल्पित है कल्पित वस्तु की अधिष्ठान से अतिरिक्त सत्ता नहीं होती है, अतः अधिष्ठान से वह भिन्न नहीं होता है। ऐसा महान् देव शब्द मनुष्यों के बीच विशेष रूप में प्रकट हुआ है। आचार्य सायण ने इस मन्त्र की व्याख्या में विनियोग के अनुसार इस प्रकार कहा है- सूर्य पक्ष में -- दिन का चार प्रहर चार शृङ्ग स्वरूप हैं। शीत, ग्रीष्म और वर्षा ये प्रधान तीन ऋतु तीन चरण के समान हैं। उत्तरायण और दक्षिणायन ये दो अयन दो मस्तक के समान हैं। प्रातःसवन, माध्यन्दिनसवन एवं तृतीयसवन ये तीन सवनों से त्रिधा आबद्ध है। वृष्टि हेतु होने से वृषभ है। मेघ के शब्द से ये महान् शब्द करते हैं एवं मानवों में प्रसिद्ध होने से महादेव हैं, ये सभी मनुष्यों को उत्साहित करते है क्योंकि सूर्योदय होने पर मनुष्य उत्साह सम्पन्न होते हैं। इसी प्रकार अग्नि, वायु आदि का भी वर्णन इससे किया है।
२२८ मीमांसादर्शनम् [ सू० इसी प्रकार 'अचेतनेऽर्थसम्बन्धात्' १।२।३१ इस सूत्र की व्याख्या में भी जो आपत्तियाँ उपस्थापित की गई हैं वे भी समीचीन नहीं हैं, क्योंकि ओषधे त्रायस्वैनम्, स्वधिते मैनं हिंसीः (तै० सं० १।२।१।१) यह वपन का मन्त्र है, यज्ञ में केश आदि का छेदनरूप संस्कार के समय यथाक्रम कुश एवं क्षुरा को उद्देश्य कर यह पढ़ा जाता है। अर्थात् वपन कर्म में अचेतन ओषधि एवं अस्त्र भी रक्षा करे-हिंसा न करे। चेतन नापित रक्षा करे अर्थात् हिंसा न करे यह कहने की आवश्यकता नहीं रहती है। शृणोत ग्रावाणः (तै० सं० १।३।१३।१) यह मन्त्र प्रातःकालीन अनुवाक के अध्ययन के समय पढ़ा गया है। अर्थात् अचेतन प्रस्तर आदि भी जब पठ्यमान अनुवाक का श्रवण करता है तब विद्वान् ब्राह्मण इसे अवश्य ही सुनेंगे। वेदान्तियों ने इसकी भिन्न व्याख्या की है—अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् (वेदान्तदर्शन २।१।५) इस सूत्र के भाष्य में आचार्य शङ्कर ने कहा है कि मृदब्रवीत्, आपोऽब्रुवन् (श० प० ब्रा० ६।१।३।२,४) मिट्टी बोली, जल बोला। तत्तेज ऐक्षत ता ऐक्षन्त (छा० ६।२।३,४) तेज ने देखा, जल ने देखा। ते हेमे प्राणाः अहं श्रेयसे विवद- माना ब्रह्म जग्मुः, वे ये प्राण (इन्द्रियाँ) अपनी प्रधानता के लिए विवाद करते हुए ब्रह्म के समीप गये इत्यादि प्रसङ्ग में अचेतन भूत, इन्द्रिय आदि ने जो चेतन के समान व्यवहार किया है वह भूत और इन्द्रियों का नहीं है अपितु वहाँ मृत्तिका, जल, तेज एवं इन्द्रियों के अभिमानी चेतन देवता हैं, उनका है। क्योंकि श्रुतियां भूत आदि अचेतनों एवं उसके भोक्ता चेतन के विशेषत्व को कहती है। अग्निर्वाग् भूत्वा मुखं प्राविशत् (ऐ० आ० २।४।२।४) अग्नि वाणी होकर मुख में प्रविष्ट हुआ। इत्यादि कथन से सर्वत्र वाक् आदि इन्द्रियों के मध्य में देवता की अनुगति अर्थात् अधिष्ठातृत्व कहा गया है, इसलिए इन स्थलों में अचेतन पदार्थों का सम्बोधन किया गया है। अतः अभिमानी चेतन देवता का ही अचेतन से उल्लेख किया गया है ॥ ३८ ॥ गुणादविप्रतिषेधः स्यात् ॥ १.२.३९ ॥ शा० भा०—'अदितिद्यौरि'ति गौण एष शब्दः। अतो न विप्रतिषेधः। यथा त्वमेव माता पितेति, तथैकरुद्रदैवत्ये एको रुद्रः, शतरुद्रदैवत्ये शतं रुद्रा इत्यविरोधः ॥ ३९ ॥ भा० वि०—स्वाध्यायवचनेनाभ्यासदोषं परिहरति—विद्येति। तत्र प्रथमं तावत् परेणानुक्तमपि शङ्कान्तरं संभवमात्रेणोपन्यस्य निराकुर्वन् सूत्रं योज- यति—यत्त्विति। अकर्मकाले विद्याकाले, विवक्षितार्थत्वे हि मन्त्राणां विद्या- कालेऽपि मन्त्रेणार्थप्रकाशनेच्छा भवेत्, हन्तिरूपस्यार्थस्य सन्निहितत्वादतस्त- दभावादेवार्थाविवक्षा गम्यत इति यदुक्तम्, तदप्ययुक्तं पूर्णिकाहन्तेरयज्ञाङ्गत्वेन यज्ञोपकाराय प्रकाशनेच्छानुपपत्तेरित्यर्थः, विद्याकाले मन्त्रेणार्थस्यावचनप्र- काशनं प्रकाशनेच्छाभावः असंयोगाद्यज्ञसंयोगाभावादिति सूत्राक्षरार्थः ॥ ३९ ॥
३९ ] प्रथमाध्याये द्वितीयपादः २२९ त० वा०—अदितिद्यौरदितिरिति । नात्र द्युत्वादीनि विवक्षितानि । किं तर्हि ? अदितौ प्रकाशयितव्यायामविद्यमानविप्रतिषिद्धधर्मोपादानं स्तुत्यर्थम् । गुणवादेन त्वौदुम्बराधिकरणवत्संवादो योजयितव्यः ॥ ३९ ॥ न्या० सु०—यस्त्वर्थविप्रतिषेधः शङ्कितः, स गौणत्वात्परिहर्त्तव्य इत्येवं सूत्रं व्याख्यातुमदितिरित्यादिभाष्यं व्याचष्टे—अदितिरिति । स्तुतिविषयत्वाद गौणत्वस्य स्तुतित्वस्य चार्थवादाधिकरणव्युत्पादितस्याप्यौदुम्बराधिकरणविधित्वशङ्कानिराकरणेन प्रतिष्ठानार्थमुदुम्ब- राधिकरणवदित्युक्तम् ॥ ३९ ॥ भा० प्र०—गुणात् = गौण प्रयोग होने से, अप्रतिषेधः = विरोध नहीं है। “अदितिद्यौरदितिरन्तरिक्षम्” इत्यादि मन्त्रों में जो विरोध प्रदर्शन किया गया है वह ठीक नहीं है आप ही 'माँ-बाप हैं' इस लौकिक वाक्य के समान ही यह गौणार्थक है, अतः किसी तरह का विरोध नहीं है । एको रुद्रः एवं सहस्राणि सहस्रशो ये रुद्राः आदि मन्त्रों का भी विरोध नहीं है, क्योंकि एक रुद्र जिस कर्म का देवता है 'एको रुद्रः' यह मन्त्र उसी में पढ़ना चाहिए एवं जो कर्म शतरुद्रदैवत्य है, उसमें 'सहस्राणि सहस्रशो ये रुद्राः' आदि मन्त्र उसी में पढ़ना चाहिए। अतः कर्मभेदनिबन्धन देवता का भेद होने से किसी प्रकार का असामञ्जस्य नहीं है। इस प्रसङ्ग में वेदान्तियों ने कहा है कि रुद्र अनेक नहीं हैं, किन्तु एक ही रुद्र हजार या करोड़ मूर्तियों को धारण करता है—यह एक ही रुद्र की महिमा या विभूति के अतिरिक्त कुछ भी नहीं है। इसीलिए बृहदारण्यक उपनिषद् में कहा है कि “त्रयश्च त्री च शता च त्रयश्च त्री च सहस्रा, महिमान एव एषामेते त्रयंस्त्रिंशत्त्वेव देवाः”। एको देव इति प्राण इति स ब्रह्मेत्यादित्याचक्षते” (बृ० उ० ३।९।१,२,९) शाकल्य ने याज्ञवल्क्य से प्रश्न किया था कि कितने देवता हैं ? याज्ञवल्क्य ने प्रथम उत्तर दिया तीन सौ तीन, द्वितीय बार उत्तर दिया तीन हजार तीन। इसके बाद कहा कि देवता तैंतीस हैं और सब इन्हीं की महिमा है। अन्त में उत्तर दिया देवता एक है, वही प्राण अर्थात् हिरण्यगर्भ वही ब्रह्म, इसी को ज्ञानी 'त्यत्' शब्द से कहते हैं। हम लोगों में देवता की संख्या तैंतीस करोड़ है—यह प्रवाद निराधार नहीं है। क्योंकि, इस शास्त्र के सिद्धान्त से तैंतीस देवता की ही यह महिमा या विभूति है। तैंतीस देवताओं का भी एक में ही पर्यवसान होता है। यद्यपि आठ वसु, ग्यारह रुद्र बारह आदित्य, इन्द्र एवं प्रजापति आदि विभिन्न नाम धारण करने वाले सभी देवताओं की समष्टि को लक्ष्य कर ही श्रुतियों में तैंतीस देवता कहा गया है। एक ही ब्रह्म को औपाधिक भेद के अनुसार ही यह प्रकार भेद कहा गया है। इसलिए श्रुति ने आगे भी कहा है—एको देव इति प्राण इति स ब्रह्मं त्यादित्या- चक्षते। श्रुति ने अन्यत्र भी कहा है कि—
२३० मीमांसादर्शनम् [ सू० इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद् विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥ —(ऋग्वेद १।१६४।४६) एक ही सत् वस्तु को ब्राह्मणों ने इन्द्र, मित्र, वरुण, अग्नि, गरुत्मान्, यम, मातरिश्वा आदि नाम से अभिहित किया है। इसलिए सायणाचार्य ने ऋग्वेदभाष्योप- क्रमणिका में कहा है कि—'परमेश्वरस्यैव इन्द्रादिरूपेणावस्थानात् ।' यतः परमेश्वर ही इन्द्रादि रूप में अवस्थान करता है । अतएव एक एव रुद्रः एवं सहस्रशो रुद्राः, इन दो मन्त्रों के मध्य में कोई भी विरोध नहीं है एवं अर्थ की भी किसी तरह की सन्दिग्धता नहीं है ॥ ३९ ॥ विद्यावचनमसंयोगात् ॥ १.२.४० ॥ शा० भा०—यत्त्वकर्मकालेऽवहन्तिमन्त्रेण माणवको न पूर्णिकाऽहन्ति प्रकाशयितुमिच्छतीति । अयज्ञसंयोगाद्, न । यज्ञोपकारायैतत्प्रकाशयितु- मिच्छतीति । ननु प्रकाशनानभ्यासः, अक्षराभ्यासश्च परिचोदितः । उच्यते । सौकर्य्यात्प्रकाशनानभ्यासः । दुर्ग्रहित्वाच्चाक्षराभ्यासः ॥ ४० ॥ भा० वि० —नन्वक्षराभ्यासादध्ययनविधिविहितत्वाविशेषे कथमर्थप्रकाशना- नभ्यास इति पूर्वोक्तमाशङ्कते—नन्विति । विशेषहेतुं वदन् परिहरति—उच्यत इत्यादिना ॥ ४० ॥ त० वा०—यद्यपि पूर्वपक्षेऽयमभिप्रायो नोपन्यस्तः, तथापि संभवादुपन्यस्यते । यदि हि स्वाध्यायकालेऽर्थवचनमुपयुज्येत, ततस्तदाश्रीयेत, न त्वेवमस्ति, कर्म- भिरसंयोगात् । तदनभ्यासस्तु प्रोक्षणादिवत्सौकर्यात् ॥ ४० ॥ न्या० सु०—यत्त्वित्यादिना भाष्येण विद्याकाले सन्निहितस्याप्यर्थस्य यद्वचनमन- भिधानम्, तत्तस्य कर्मानङ्गत्वाद्युक्तमिति सूत्रं व्याख्यातम् । तदर्थस्य प्रागनुपन्यासाद्युक्त- माशङ्कयाह — यद्यपीति । व्याचष्टे—यदि हीति । नन्वित्यादिना प्रागुपन्यस्तामभिधानानभ्या- साशङ्काऽनुभाषणपूर्वकं परिहृता । तद्व्याचष्टे तदनभ्यासस्त्विति ॥ ४० ॥ भा० प्र०—विद्यावचनम् = विद्या-अवचन । माणवक का अवघात मन्त्रपाठ अवचन अर्थात् अवघातरूप अर्थ का प्रकाशक नहीं है । असंयोगात्—क्योंकि यज्ञ का संयोग अर्थात् संश्रव नहीं है । स्वाध्यायवद्वचनात् (१।२।३१) इस सूत्र के द्वारा उठायी गई आपत्तियाँ भी ठीक नहीं है । क्योंकि पूर्णिका नाम की नारी के द्वारा धान्य का अवहनन एवं ब्रह्मचारी के द्वारा मन्त्रपाठ का एक काल में होने में किसी प्रकार का वाचनिक संयोग नहीं है । अर्थात् न
४१ ] प्रथमाध्याये द्वितीयपादः २३१ तो पूर्णिका नाम की नारी यज्ञ के लिए अवहनन कर रही है और न ब्रह्मचारी ही यज्ञ के लिए मन्त्रपाठ कर रहा है । किन्तु काकतालीयन्याय से स्वाभाविक रूप में दोनों की एक कालीनता है । यही कारण है कि माणवक के द्वारा पढ़ा गया अवघात मन्त्र वहाँ अर्थ का प्रकाशक नहीं है । किन्तु यज्ञ का मन्त्रपाठ वाचनिक अर्थात् शास्त्रवचन से सिद्ध है और उन दोनों में वैसा वाचनिक या वैध सम्बन्ध रहता है । इसलिए इस स्थल में स्वतः प्राप्त अर्थ का प्रकाश निवारण के योग्य नहीं है । अथवा स्वाध्याय विधि स्थल के समान यहाँ भी विद्या-अवचन विद्या अर्थात् अर्थज्ञान का अवचन अर्थात् अविधान असंयोगात् अर्थात् अर्थ सिद्ध होने से दोष नहीं है । आशय यह है कि स्वाध्यायविधि स्थल में जैसे अर्थ का ज्ञान विधि से बोधित नहीं है, क्योंकि वह अर्थ सिद्ध है वैसे ही मन्त्र के उच्चारण स्थल में मी अनुष्ठेय अर्थ का प्रकाशन अर्थ सिद्ध है । क्योंकि स्वाध्याय वेद के अध्ययन से सभी मन्त्र पढ़ने योग्य एवं उनका अर्थबोध मी स्वारसिक है ॥ ४० ॥ सतः परमविज्ञानम् ॥ १.२.४१ ॥ शा० भा०—विद्यमानोऽप्यर्थः प्रमादालस्यादिभिर्नोपलभ्यते । निगमनिरुक्त- व्याकरणवशेन धातुतोऽर्थः कल्पयितव्यः । यथा सृण्येव जर्भरी तुर्फरीतू इत्येव- मादीन्यश्विनोरभिधानानि द्विवचनान्तानि लक्ष्यन्ते । अनेन 'अश्विनोः काममप्रा' इत्याश्विनं सूक्तमवगम्यते । देवताभिधानानि च घटन्ते जर्भरीत्येवमादीनि । अवयवप्रसिद्ध्या च लौकिकेनाथेन विशेष्यन्ते । एवं सर्वत्र ॥ ४१ ॥ भा० वि०—अविज्ञानादित्युक्तमनुभाष्यं दूषयति—सत इति । तत्र पर इत्यनुवादभागं व्याचष्टे—यत्त्विति । न ज्ञायत इत्यस्मादूर्ध्वमिति परं कारण- मुक्तम्, तदयुक्तमिति वाक्यं पूरणीयम्, सतो विज्ञानमिति सूत्रावयवं व्याचष्टे— विद्यमानोऽपीति । नोपलभ्येतेति शेषः । अतो नानुपलब्धिमात्रेणासत्त्वमिति भावः । ननु लोके तेनाप्यप्रयुक्तपूर्वपदार्थस्य कथं सत्त्वावधारणमत आह—निगमेति । उपलक्षणमेतत् अर्थप्रकरणार्षसूक्तदेवतावशेन चेति द्रष्टव्यम्, तत्र तावत् सृण्येवेति मन्त्रस्य सूक्तार्न्तर्गतत्वेन सूक्तदेवताविषयत्वं दर्शयितुं सूक्तदेवतां तावद्दर्शयति— यथेति । कुत इत्यत आह—द्विवचनेति । ननु द्विवचनान्ततया द्वित्वाभिधायित्वेऽपि कथमश्विनोरभिधानं मित्रावरु- णाद्यभिधानोपपत्तेरत आह—अनेनेति । अश्विनोः काममप्रा इत्यन्ते प्रत्यक्षात् सङ्कीर्तनात् अश्विनामित्येव सूक्तं निश्चीयत इत्यर्थः । ननूक्तदेवतापरत्वेऽपि मन्त्रस्य कथं तदभिधानसामर्थ्यं पदानामत आह— देवतेति । जर्भरी तुर्फरीतू इत्येवमादीति प्रकृतिप्रत्ययरूपार्थप्रसिद्धथैवेति निग-
२३२ मीमांसादर्शनम् [ सू० मादयो दर्शिताः सृण्येव जर्फरी तुर्फरी तू नैतौ शेव तुर्फरी पूर्फरीका उदन्यजे वज- मेनामदेरुतामे जरात्वजरम्मरात्यनेन मन्त्रेण भूतांशो नाम ऋषिरश्विनाव- स्तुवत् तत्र सरणसाधनत्वात् सृणिरङ्कुशः तमर्हत इति सृण्यौ, गजौ, आकार- श्चच्छन्दसि द्विवचनस्यादेशः ताविव जर्फरी जृम्भमाणौ प्रहरणव्यापृतौ तुर्फरीतू हिंसन्तौ नितो शेवधस्तत्कारिणौ नैतोशौ योद्धारौ ताविव तूर्फरी त्वरमाणौ पर्फरीका शोभायुक्तौ उदन्या पिपासा तेन यत्र चातकान्या [ना ?] मुदन्या, स प्रावृट्कालो लक्ष्यते तत्र जातौ चातकाविव जेमना उदकवन्तौ तौ यथोदकला- भेन मत्तौ भवतः, तथा यौ मदेरूतौ मे जरायु मरायु च जरामरणधर्मकं शरीर- मजरममरं च कुरुतमति वाक्यशेषः, ततश्च जरामरणयोः कुपितावजरत्वस्याम- रत्वस्य कुपितौ सन्तौ मम शरीरमजरममरं च कुरुतामिति वाक्यार्थः, एवं च युक्तं देवताभिधानसामर्थ्यं पदानामिति भावः । नन्वर्थाभिधानेऽपि कथं विवक्षितार्थत्वं तत्राह—लौकिकेनेति । अविशिष्टस्तु वाक्यार्थ इत्युक्तन्यायादित्यर्थः । उक्तन्यायं मन्त्रान्तरेऽप्यतिदिशति--एवमिति । अभ्यक् सात इन्द्र ऋष्टिरस्मे न सनम्यभ्यं मरुतो जुनन्ति अग्निश्चिद्धिष्मातसे शुशुक्वानापो न द्वीपं दधति प्रयांसीत्यत्रैकया प्रतिधापिवत् साकं सरांसि त्रिशतं इन्द्रस्सोमस्य काणुकेत्यत्र चेत्यर्थः, तत्र प्रथमया अगस्त्येनेन्द्रो मघवान् धनं प्रार्थितः अम्यगित्यत्रामाशब्दोऽव्ययस्साहित्यवाची अमा साहित्येनाञ्जनि गच्छ- तीत्यम्यक् सात इन्द्र ऋष्टिरायुधविशेषः कथं भूतेत्यपेक्षायां तृतीयपादान्वयः यातसे शुष्कतृणे शुशुकवान् दीप्तवान् अग्निश्चिदग्निरिव सा त्वत्प्रसादादस्मे अस्माकमित्यर्थः; हि स्मेति पादपूरणार्थः, येऽप्यमी मरुत सनेमि पुराणमभ्रं जलं जुनन्ति वृष्टिरूपेण क्षिपन्ते आपोन । आपइव द्वीपमन्नाद्यानि दधति धारयन्ति, तव प्रियसखास्तेऽप्यस्माकं एवं साधारणद्रव्यः सन्नपि रयिन्नः केवलं दा अस्माकमेव देहीत्युत्तरमन्त्रेणान्वयः, एकयेत्यनया तु इन्द्रस्यैव स्तुतिः एकया प्रतिधा एकेन प्रयत्नेन साकं यौगपद्येन सोमस्य पूर्णानि त्रिशतं सरांसि पात्राणि इन्द्रोऽपिबत् काणुका कामयमानः कामुकशब्दस्य च्छान्दसो वर्णव्यत्ययः आकारश्च विभक्त्या- देशः तदेवं सर्वत्राभियुक्तानाम् अर्थोत्प्रेक्षोपपत्तेः नानर्थक्यमित्यभिप्रायः ॥ ४१ ॥ त० वा०—यत्तू परं कारणमविज्ञेयत्वमुक्तम्, तदयुक्तम् । सत एवार्थस्य पुरुषा- पराधेनाविज्ञानात् । तत्र चार्थप्रकरणसूक्तदेवताऋषि निगम निरुक्त व्याकरणज्ञानान्यधि- गमोपायाः । तेषां ह्येवमर्थमेवं परिपालनम् । यथैव च व्याकरणेन नित्यपदान्वा- ख्याने क्रियमाणे लोपविकारादीनामुपायत्वेनोपादानम्, अव्युत्पन्नाश्च तैरेव पदो- त्पादनमिव मन्यन्ते । तथाऽत्र नित्यवाक्यार्थप्रतिपत्तावार्षोपाख्यानमनित्यवदा- भासमानमुपायत्वं प्रतिपद्यते । तत्र यथा कश्चिद्व्याचक्षाणः पदतदवयवादीनां चेतनत्वमिवाध्यस्य विशेषबाधादिव्यापारं निरूपयत्येतेनैवमुक्तोऽयमेवं प्रत्याहेति ।
४१ ] प्रथमाध्याये द्वितीयपादः २३३ यथा च पूर्वपक्षोत्तरपक्षवादिनी व्यवहारार्थं कल्पितौ, एवमृष्यार्षेयविषया कल्पना । अथ वा परमार्थेनैवेदमृषिभिस्तथोक्तम्, न तु स मन्त्रस्तैरेव कृतः तदानीं वा पुरुषान्तरेष्वसन्नेव तेषामाविर्भूतः । किं तर्हि ? यथाऽद्यत्वेऽपि कैश्चित्प्रकृतार्थ- विवक्षायां तदर्थं वाक्यमुपादित्समानस्तदर्थसरूपं मन्त्रम्, श्लोकं वाऽन्यदीयं स्मृत्वा स्ववाक्यस्थाने प्रयुङ्क्ते तत्प्रत्ययेन चान्ये तदर्थमवधारयन्ति, एवमिहापि वेदार्थविद्भिस्तद्वासितान्तःकरणैर्भृग्वादिभिरात्मीयव्यवहारेषु श्रुतिसामान्यरूपेण विशिष्टार्थप्रत्यायनार्थं मन्त्रा प्रयुक्ताः तद्वलेन चास्मदादीनां तदनुरूपाऽनित्यार्थ- प्रतिपत्तिर्भवति । प्रत्ययदृढत्वार्थमेव चाऽऽर्षस्मरणम् । तत्रैवमुपाख्यानं स्मरन्ति यथा किल भूतांशो नाम कश्चिदृषिर्जरामरण- निराकरणार्थी सृण्येवेत्येवमादिना सूक्तेनाश्विनौ स्तुतवान् भूतांशो अश्विनोः काममप्रा इति चान्ते संकीर्तनात्, तस्याऽऽर्षमाश्विनं सूक्तमिति च द्योतितम् । तत्र सृणिरङ्कुशः सरणसाधनत्वात्तमर्हन्तौ, तत्र वा साधू इति सृण्यावर्त्ता- त्कुञ्जरौ । आकारश्छन्दसि द्विवचनादेशः । ताविवात्यर्थं जृम्भमाणावष्टाङ्ग- प्रहरणव्यापृतौ जर्भरी । तुर्फरीतू-हिंसन्तौ । नितोशतिर्वधकर्मा तत्कारिणौ नैतोशौ-योद्धारौ ताविव तुर्फरी-त्वरमाणौ, हिंसकाविति वा । पर्फरीका- शोभायुक्तौ । उदन्यतिः पिपासार्थः, तत्र जातौ, उदन्यजौ प्रावृषिजो चातको जेमना-उदकवन्तौ जेमशब्दात्पामादिविहितो मत्वर्थीयो नप्रत्ययः । तौ यथौद- कलाभेन मत्तौ भवतः तथा यौ मदेरू, तौ मे जरायमरायु जरामरणधर्मकमर्था- च्छरीरमजरममरं च कुरुतामिति वाक्यशेषः । तेनैवं वाक्यार्थो यावङ्कुशचोदिताविव कुञ्जरौ सर्वतो जृम्भमाणौ शत्रूणां निहन्तारौ भवतः, हिंसाविव च हिंसनव्यापृतौ दाक्ष्येण च शोभेते चातकाविव चोदकलाभेन मदात्प्रीयेते, तावुभावपि जरामरणयोः कुपिताविवाजरत्वस्या- मरत्वस्य वा प्रीतावजरममरं मे शरीरं विधत्तामिति । “अम्यक्सा त” इत्यगस्त्यार्षं तेन किलेन्द्रोऽमरत्वं धनं प्रार्थितः तथा चोपरितन्यामृचि .“त्वं तू न इन्द्र तं रयिं दा” इति श्रूयते । तदेवास्यामृच्यनु- षङ्गेण द्रष्टव्यम् । इयं च च्छन्दोमद्वितीयेऽहनि मरुत्वतीये शस्त्रे विनियुक्ता । तत्राम्यगित्यमाशब्दोऽव्ययं साहित्यवाची । यतोऽमात्य इति भवति, सहाञ्च- तीत्यम्यक्सा त इन्द्र, ऋष्टिरायुधविशेषः पाणिक्षेप्यः, अस्मे इति—अस्माकं सनेमि—पुराणम् । अम्रं—तोयं मरुतो जुनन्ति—क्षिपन्ति । अग्निश्चिदित्युप- मार्थो हि स्म, अतसे-शुष्क तृणे शुशुक्वान्—दीप्तवान् आप इव द्वीपं दधति पयांसि—अन्नाद्यानि । वाक्यार्थे तु प्रथमतृतीयोर्द्वितीयचतुर्थयोश्च पदानां सम्बन्धः । तत्र सेत्येतदाक्षिप्तो यच्छब्दस्तृतीयपादे कल्प्यते । शुष्कतृणे
२३४ मीमांसादर्शनम् [ सू० दीप्तोऽग्निरिव या लक्ष्यते तव सहचारिणी नित्यमृष्टस्तव वल्लभा सा, तावत्त्व- त्प्रसादेनास्माकमेव । येऽप्यमी पुराणं जलं वृष्टिरूपेण विक्षिपन्त आप इव द्वीपमन्नाद्यानि धारयन्ति तव प्रियसखास्तेऽप्यस्माकमेव स त्वमेवं साधारणद्रव्यः सन्नभरत्वं न केवलं देहि । एकया प्रतिधाऽपिवदितीन्द्रस्यैव स्तुतिः । एकेन प्रयत्नेनापिबत्साकं -- यौगपद्येन, सरांसि-पात्राणि सोमस्य पूर्णानि इन्द्रः काणुका-कामयमानः- कामुकशब्दस्य च्छान्दसो वर्णव्यत्ययः आकारस्तु विभक्त्यादेशः । अथ वा कान्तकानीत्यादयो निरुक्तोक्ताः काणुकाशब्दविकल्पा योजनीयाः । तदेवं सर्वत्र केनचित्प्रकारेणाभियुक्तानामर्थोत्प्रेक्षोपपत्तेः प्रसिद्धतरार्थाभावेऽपि वेदस्य तदभ्युपगमात्सिद्धमर्थवत्त्वम् ॥ ४१ ॥ न्या० सु० - सूत्रव्याख्यानार्थं विद्यमानेऽपीति भाष्यं व्याचष्टे-यस्त्विति । लोकाप्रयुक्त- पदार्थस्य केनापि ज्ञातुमशक्यत्वात्कथं सत्त्वावधारणेत्याशङ्क्य निगमेत्यादिभाष्यकृतोक्तम्, तद्व्याचष्टे-तन्न चेति । अर्थः - सामर्थ्यम्, पदान्तरसामानाधिकरण्याधियोग्यता, प्रकरणम् प्रक्रमः । तयोः सर्वत्र लोकवेदयोरर्थज्ञानोपायत्वं प्रसिद्धम् । सूक्तं देवताज्ञानमव्यक्त- लिङ्गायामृचि देवताज्ञानहेतुत्वेनार्थज्ञानोपायः । आर्षज्ञानस्याहं मनुरभवं सूर्यश्चेत्यादावस्मद- र्थज्ञानहेतुत्वेनार्थज्ञानोपायत्वम् । निगमादेरपि प्रसिद्धमेवार्थज्ञानोपायत्वम् । सूक्तदेवतादिस्मर- णाददर्शनाच्चैषामर्थज्ञानोपायत्वं विदुषामभिमतमिति निश्चीयत इत्याह - तेषां हीति । ननु स्वार्थज्ञानस्योपायत्वे भूतांशो नाम ऋषिर्जरामरणनिरासायाश्विनौ तुष्टावेत्येव- मार्षस्योपाख्यानादनित्यसंयोगेऽनित्यत्वं वेदस्यापद्येत, अत आह- यथैवेति । ननु लोपविका- रादीनामुपायमात्रत्वेनापारमार्थिकत्वात्पदानित्यत्वापादकत्वन्न जातम्, आर्षे तु कथमित्या- शङ्कयार्षस्याप्युपायत्वेनाङ्गीकारेण तत्परिहारमाह-तन्नेति । पारमार्थिकत्वेऽपि वा मन्त्रा- णामृषिकृतत्वाभावात्प्रयोगस्य च प्रवाहरूपेण सर्वदा सद्भावान्न वेदानित्यत्वापादकत्व- मित्यह- अथ वेति । ननु वृद्धव्यवहारावगतपदार्थानुसारेणैव मन्त्रार्थवगतिसम्भवान्नास्मदादीनां ऋषिप्रत्य- क्षबलेन मन्त्रार्थप्रतिपत्तिरित्याशङ्कयाह-प्रत्ययेति । आर्षस्मरणादेरदर्शनात् ऋषिसम्प्रदाया- नुसारेणैव मन्त्रार्थतत्त्वावधारणं भवति नान्यथेति भावः । सृण्येव जर्भरी तुर्फरीतू नैतो शेव तुर्फरीपर्फरीका उदन्यजेव जेमना मदेरुता मे जरा- स्वजरं मरायु' इति मन्त्रार्थतत्त्वावधारणायार्षोपाख्यानं दर्शयति - तत्रेति । अस्या ऋचः सूक्तादित्वाभावात् उमा उ नूनं तद्विदशंयेथे इत्यादिनेकादशर्चेन सूक्तेन सृण्येवेत्यादिनो- पमानरूपेणाश्विनौ स्तुतवानिति व्याख्येयम् । भाष्यकारेण च द्विवचनान्तत्वादश्विनोर- भिधानानीत्युक्त्वा मित्रावरुणादिष्वपि द्विवचनोपपत्तेः कथमश्विपरत्वनिर्णय इत्याशङ्का- निराकरणायाश्विनोः काममित्युक्तम् । तद्व्याचष्टे - भूतांश इति । मन्त्रव्याख्यापरतया देव ताभिधानानि चेत्यादिभाष्यं व्याख्यातुमाह - तत्रेति । चत्वारः पादा द्वौ दन्तौ शुण्डा