मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 272, कुल 804 में से
संदर्भ में पढ़ेंप्रथस्वेत्यपीतिकरणः प्रभृत्यर्थो न शब्दपदार्थतायै । यश्च प्रथस्वेति ब्रूत इत्यपि तदाचष्ट एव । प्रथतामिति ब्रूत इत्यर्थः । यश्चैवं ब्रूते, स प्रथयत्यनेनैव, गुण- वादात् । अथ वा तदाचष्ट इत्येवं मुख्यमेव प्रथयतीत्यर्थमाश्रित्य प्रथनबुद्ध्या सिद्धा स्तुतिः ॥ ३५ ॥ न्या० सु०-नन्विति । भाष्येण ब्राह्मणाम्नातस्य वाक्यस्य मन्त्रप्रदेशाम्नातमन्त्र- विशेषलिङ्गप्रकरणानुमितविधिशेषत्वाभावादर्थवादत्वं न युक्तमिति, प्रागुक्तां शङ्कामनु- भाष्य नायमित्यादिना मन्त्रस्तुत्यसम्भवेऽपि प्रथनस्तुतिर्भविष्यतीति परिहृतं तद्व्याचष्टे- यद्यपीति । प्रथनस्यार्थप्राप्तत्वेनाविधेयत्वात् । स्तुतिरयुक्तेति शङ्कते-ननु चेति । परिहरति-नैतदिति । आनर्थक्यात्तर्ह्यविधेयं प्रथममत आह-विधाने त्विति । अस्तु वा नियोगतः प्राप्तिः तथाप्यर्थाक्षेपात्प्रागध्वर्युकर्तृकत्वसिद्धयर्थं विधिरर्थवान् भविष्य- तीत्याह - एवं चेति । उपसंहरति-तस्मादिति । मन्त्रः पुनरिति भाष्यमवतारयितुमा- शङ्कते-एवमपीति । एतदाशङ्कानिराकरणार्थत्वेन व्याचष्टे-नेति । कथं मन्त्रोपादानेन प्रथनस्तुतिरित्युपेक्षायां स्तुतिप्रकारदर्शनार्थमित्यमिति भाष्यं व्याचष्टे-प्रथनमिति । प्रसङ्गाद्यज्ञपतिप्रथनं पुरोडाशप्रथनस्य फलत्वेन कीर्त्यते स्तुत्यर्थं चेति जिज्ञासितुं किमेत- दिति पृष्टं तद्व्याचष्टे-किमिति । फलत्वेन मन्त्रार्थत्वेनानुसन्धानमनेकयजमानकेषु च विकारेषु यजमानशब्दवद्यज्ञपतिशब्दस्येह इति जिज्ञासाप्रयोजनम् । 'नेति ब्रूम' इत्युत्तर- भाष्यमर्थवादाभिप्रायेण तावत् व्याचष्टे-नेत्याहेति । एवं तु मान्त्रवर्णिकफलकल्पनसम्भवेन यज्ञपतिप्रथनस्य फलत्वानपायात्पूर्णमय्यधिकरणे निराकृतत्वेन च जिज्ञासाऽनुपपत्तेरपरि- तोषान्मन्त्राभिप्रायेण व्याचष्टे-मन्त्रोऽपि त्विति । करणविभक्तिनिर्देशाभावेऽपि ममाग्ने वर्चो विहवेष्वस्त्वितिपूवंमग्निं गृह्णातीत्यादिषु तृतीये किमृत्विग्गामितया वर्चःप्रभृति- फलमाशास्यं यजमानगामितया वेति विचारदर्शनेन फलकल्पनाभ्युपगमादिति करणावगत- क्रियासम्बन्धान्यथानुपपत्तिकल्पितकरणतान्वयसिद्धयर्थं श्रुतार्थापत्त्या करणविभक्तिकल्प- नमभिप्रेत्य, करणविभक्तिविनियुक्तानामित्युक्तम् । कथमित्यादिना भाष्यमाक्षिपति- कथमिति । कस्येति कर्मणि षष्ठी । किं विषये इत्यर्थः । समाधानं प्रतिजानीते-उभय- थाऽपि त्विति । पुरोडाशप्रथनविषयत्वमङ्गीकृत्य प्रश्नं तावदुपपादयति-अस्तु तावदिति । सोऽयं याज्ञिकमतानुसारीत्यर्थः-स्वसिद्धान्तेनेति । निष्प्रमाणकत्वं सूचितम् । उत्तरमुप- पादयति-तत्रेति । यस्त्वयमध्वर्युकर्तृकः पुरोडाशविषयः प्रयोजकव्यापारात्मकः प्रथन- रूपोऽर्थो नास्तीत्युक्तः स यद्यपि पूर्वमेव कृतत्वाद्विदानीं नास्त्येव, न वर्त्तते, तथापि यथा सत्ता वर्त्तमानता भवति तथा मन्त्रेणोच्यत इत्यर्थः । इत्थम्भूतलक्षणे सत्तयेति तृतीया । ननु पुरोडाशकर्त्तृकः प्रयोज्यव्यापारो मन्त्रेणानुष्ठेयतयोच्यते, नाध्वर्युकर्त्तृकः प्रयोज्य- व्यापारो वर्त्तमानतयेत्याशङ्क्योपपन्नः शब्दार्थ इत्युक्तम् । अनुष्ठातृरूपप्रयोजकव्यापारान- भिधानेऽपि प्रेषणात्मकप्रयोजकव्यापाराभिधानादुपपन्नः प्रथयतिशब्दार्थ इति भावः ।