मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 273, कुल 804 में से
संदर्भ में पढ़ें३५ ] प्रथमाध्याये द्वितीयपादः २२१ अनेन च यश्चेत्यादिभाष्यं व्याख्यातं लिङ्गान्मन्त्रस्य प्रथनाङ्गत्व्वावगतेरभिमर्शंनकाले प्रयोज्यत्वानुपपत्ते रपरितोषात्पुरोडाशप्रथनविषय एवान्यथाभाष्यं व्याचष्टे—अथ वेति । अस्मिन्पक्षे कथमसत्यनुक्ते पुरोडाशकर्तृ ˚के प्रयोज्यव्यापाररूपे प्रथने प्रयोजकव्यापारवाची प्रथयतीतिशब्द इति प्रश्नभाष्यार्थः । उत्तरभाष्यं व्याचष्टे—तदुपपादयतीति । प्रतीकेनैक- देशेन गृहीतो यो मन्त्रः तेनोपात्तः प्रयोज्यव्यापारो यस्मिन्ब्राह्मणे, तत्प्रथयतीति । प्रयोजकव्यापारं विधत्त इत्यर्थः । यश्चेति भाष्यं प्रथस्वेति प्रेषणरूपे प्रयोजकव्यापारा- भिधानेन प्रयोज्यव्यापाराभिधानानुपादानादस्मिन्पक्षेऽनुपपन्नमाशङ्क्य, प्रयोज्यव्यापारो- पादानपरतया व्याचष्टे — यश्चेति । नन्वेतयान्नाद्यकामं याजयेदित्यादिषु प्रयोज्यव्यापारानुपादानेऽपि प्रयोजकव्यापारो- पादानदर्शनात्तत्पूर्वकत्वनियमो नास्तीत्युत्तरं कस्मान्नोक्तमत आह—यद्यपि चेति । अर्थक्रमानुसा रिशब्दक्रमनियमादर्शनेनास्याभिप्रायस्यातितुच्छत्वात्प्रश्नोत्तरभाष्ययोश्चोभयो- रप्यनाजंवापत्ते रपरितोषात्स्वमतेनार्थवादगतयज्ञपंतिप्रथनप्रश्नविषयतया व्याचष्टे—अथ वेति । अत्रैवोत्तरभाष्यं व्याचष्टे—तदभिधीयत इति । नन्वस्मिन्पक्षे मन्त्रेणेत्यादिभाष्यं पुरोडाशप्रथनाभिधायित्वादयुक्तं स्यादत आह—मन्त्रेणेति । नन्वेवं तर्ह्यरु ते यज्ञपतिः प्रथतामिति ब्रवीति यश्चोरु ते यज्ञपतिः प्रथतामिति ब्रूत इति च वक्तव्यमत आह— प्रथस्वेत्यतमिति । ततश्चैवं भाष्यार्थो भवतीत्याह—यश्चैवमिति । यश्चोरु ते यज्ञपतिः प्रथतामिति शब्दोच्चारणेन यज्ञपतिं प्रथयतोत्यर्थः । कथं शब्दोच्चारणमात्रेण प्रथन- कर्तृत्वं स्यादत आह—गुणवादादिति । प्रेषणरूपप्रयोजकव्यापारकर्तृत्वमुत्पादनरूपप्रयो- जकव्यापारकर्तृत्वेनोपचर्यत इत्यर्थः । यद्वा तत्करोति तदाचष्टे इत्याख्यानेऽपि णिजुत्पत्तिस्मरणान्मुख्यवृत्तित्वेन प्रथनाख्या- नात्प्रथयतिशब्दोपपत्तिरित्याह – अथ वेति । एवं व्याख्याने यज्ञपतिप्रथनस्य फलत्वाभावे निरालम्बना स्तुतिर्न युक्तेत्याशङ्कोत्थानात्पूर्वग्रन्थसङ्गतिः समञ्जसेति, एतदेव व्याख्या- नमभिप्रेतम् ॥३५॥ भा० प्र०—"उरु प्रथस्वेति पुरोडाशं प्रथयति" (तै० ब्रा० ३।२।८।४) यह ब्राह्मण वाक्य न तो मन्त्र का विधायक है और न प्रशंसा है । यह वाक्य 'यज्ञपतिमेव तं प्रथयति' यह वाक्य मन्त्रार्थ का ही अनुवादक है इसके द्वारा मन्त्र-प्राप्त प्रथन की प्रशंसा की गई है । इस सूत्र में 'वा' शब्द वैयर्थ्य का वारण करता है । अर्थवाद से सम्बन्ध के लिए ही ब्राह्मण में विधि कही गई है । “अर्थवादः” = ‘वा’ (एव) = आशङ्कित विफलता के निवारण के लिए है । “उरु प्रथस्वेति प्रथयति” इस स्थल में अर्थवाद होने से ब्राह्मण ग्रन्थ में मन्त्र के अर्थ का अनुवाद किया गया है ॥ ३५ ॥