मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 271, कुल 804 में से
संदर्भ में पढ़ें३५ ] प्रथमाध्याये द्वितीयपादः २१९ करणमन्त्राभिहितत्वात्फलं कल्प्येत, तथाऽपि ब्राह्मणे तावत्तत्संकीर्तनमेकान्तेन स्तावकम्। मन्त्रोऽपि तु लिङ्गविनियोज्यो न फलकल्पनायै प्रभवति। करण- विभक्तिविनियुक्तानां हि सकलोपयोगान्यथानुपत्त्या फलसाधनता युक्ता, लिङ्गा- नुमिता पुनः श्रुतिराकाङ्क्षावशेन क्रियाप्रकाशनमात्रविनियोगायैव ज्ञायते। तेनैवंजातीयको मन्त्रोऽपि प्रधानफलसंकीर्तनात्मिका स्तुतिरेवाभ्युपगन्तव्या। कथमसति प्रथन इति। कस्यायं प्रश्नः किं विध्युद्देशवर्तिनः पुरोडाशप्रथन- स्य, अथ वाऽर्थवादगतस्य यज्ञपतिप्रथनस्येति। द्विधाऽपि चायुक्तं पुरोडाशप्रथनं तावद् विधीयमानत्वादेव न प्रष्टव्यम्। न च मन्त्राभिधानात्तस्यास्तित्वम्, किं तर्हि ? स्वरूपसद्भावादित्युत्तरमप्यसम्बद्धम्। अथ पुनरितरार्थवादन्यायेन कथ- मरुदतीतिवत्प्रश्नः। तथाऽप्युत्तरमसम्बद्धम्। मन्त्रेणाध्वर्युः पुरोडाशमिति पुरोडाशेन सम्बध्यते, न यजमानेन। तस्मादग्रन्थ इति केचित्। उभयथाऽपि त्विदमदुष्टम्। अस्तु तावत्पुरोडाशप्रथने। तत्र हि याज्ञिकानां केषाञ्चिदय मन्त्रः कृत्वा प्रथनम्, अभिमर्शने प्रयुज्यते। सोऽयं स्वसिद्धान्तेन पृच्छति कथमसति वृत्ते प्रथने प्रयुज्यमानेनानेन प्रथयतीति। तत्राभ्युपेत्यवादेनोत्तरं मन्त्राभिधानादिति। यद्यपि प्रथनं प्रथमकृतत्वा- न्नास्ति, मन्त्रेण नु सत्तयोच्यत इत्युपपन्नः शब्दार्थः। अथ वा सर्वप्रयोजकव्यापा- राणां प्रयोज्यव्यापारपूर्वकत्वमर्थरूपेण स्थितमिति शब्दैरपि तथैव प्रवर्तितव्यम्। इह च स्तुतिविषयसिद्धयर्थं प्रथयतीत्येतद्विधीयत इत्युक्तम्। तत्राऽऽह नायं विधिः सम्भवति, विषयानुपपत्तेः। प्रयोजकव्यापारो हि प्रतीयमानस्तद्गोचरः स्यात्। स चानुपान्तप्रयोज्यव्यापारत्वान्न प्रतीयते, तेन यथा यजेतेत्यनुक्ते याजयतीति नोच्यते, तथैह प्रथेतेत्यनुक्ते प्रथयतीति न वाच्यम्। न चेह पुरोडाशः प्रथेत, तेन वा प्रथितव्यमित्युपादानमस्ति। तस्मिन्न- सति प्रथयतीत्यनुपपन्नम्। तदुपपादयति मन्त्राभिधानादिति प्रतीकगृहीतमन्त्रोपात्तप्रयोज्यव्यापारं हि ब्राह्मणं प्रथयतीति विधत्ते। यश्च प्रथस्वेति ब्रूत इत्यनेन पुरोडाशकर्तृकं क्रिया- मध्वर्युः प्रेष्यतीत्येतद्दर्शयति। यद्यपि च सम्भाव्यमानक्रियाणां प्रयोज्यानामनु- पादायापि व्यापारं शब्देन प्रयोजकव्यापारः सिद्ध्यतीत्येतदप्युत्तरं सम्भवति, तथाऽपि तूत्तरविभवाद्दुपादानपूर्वकतैवोत्का। अथ वाऽस्तु यजमानप्रथने कथमसतीति सर्वस्तुतीनां किञ्चिच्छब्दगतमर्थगतं वाऽऽलम्बनमुक्तम्। तदत्र किंनिबन्धना स्तुतिरिति। तदभिधीयते। मन्त्रोक्तमर्थ- माश्रित्य स्तुतिः प्रवर्तिष्यते। मन्त्रेणाध्वर्युः पुरोडाशं ब्रूत इति न पुरोडाशप्रथनो- पादानाभिप्रायम्, किं तर्हि पुरोडाशं ब्रवीति, उरु ते यज्ञपतिः प्रथतामिति।