मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 278, कुल 804 में से
संदर्भ में पढ़ें२२६ मीमांसादर्शनम् [ सू० न्या० सु०— चत्वारीत्यादिभाष्येणाविद्यमानवचनपरिहारार्थत्वेन तावदेतत्सूत्रं व्याख्यातम् । तत्र कस्य स्तुतिः ? किमर्था वेत्यपेक्षायामाह— चत्वारीति । अस्मिंस्तु व्याख्याने प्रदेशविशेषापरिज्ञानान्मन्त्रस्यादृष्टार्थत्वापत्तेरपरितोषाद्विनियोगानुसारेण स्वय- मन्मथा व्याचष्टे -होत्रे त्विति । हौत्रं-प्रवचनमृग्वेदः । तद्विहितानां मन्त्राणां नोत्साहकरत्वं यजुर्वेदविहितानामेव केषांचित्त्वात्त्वदर्शनादिति वक्तुं होत्रग्रहणम् । विषुवन्नामैकाहविशेषः तत्रातिदेशतश्च चत्वार्याज्यसंज्ञकानि शस्त्राणि होतुर्मैत्रावरुणब्राह्मणाच्छंस्यच्छावाकप्रयोज्यानि प्राप्तानि । तत्रान्येषामनाग्नेयत्वाद्वौत्रविशेषणम् । ततः किमिति चेत् अत आह—तस्येति । आग्नेयं होताज्यं शंसतीति श्रुतिर्होतुराज्यास्याग्नेयत्वं सूर्यदैवत्यं ह्येतदहरिति श्रुतेर्विषु- वत्संजकस्याह्न आदित्यदेवतात्वमतिदेशप्राप्तानेकेन्द्रवाय्वादिदेवतात्वान्न वस्तुवृत्त्याऽऽदि- त्यदेवत्वमस्तीति कृत्वा संस्तवादित्युक्तं तेजस्त्वादिसामान्यं चादित्यधर्माणामग्नावुपचार- स्यालम्वनम्, स्तोत्रशस्त्राणामदृष्टार्थत्वात्कर्मसमवेतदेवतानादरेणाव्यक्तलिङ्गत्वदस्य मन्त्रस्या- स्येति च सर्वनामयुक्तत्वात्सन्निहिताग्निस्तुत्यर्थत्वावधारणं यज्ञसमृद्ध्य इत्यादिभाष्येण एतदेव सूत्रमचेतनार्थबन्धनपरिहारार्थत्वेनाधीष्वष्याडावचेतनचैतन्याभिधानेनार्थवादत्वं परिहार इत्यावृत्त्या व्याख्यातम् । तत्करणमन्त्राणामदृष्टसाधनस्तुत्यर्थत्वानुपपत्तेर्युक्तमाशङ्कयाह-एवमिति । अविद्यमान- वचने यथा स्तुतित्वं परिहारः एवमचेतनार्थबन्धनेऽप्यनेन स्तुतित्वमात्रेण कर्मसाधन- स्मृतिपरिहार इत्यर्थः । कर्मसाधनस्मृत्यर्थस्यापि मन्त्रस्य विशेषणांशे स्तुत्यर्थत्वोक्तिरिति भावः । सकलस्य तर्हि मन्त्रस्य करणत्वं न सिद्धचेदित्याशङ्कयास्ति तावदित्युक्तम् । करणमन्त्रोच्चारणे, कर्मसाधनस्मृतिस्तावद्भवति । तत्राकर्मसमवेतार्थाभिधायिनामपि पदानां समवेतार्थपदशेषत्वेन स्मृत्यर्थत्वोपपत्तेः सकलस्य मन्त्रस्य करणत्वसिद्धिरित्याशयः ॥३८॥ मा० प्र०—अभिधाने = अभिधानविषय में अर्थात् अविद्यमानवचन के विषय के सम्बन्ध में जो कहा गया है वह, अर्थवादः = प्रशंसा निन्दा अर्थात् गौण अर्थ में प्रयुक्त हुआ है । पूर्वपक्षी । अविद्यमानवचनात् १।२।३१ इस सूत्र के द्वारा यह कहा गया है कि जिसका अस्तित्व नहीं है, उसके विषय में मन्त्र से कहा गया है । उस प्रसङ्ग मे उक्त आपत्ति का उत्थापन ठीक नहीं है, क्योंकि वह अर्थवाद मात्र है । चत्वारि शृङ्गास्त्रयो अस्य पादा द्वे शीर्षे सप्तहस्तासो अस्य ! त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आविवेश ॥ —(ऋग्वेद ४।५८।३) इस मन्त्र में रूपक के व्याज से यज्ञपुरुष का वर्णन किया गया है । यज्ञपुरुष का चार शृङ्ग अर्थात् होता, अध्वर्यु, उद्गाता एवं ब्रह्मा ये चार ऋत्विक् यज्ञ के शृङ्ग स्वरूप हैं । इनके तीन चरण अर्थात् प्रातःसवन, माध्यन्दिनसवन, तृतीयसवन ये तीन सवन तीन पादस्वरूप हैं । इनके दो शीर्ष अर्थात् यजमान और पत्नी ये दो मस्तक स्वरूप हैं । इनके सात हाथ अर्थात् (१) गायत्री, (२) उष्णिक्, (३) अनुष्टुप्,