भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 277, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 277

३८ ] प्रथमाध्याये द्वितीयपादः २२५ ननु गौणार्थत्वकल्पनाददृष्टार्थत्वकल्पनं गौरवमत आह-गौणेति । प्रमाणवती दृष्टचरी अप्रमाणं-विनियोजकप्रमाणरहितम् । उपमेयस्योपमानगुणयोगं सूचयितु- मुपमेयस्वरूपं दर्शयन् मन्त्रं व्याचष्टे-चत्वार इति । शृङ्गाणीव शृङ्गाणि होनारः अत्यन्तोपकारकत्वगुणयोगात्, अस्य यागस्य त्रीणि सवनानि पादा इव पादाः, अस्य सवनाश्रितत्वाद्यज्ञस्य, प्राधान्यात् पत्नीयजमानौ शीर्ष इव शीर्षे । गायत्र्या- दीनि चन्दांसि हानोपादानोपायत्वात् हस्ता इव हस्तासः, त्रिभिर्वेदैः बन्धन- कल्पैः बद्धः अयमेव यज्ञो नायमिति, ततः काम्यमानफलत्वाद्वृषभ इव वृषभः रोरवीतीव स्तोत्रशास्त्राद्यनेकशब्दोपेतत्वात् आवेशस्यासंभवादाविवेशेवेति मनुष्याधिकाराभिप्रायम् । एवं गुणवादेन यज्ञस्तुतिपरोऽयं मन्त्र इत्यर्थः, गुण- कल्पनया स्तुतिं दृष्टान्तेनोपपादयति-तद्यथेति । एवं मा मा हिंसीरित्यादिषु हविर्धानादिष्वविद्यमानमपि हिंसादिसामर्थ्यमारोप्य तन्निषेधेन हविर्धानादिः स्तू- यत इति नानर्थक्यमिति द्रष्टव्यम् । अचेतनेऽर्थबन्धनपरिहारतयाप्येतत्सूत्रं व्याचष्टे-एवमिति । यज्ञसमृद्धये- यज्ञ उत्साहजननाय यज्ञसाधनभूतामोषधिं चेतनसादृश्येन स्तोतुमामन्त्रणशब्देन लक्षयति-ओषध इति । सम्बुद्ध्यन्तेन प्रतिपादयतीत्यर्थः, त्रायस्वेति प्रैषणं तु ग्रावप्रैषणन्यायेनाविद्धमिति मत्वा ग्रावप्रैषणमुपपादयति-शृणोतेति । इतः प्रभृति अस्माद्धोमादनन्तरमित्यर्थः, इतीत्यस्यानन्तरमनुवाकः स्तूयत इत्यध्या- हार्यम् । ग्रावस्वामन्त्रणोपपत्तिमप्याह-इत्थं चेति । प्रैषणवत् स्तुत्यर्थतयेत्यर्थः । अनेन च प्रबन्धेनाचेतने चैतन्याभिधानेऽर्थवादशब्द इति सूत्रं व्याख्यातम् । अर्थविप्रतिषेधं दूषयति-गुणादिति । सूत्रं व्याचष्टे-अदितिरिति । अदितेस्त- त्कार्यकारित्वेन गुणेन द्युदिव्यपदेशो गौण इति न विप्रतिषेध इत्यर्थः, व्यप- देशस्य गौणत्वेनापि प्रतिषेधं दृष्टान्तेनाह-यथेति । एतदेव सूत्रं गुणाद्विशेषणात् कर्मविशेषलक्षणं विशेषभेदं निमित्तीकृत्याय व्यपदेशः, अतो न विप्रतिषेध इत्येव- मुदाहरणान्तरे व्यावृत्त्या योजयति-तथैवेति ॥ ३८ ॥ त० वा०—'चत्वारि शृङ्गेति' रूपकद्वारेण यागस्तुतिः कर्मकाल उत्सा‍हं करोति । होत्रे त्वयं विषुवति होतुराज्ये विनियुक्तः । तस्य चाऽऽग्नेयत्वादहंश्चाऽऽ- दित्यदैवतत्वसंस्तवादादित्यरूपेणाग्निस्तुतिरूपवर्ण्यते । तत्र चत्वारि शृङ्गेति दिवसयामानां ग्रहणम् । त्रयो अस्य पादा इति शीतोष्णवर्षाकालः । द्वे शीर्षे इत्य- यनाभिप्रायम् । सप्त हस्ता इत्यश्वस्तुतिः । त्रिधा बद्ध इति सवनाभिप्रायेण ! वृषभ इति वृष्टिहेतुत्वेन स्तुतिः । रोरवीति स्तनयित्नुना । सर्वलोकप्रसिद्धेर्महान्देवो मर्त्यानाविवेशेत्युत्साहकरणोपकारेण सर्वपुरुषहृदयानुनप्रवेशात् । एवमनेन मार्गे- णास्ति तावद्धर्मसाधनस्मृतिः ॥ ३८ ॥ १५