मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 284, कुल 804 में से
संदर्भ में पढ़ें२३२ मीमांसादर्शनम् [ सू० मादयो दर्शिताः सृण्येव जर्फरी तुर्फरी तू नैतौ शेव तुर्फरी पूर्फरीका उदन्यजे वज- मेनामदेरुतामे जरात्वजरम्मरात्यनेन मन्त्रेण भूतांशो नाम ऋषिरश्विनाव- स्तुवत् तत्र सरणसाधनत्वात् सृणिरङ्कुशः तमर्हत इति सृण्यौ, गजौ, आकार- श्चच्छन्दसि द्विवचनस्यादेशः ताविव जर्फरी जृम्भमाणौ प्रहरणव्यापृतौ तुर्फरीतू हिंसन्तौ नितो शेवधस्तत्कारिणौ नैतोशौ योद्धारौ ताविव तूर्फरी त्वरमाणौ पर्फरीका शोभायुक्तौ उदन्या पिपासा तेन यत्र चातकान्या [ना ?] मुदन्या, स प्रावृट्कालो लक्ष्यते तत्र जातौ चातकाविव जेमना उदकवन्तौ तौ यथोदकला- भेन मत्तौ भवतः, तथा यौ मदेरूतौ मे जरायु मरायु च जरामरणधर्मकं शरीर- मजरममरं च कुरुतमति वाक्यशेषः, ततश्च जरामरणयोः कुपितावजरत्वस्याम- रत्वस्य कुपितौ सन्तौ मम शरीरमजरममरं च कुरुतामिति वाक्यार्थः, एवं च युक्तं देवताभिधानसामर्थ्यं पदानामिति भावः । नन्वर्थाभिधानेऽपि कथं विवक्षितार्थत्वं तत्राह—लौकिकेनेति । अविशिष्टस्तु वाक्यार्थ इत्युक्तन्यायादित्यर्थः । उक्तन्यायं मन्त्रान्तरेऽप्यतिदिशति--एवमिति । अभ्यक् सात इन्द्र ऋष्टिरस्मे न सनम्यभ्यं मरुतो जुनन्ति अग्निश्चिद्धिष्मातसे शुशुक्वानापो न द्वीपं दधति प्रयांसीत्यत्रैकया प्रतिधापिवत् साकं सरांसि त्रिशतं इन्द्रस्सोमस्य काणुकेत्यत्र चेत्यर्थः, तत्र प्रथमया अगस्त्येनेन्द्रो मघवान् धनं प्रार्थितः अम्यगित्यत्रामाशब्दोऽव्ययस्साहित्यवाची अमा साहित्येनाञ्जनि गच्छ- तीत्यम्यक् सात इन्द्र ऋष्टिरायुधविशेषः कथं भूतेत्यपेक्षायां तृतीयपादान्वयः यातसे शुष्कतृणे शुशुकवान् दीप्तवान् अग्निश्चिदग्निरिव सा त्वत्प्रसादादस्मे अस्माकमित्यर्थः; हि स्मेति पादपूरणार्थः, येऽप्यमी मरुत सनेमि पुराणमभ्रं जलं जुनन्ति वृष्टिरूपेण क्षिपन्ते आपोन । आपइव द्वीपमन्नाद्यानि दधति धारयन्ति, तव प्रियसखास्तेऽप्यस्माकं एवं साधारणद्रव्यः सन्नपि रयिन्नः केवलं दा अस्माकमेव देहीत्युत्तरमन्त्रेणान्वयः, एकयेत्यनया तु इन्द्रस्यैव स्तुतिः एकया प्रतिधा एकेन प्रयत्नेन साकं यौगपद्येन सोमस्य पूर्णानि त्रिशतं सरांसि पात्राणि इन्द्रोऽपिबत् काणुका कामयमानः कामुकशब्दस्य च्छान्दसो वर्णव्यत्ययः आकारश्च विभक्त्या- देशः तदेवं सर्वत्राभियुक्तानाम् अर्थोत्प्रेक्षोपपत्तेः नानर्थक्यमित्यभिप्रायः ॥ ४१ ॥ त० वा०—यत्तू परं कारणमविज्ञेयत्वमुक्तम्, तदयुक्तम् । सत एवार्थस्य पुरुषा- पराधेनाविज्ञानात् । तत्र चार्थप्रकरणसूक्तदेवताऋषि निगम निरुक्त व्याकरणज्ञानान्यधि- गमोपायाः । तेषां ह्येवमर्थमेवं परिपालनम् । यथैव च व्याकरणेन नित्यपदान्वा- ख्याने क्रियमाणे लोपविकारादीनामुपायत्वेनोपादानम्, अव्युत्पन्नाश्च तैरेव पदो- त्पादनमिव मन्यन्ते । तथाऽत्र नित्यवाक्यार्थप्रतिपत्तावार्षोपाख्यानमनित्यवदा- भासमानमुपायत्वं प्रतिपद्यते । तत्र यथा कश्चिद्व्याचक्षाणः पदतदवयवादीनां चेतनत्वमिवाध्यस्य विशेषबाधादिव्यापारं निरूपयत्येतेनैवमुक्तोऽयमेवं प्रत्याहेति ।