भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 285, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 285

४१ ] प्रथमाध्याये द्वितीयपादः २३३ यथा च पूर्वपक्षोत्तरपक्षवादिनी व्यवहारार्थं कल्पितौ, एवमृष्यार्षेयविषया कल्पना । अथ वा परमार्थेनैवेदमृषिभिस्तथोक्तम्, न तु स मन्त्रस्तैरेव कृतः तदानीं वा पुरुषान्तरेष्वसन्नेव तेषामाविर्भूतः । किं तर्हि ? यथाऽद्यत्वेऽपि कैश्चित्प्रकृतार्थ- विवक्षायां तदर्थं वाक्यमुपादित्समानस्तदर्थसरूपं मन्त्रम्, श्लोकं वाऽन्यदीयं स्मृत्वा स्ववाक्यस्थाने प्रयुङ्क्ते तत्प्रत्ययेन चान्ये तदर्थमवधारयन्ति, एवमिहापि वेदार्थविद्भिस्तद्वासितान्तःकरणैर्भृग्वादिभिरात्मीयव्यवहारेषु श्रुतिसामान्यरूपेण विशिष्टार्थप्रत्यायनार्थं मन्त्रा प्रयुक्ताः तद्वलेन चास्मदादीनां तदनुरूपाऽनित्यार्थ- प्रतिपत्तिर्भवति । प्रत्ययदृढत्वार्थमेव चाऽऽर्षस्मरणम् । तत्रैवमुपाख्यानं स्मरन्ति यथा किल भूतांशो नाम कश्चिदृषिर्जरामरण- निराकरणार्थी सृण्येवेत्येवमादिना सूक्तेनाश्विनौ स्तुतवान् भूतांशो अश्विनोः काममप्रा इति चान्ते संकीर्तनात्, तस्याऽऽर्षमाश्विनं सूक्तमिति च द्योतितम् । तत्र सृणिरङ्कुशः सरणसाधनत्वात्तमर्हन्तौ, तत्र वा साधू इति सृण्यावर्त्ता- त्कुञ्जरौ । आकारश्छन्दसि द्विवचनादेशः । ताविवात्यर्थं जृम्भमाणावष्टाङ्ग- प्रहरणव्यापृतौ जर्भरी । तुर्फरीतू-हिंसन्तौ । नितोशतिर्वधकर्मा तत्कारिणौ नैतोशौ-योद्धारौ ताविव तुर्फरी-त्वरमाणौ, हिंसकाविति वा । पर्फरीका- शोभायुक्तौ । उदन्यतिः पिपासार्थः, तत्र जातौ, उदन्यजौ प्रावृषिजो चातको जेमना-उदकवन्तौ जेमशब्दात्पामादिविहितो मत्वर्थीयो नप्रत्ययः । तौ यथौद- कलाभेन मत्तौ भवतः तथा यौ मदेरू, तौ मे जरायमरायु जरामरणधर्मकमर्था- च्छरीरमजरममरं च कुरुतामिति वाक्यशेषः । तेनैवं वाक्यार्थो यावङ्कुशचोदिताविव कुञ्जरौ सर्वतो जृम्भमाणौ शत्रूणां निहन्तारौ भवतः, हिंसाविव च हिंसनव्यापृतौ दाक्ष्येण च शोभेते चातकाविव चोदकलाभेन मदात्प्रीयेते, तावुभावपि जरामरणयोः कुपिताविवाजरत्वस्या- मरत्वस्य वा प्रीतावजरममरं मे शरीरं विधत्तामिति । “अम्यक्सा त” इत्यगस्त्यार्षं तेन किलेन्द्रोऽमरत्वं धनं प्रार्थितः तथा चोपरितन्यामृचि .“त्वं तू न इन्द्र तं रयिं दा” इति श्रूयते । तदेवास्यामृच्यनु- षङ्गेण द्रष्टव्यम् । इयं च च्छन्दोमद्वितीयेऽहनि मरुत्वतीये शस्त्रे विनियुक्ता । तत्राम्यगित्यमाशब्दोऽव्ययं साहित्यवाची । यतोऽमात्य इति भवति, सहाञ्च- तीत्यम्यक्सा त इन्द्र, ऋष्टिरायुधविशेषः पाणिक्षेप्यः, अस्मे इति—अस्माकं सनेमि—पुराणम् । अम्रं—तोयं मरुतो जुनन्ति—क्षिपन्ति । अग्निश्चिदित्युप- मार्थो हि स्म, अतसे-शुष्क तृणे शुशुक्वान्—दीप्तवान् आप इव द्वीपं दधति पयांसि—अन्नाद्यानि । वाक्यार्थे तु प्रथमतृतीयोर्द्वितीयचतुर्थयोश्च पदानां सम्बन्धः । तत्र सेत्येतदाक्षिप्तो यच्छब्दस्तृतीयपादे कल्प्यते । शुष्कतृणे