मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 287, कुल 804 में से
संदर्भ में पढ़ें४१ ] प्रथमाध्याये द्वितीयपाद। २३५ च पुच्छं वेत्यष्टावङ्गानि कस्यचिज्जन्तोः पिपासायामनुत्पत्तेस्तत्र जातावित्युक्तमाशङ्क्य चातकयोः पिपासाकालः प्रावृडिह लक्ष्यत इति प्रावृषि जातावित्युक्तम् । कथं जेमनशब्दे- नोदकवत्त्वमुच्यत इत्याशङ्क्योदकवाचिनो जेमशब्दस्य पामादिषु पाठाल्लोमादिपामादि- पिच्छादिभ्यः शनेलच इति यथासंख्यन्यायेन पामादिभ्यः परो विहितो नप्रत्ययो जेमश- ब्दात्परो भवतीत्युक्तम् । मे इतिषष्ठ्याः शरीरसम्बन्धजनितत्वं दर्शयितुं मे शरीर- मित्यक्तम् । पदार्थान्व्याख्याय वाक्यार्थं व्याचष्टे—तेनेति । एवं सर्वत्रेति भाष्येणोत्तरयोरपि मन्त्रयोः सूचितां व्याख्यां वक्तुम् । अम्यक्सात इन्द्रऋषिरस्मे सनेम्यश्वं मरुतो जुनन्ति । अग्निश्चिद्धिष्माऽतसे शुशुक्वानापोन द्वीपं दधति प्रयान्सीत्येतस्यां ऋच्यार्षोपाख्यानं तावद्दर्शयति-अम्यगिति मरुत्वद्गुणकस्येन्द्रस्य देवतात्वं वक्तुं विनियोगं दर्शयति—इयं चेति । छन्दोमसंज्कानां त्रयाणामह्नां मध्ये द्वितीयेऽह्नि महत्वतीयसंज्ञके शस्त्रे 'महसि त्वमिन्द्र यत एतानीति सूक्तमिति श्रुत्या विनियुक्तेत्यर्थः । पदार्थांस्तावद्व्याचष्टे तत्रेति अकारस्य छान्दसवर्णेप्रत्ययेनैकारादम्यगिति रूपसिद्धिः चिच्छब्दस्यैवार्थे प्रयोगादुपमानार्थत्वम् । हिस्मेतिपदयोः पदपूरणार्थत्वादर्थाकथनम् । नकारस्येवार्थत्वकथनायाप इवेत्युक्तम् । द्वीपं पुलिनम् । वाक्यार्थं व्याख्यातुमाह—वाक्यार्थे त्विति । दीपमन्नाद्यानि चेति चकारोऽत्र कल्पः । एकया प्रतिधापि वत्साकं सरांसि त्रिशतं इन्द्रः सोमस्य काणुकेत्यृचं व्याचष्टे— एकयेति । कान्तं-प्रियम्, कनुदकं सोमं रसात्मकं येषु तानि कान्तकानि । सर्वत्र शब्दसूचितां मन्त्रान्तरव्याख्यां दर्शयित्वा भाष्यं व्याचष्टे—तदेवमिति ॥ ४१ ॥ भा० प्र०—सतः = विद्यमान अर्थ का, अविज्ञातं = न जानना, परम् = मूल । 'स्तृण्येव' इत्यादि मन्त्र का भी अर्थ है, किन्तु वह दुर्बोध होने से साधारण जन के मध्य में अप्रचलित होने पर पूर्व पक्षी ने नहीं जाना । आशय यह है कि 'स्तृण्येव जर्भरी, अम्यक् सा' इत्यादि मन्त्र का अर्थ ही नहीं है— इस प्रकार की आपत्ति की गई है, वह सङ्गत नहीं है । क्योंकि इन मन्त्रों का भी अर्थ होता है । किन्तु यह प्रमाद आलस्य आदि के कारण साधारण लोगों को अवगत नहीं होता है । क्योंकि निगम, निरुक्त एवं व्याकरण की पर्यालोचना कर इसका अर्थ जानना चाहिए । इन मन्त्रों का पूर्णरूप और अर्थ निम्नलिखित है । स्तृण्येव जर्भरी तुर्फंरोतू नैतोशेव तुर्फरी . पर्फरीका । उदन्यजेव जेमना मदेरू ता मे जरायु मरं मरायु ॥ —(ऋग्वेद १०।१०६।६) स्तृण्या इव = अङ्कुश के द्वारा ताडन के योग्य दो गजों के समान, जर्भरी = विक्रम दिखाने वाले, तुर्फरी = हिंसा करने वाले, नैतोशा = शत्रु को वध करने वाले गजद्वय