मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 292, कुल 804 में से
संदर्भ में पढ़ेंHere is the accurate transcription of the scripture page into pure Markdown:
२४० मीमांसादर्शनम् [ सू० चार्थपरत्वे सर्वपशुविशेषणमात्राद्युपादित्सायां सत्यामवकल्पते । या चान्यपद- वृद्धिसद्भावप्रतीतिरियं च अर्थपरत्वेऽवकल्पत इति । यद्यपि मातृप्रभृतीनां पारार्थ्यात्संबन्धिभेदादेव च भेदसिद्धेरनूह्यत्वं सदेवानुवदति; तथाऽपि न्यायाव- गतानूहसंकीर्तनानन्यायरहितेषूहसंप्रत्ययात्प्रकृतौ विवक्षितार्थता विज्ञायते । अन्यथा तु तददृष्टम् विकृतेरेव साध्येत । तथा यद्यप्यन्यदैवत्यः पशुराग्नेय्येवमनोता कार्येत्यूहप्राप्तिदर्शनम्, एवमुक्ष्णां वपानामित्येवमादीनां यथार्थमूहितानामेवाऽऽ- म्नानमपि विवक्षितार्थं भविष्यति । इतरथा प्राकृतपदत्यागे, अन्यकल्पने चादृष्टद्वयं कल्प्येत ॥ ४४ ॥ न्या० सु०—भाष्यकारेणोहश्च तदर्थवदिति पूर्वसूत्रगतपदद्वयानुषङ्गेणेदं सूत्रमूह- •दर्शनं चेत्येनेन व्याख्याय वेदे क्वचिदूहः कार्यं इत्यश्रवणात्किमहदर्शनमिति पृष्टे न माता वर्द्धते न पितेत्यूहप्रतिषेधस्यैवाप्राप्तप्रतिषेधायोगेनॊहप्रापकत्वात् मात्रादिविशेषोपादान- सामर्थ्येन वा शब्दान्तरोहप्रतीतेरूहदर्शनमित्युत्तरे दत्ते, मात्राद्यर्थस्येह वृद्धिप्रतिषे- धात्कथं शब्दोहप्रापकत्वमित्याशङ्कानिराकरणार्थं वृद्धेः प्रत्यक्षत्वेन प्रतिषेद्धुमशक्यत्वाच्छ- ब्दवृद्धिप्रतिषेध इति प्रत्यक्षमिति भाष्येणोक्तम् तद्वयाचष्टे-ऊहदर्शनमिति । शब्दवृद्धेरपि वर्णान्तरोपजननादिनोपपत्तेः । तस्यार्थपरत्वेऽपि वचनमन्तरेणासेनं सिद्धान्तलिङ्गत्वमिति प्रतिपादनार्थं का पुनरिति भाष्येण पृष्ट्वा, यत् द्विवचनबहुवचनसंयोग इत्युक्तम् । तद्वयाचष्टे- तत्रापीति । वर्णान्तरोपजनने पदान्तरत्वापत्तेरपदत्वापत्तेर्वा तत्पदवृद्धचसम्भवात्स्थो- ल्यादेश्च नादधर्म्मत्वेन वर्णेष्वसम्भवाद् द्विवचनबहुवचनान्तत्वेनाधिकार्थद्वारा शब्दवृद्धि- रूहात्मिकेह प्रतिषिद्ध्यत इत्यर्थः । ऊहदर्शनस्य सिद्धान्तलिङ्गत्वं भाष्योक्तमुपपादयति-स चेति । प्रसक्तत्वादिति भावः । मात्रादिशब्दोहदर्शनस्य सिद्धान्तलिङ्गत्वमुपपाद्य, शब्दान्तरोहदर्शनस्योपपादयति-या चेति । अर्थपरत्वे च कल्प्यते इत्यनुषङ्गः । नन्विडा निगदगतयज्ञपतिशब्दवन्मात्रादीनां परार्थ्याद- परार्थ्येऽपि चैकैकमात्रादिसम्बन्धे पशुभेदोऽपि मात्रादिशब्दोहस्यानाशङ्क्यत्वान्मात्रादिभेदे ऽप्येकपशुसंबन्धाभावात् संबन्धिभेदेनैव भेदसिद्धेः न्यायादेवानूहावगतेः प्रतिषेधायोगात्कथं तद्बलेनोहप्राप्तिरत आह-यद्यपीति । न्यायसिद्धानुवादस्यापि प्रयोजनापेक्षायां न्यायरहि- तेषूहप्राप्तिरेव प्रयोजनमवसीयत इति भावः । अविवक्षितार्थत्वेन सिद्ध्येदित्याह अन्यथेति । ऊहदर्शने स्वयमुदाहरणन्तरमाह-तथेति । त्वं ह्यग्ने प्रथमो मनोतेति मनोतासूक्तस्य वायव्ये पशावतिदेशप्राप्तस्योहः प्रसक्तोऽनेन वचनेन वार्यंते । उदाहरणन्तरमाह-एवमिति । गवादिपशुके अतिदेशप्राप्तस्य 'छागस्य वपाया मेदसो ऽनुब्रूहीति मन्त्रस्योहप्रसक्तौ उक्षादिपदयुक्तस्यार्थपरत्वे छागपदस्थानेऽस्य प्रयोगपाठः अपर्यायान्तरनिवृत्यर्थः अर्थवान् भविष्यतीत्यर्थः । नन्वर्थपरत्वेऽप्युक्षादिपद नियमस्यादृष्टार्थपरिहारात् केन विशेषेणाविव- क्षितार्थता निराक्रियते इत्याशङ्क्य अविवक्षितार्थे कल्पनागौरवमाह-इतरथेति ॥ ४४ ॥