मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 297, कुल 804 में से
संदर्भ में पढ़ें१ ] प्रथमाध्याये तृतीयपादः २४५ न सिद्धविषयप्रत्यक्षादिगोचरत्वम्, अपि तर्हि वैदिकशब्दप्रमाणकत्वमेवेति गदितं चोदनासूत्र इत्यर्थः । अस्तु तर्हि शब्दस्यैवाष्टकादिविषयस्य स्मृतिमूलत्वमित्या- शङ्कयाशब्दमिति सौत्रं पदं तद् यत्र न वैदिकं शब्दमुपलभन्त इत्यनेन व्याख्यात- मित्यपेक्षितम् । तदयमर्थः—न तावदग्निहोत्रादिवाक्यवत् प्रत्यक्षमेवाष्टकादिवाक्यमुपलभ्यते, न च कल्पयितुं शक्यते अनुपलब्धिविरोधात् नाप्यनुमानादिना तदवगन्तुं शक्यं व्याप्तिलिङ्गाद्यभावात् इति । अतः प्रमाणमूलासंभवात् भ्रान्त्यादिमूलत्वेन स्मृतेर- प्रामाण्यात् तदर्थो नापेक्ष्यः, तद्विषयं स्मृतिप्रामाण्यं नापेक्ष्यमिति सूत्रशेषं व्याचष्टे—अत इति । ननु प्रसिद्धाप्तभावस्य मन्वादेरन्यथा संविदानस्यैवान्यथा वादानुपपत्तेः अवश्यमाश्रयणीयं मूलप्रमाणमिति शङ्कते—नन्विति । ये विदुरकर्तव्य एवायमिति व्यवहितेन संबन्धः कर्तव्य एवायमिति, ये न विदुरित्यर्थः । त एवमितिकर्तव्यताक एवं फलकश्चासौ पदार्थः कर्तव्य इति कथमिव वदिष्यन्तीति शेषान्वयः । यद्यपि कर्तव्यतावादात् कर्तव्यतास्मरणमनुमीयते, तथापि न तद्यथार्थः अनुप- पत्तेरिति परिहरति—स्मरणेति । अनुपपत्तिमुपपादयति—नहीति । नन्वाप्तोपदेशमूलत्वात्स्मरणस्य न तन्मूलानुभवः, शब्दो वा कल्प्यते तत्राह—न चेति । स्मृतेः पूर्वरूपं विज्ञानं पूर्वविज्ञानं तस्य कारणं शब्दप्रत्यक्षादि, तदभावादित्यर्थः । तदभावमुपपादयितुं अवैदिकस्येत्याद्युक्तम् । संभवति हि मूलतया तत्कल्पना, अन्यथा तु मन्वादेरेव पुरुषत्वेन मोहादिकल्पना भागिनीति भावः । कारणाभावे कार्याभावं दृष्टान्तेनाह—या हीति । यदा बन्ध्या दौहित्रेण कृतमिदं कर्मेति ज्ञानं न समीचीनं मन्यते दुहितुरभावे दौहित्रस्याभावावगमात् । एवमवितथस्य पूर्वविज्ञानस्यासंभवेन स्मरणस्यापि तथाविधस्याभावनिश्चयाद्, न तन्निमित्तमुपदेशमपि यथार्थं मंस्यते मन्वादिरित्यर्थः । एवं मूलप्रमाणासंभवेन मन्वाद्युपदेशस्य प्रामाण्ये निरस्ते, स्मृत्यनुमेयश्रुतिमूलत्वेन प्रामाण्यं मन्वान- श्शङ्कते—एवमपीति । अविच्छिन्नपूर्वपूर्वसंप्रदायपूर्वपूर्वस्मृतिमूलत्वादियं वेद इति, एषा स्मृतिः यथाप्रमाणम्, एवमियं मन्वाद्युपदेशलक्षणापीत्यर्थः, स्मृत्या श्रुत्यनुमानासंभवं मन्वानः परिहरति—नैतदिति । अष्टकादिस्मृतिप्रामाण्यं वेदस्मृतिप्रामाण्यवत् न संभवतीत्यर्थः, वैषम्यं विवृणोति—प्रत्यक्षेणेति । ग्रन्थस्य=वेदस्यादृष्टार्थेषु=प्रत्यक्षाद्यविषयेष्वर्थेषु कारणाभावान्न मन्वाद्युपदिष्टतया व्यामोहादिति । ननु किमिति व्यामोहमूला पूर्वपूर्वस्मृतिमूलत्वादत आह—तद्यथेति । स्मरामीति स्मरणं ज्ञानं कर्मणि षष्ठ्यौ अमुं रूपविशेषमित्यर्थः, तस्य कुतः पूर्वविज्ञानमिति पर्यनुयुक्तो जात्यन्धान्तरादेवेति यथा व्यपदिशेदित्यन्वयः, एवं