मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 301, कुल 804 में से
संदर्भ में पढ़ें१ ] प्रथमाध्याये तृतीयपादः ३४९ तत्र पूर्वपक्षवादी वदति नैषां प्रामाण्यमेवापेक्षितमिति । कुतः ? पूर्वविज्ञानविषयं विज्ञानं स्मृतिरुच्यते । पूर्वज्ञानाद्विना तस्याः प्रामाण्यं नावधार्यते ॥ सर्वस्मरणानि हि प्रत्यक्षाद्यवगतेऽर्थे तदानुरूप्येणोपजायमानान्यर्थं समर्प- यन्ति । तदिहाष्टकादीनां स्वर्गादिसाध्यसाधनभावं प्रत्यक्षादीनि तावन्न गृह्णन्तीति साधितम् । शब्दोऽपि यथाऽग्निहोत्रादिषु प्रत्यक्षेणोपलभ्यते, नैवमनवस्थाः । प्रत्यक्षानुपलब्धे च शब्दे सद्भावकल्पना । धर्मास्तित्वप्रमाणाद्धि विप्रकृष्टतरा भवेत् ॥ शब्दस्य तावदेकमेव प्रत्यक्षं प्रमाणम् । स चेत्तेनानवगम्यमानोऽप्यस्ती- त्युच्यते, ततो वरं धर्मास्तित्वमेव निष्प्रमाणकमभ्युपगतमिति । न वाऽऽनुमानमप्यस्मिन्नष्टकाश्रुतिकल्पने । न हि स्मृतिस्तया व्याप्ता दृष्टाऽन्यद्वाऽनुमापकम् ॥ यथैव धर्मे संबन्धादर्शनान्न किंचिल्लिङ्गं क्रमते, तथाऽष्टकादिश्रुतावपि । न चाऽऽगमेन तद्बोधो नित्येन कृतकेन वा । विस्रम्भः कृतके नास्ति नित्यो नैवोपपद्यते ॥ यद्यप्यैन्द्रियकत्वादष्टकादिस्मृतीनां पौरुषेयागमगम्यत्वं संभवति । तथाऽपि विप्रलम्भभूयिष्ठत्वादश्रद्धेयवचनेषु पुरुषेष्वनध्यवसानम् । दृश्यन्ते ह्यनागमिकान- प्यर्थानागमिकत्वाध्यारोपेण केचिदद्यत्वेऽप्यभिदधानाः । तेन मन्वादिभिरपि किमष्टकाश्रुतीरुपलभ्य वेदमूलत्वं स्वनिबन्धनानां प्रतिज्ञातमुतानुपलभ्यैव श्रद्धेय- वाक्यत्वार्थमिति दुष्टपुरुषाकुलितचेतसां भवति सन्देहः । तावता च प्रामाण्य- विघातः । नित्यस्य वचनस्याऽऽदिमत्स्मरणमूलप्रतिपादने व्यापार एव नास्ति । न च मन्त्रलिङ्गानि स्वयं मूलत्वं प्रतिपद्यन्ते, विधिशून्यत्वात् । न च मूलान्तरं न्यायागतं सूचयन्ति । अन्यपरत्वात् । न च सर्वेषां स्मृतिप्रणयिनामविगानम् । येन पौरुषेयागमबलादुपलब्धपूर्वश्रुतिमूलत्वं स्यात् । न च विज्ञायते वाक्यं कीदृशं तैर्निरूपितम् । अर्थवादादिरूपाद्धि पश्यामो भ्राम्यतो बहून् ॥ यदि ह्येतदेकान्तेन गम्येत, यथाविधि वाक्यान्येव मन्वादिभिरुपलब्धानीति । ततः काऽपि कल्पना स्यादद्यत्वेऽप्यन्यपरार्थवादादिवचनेभ्योऽपि भ्राम्यन्तः पुरुषा दृश्यन्ते । तेन तेष्वप्याशङ्का भवति । मृतसाक्षिकव्यवहारवच्च प्रलीनशाखा- मूलत्वकल्पनायां यस्मै यद्रोचते, स तत्प्रमाणीकुर्यात् । तस्मान्नाऽऽगमेनापि मूलोपलब्धिः ॥