मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 302, कुल 804 में से
संदर्भ में पढ़ें३५० मीमांसादर्शनम् [ सू० उपमानं त्वदृष्टेऽर्थे सदृशे चानिरूपिते । नैवेष्टमिति तेनापि न मूलश्रुतिसाधनम् ॥ अर्थापत्त्याऽपि यत्किञ्चिन्मूलमित्यवगम्यते । तच्चाप्रमाणपक्षेऽपि भ्रान्त्यादि न विरुध्यते ॥ यदि हि श्रुतिकल्पनेन विना स्मृतिर्नोपपद्यते, ततः सम्यङ्मूला स्यात् । संभवति तु स्वप्नमूलत्वेन तेनानैकान्त्यादर्थापत्तेः, सामान्यतो दृष्टस्य वाऽनव- काशः। तस्मादनुपलब्धिगोचरापन्नायां श्रुतौ सत्स्वपि मूलान्तरेष्वभिप्रेतमूला- भावान्निर्मूलत्वाभिधानम् । ननु ये विदुरेवमितिकर्तव्यताक एवम्फलकश्चासौ पदार्थः कर्तव्य इति । अथ वा ये कर्तव्योऽसावितीत्थं विदुस्ते तथा विजानन्त- स्तादृशाः कथमिवास्मान्विप्रलब्धुं न कर्तव्योऽसाविति वदेयुः । नन्वन्य एवं वदन्ति कर्तव्य इत्यन्ये न वा कर्तव्य इत्याहुः । कथमन्यत्वं यदा तेषामप्येवमयं स्मर्यत इति कथिते भवत्येवं प्रतिपत्तिः । अथ वा ये मन्वादयो विदुरकर्तव्योऽयं पदार्थ इति, कथमिव ते विनाऽपराधेन लोकं वञ्चयितुं वदिष्यन्ति कर्तव्य एवायमिति । स्मरणानुपपत्त्येति । ये ताव- न्मन्वादिभ्योऽर्वाञ्चः पुरुषास्तेषां यज्ज्ञानं तत्तावदनवगतपूर्वार्थत्वान्न स्मृतिः । मन्वादीनामपि यदि प्रथमं किञ्चित्प्रमाणं संभाव्यते ततः स्मरणं भवेन्नान्यथा । कस्मात्पुनः पुत्रं दुहितरं वाऽतिक्रम्य बन्ध्यादौहित्रोदाहरणं कृतम् ? स्थानतुल्यत्वात् । पुत्रादिस्थानीयं हि मन्वादेः पूर्वविज्ञानं दौहित्रस्थानीयं स्मरणम्; अतश्च यथा दुहितुरभावं परामृश्य, दौहित्रस्मृतिं भ्रान्तिं मन्यते, तथा मन्वादिभिः प्रत्यक्षाद्यसम्भवपरामर्शादष्टकादिस्मरणं मिथ्येति मन्तव्यम् । तथैव पारम्पर्येणाविच्छेदादयं वेद इति-वाक्यानुमानाभिप्रायेणोक्तम् । इतरस्त्वर्थस्यैवाविच्छेदस्मरणमयमाहेति मत्वा, पुनन्निर्मूलत्वमाह । वेदः पुनः सविशेषः प्रत्यक्षगम्यस्तत्र घटादिवदेव पुरुषान्तरस्थमुपलभ्य स्मरन्ति । तैरपि स्मृतमुपलभ्याऽन्येऽपि स्मरन्तोऽन्येभ्यस्तथैव समर्पयन्तीत्यनादिता । सर्वस्य चाऽऽत्मीयस्मरणात्पूर्वमुपलब्धिः संभवतीति, न निर्मूलता । शब्दसम्बन्धव्युत्पत्ति- मात्रमेव चेह वृद्धव्यवहाराधीनम् । प्रागपि हि वेदशब्दादन्यवस्तु विलक्षणं वेदान्तरविलक्षणं वाऽध्येतृस्थमृग्वेदादिरूपम्, मन्त्रब्राह्मणादिरूपाणि चान्यविल- क्षणान्युपलभ्यन्तें । सर्वेषां चानादयः संज्ञा इति तद्द्वारेणोत्तरकालमपि गम्य- मानानां प्रत्यक्षत्वं साधितम् । नन्वष्टकादिषु पुरुषान्तरस्थेष्वपि कुम्भकारक्रियास्विव किंचिद्विज्ञानमूल- मस्ति । यदि हि कर्मस्वरूपमात्रं स्मर्येत, ततः पाकादि तदिन्द्रियैरन्याननुतिष्ठतो दृष्ट्वा परे स्मरेयुः । यतस्त्विह स्वर्गादिसाध्यसाधनसम्बन्धःस्मर्यते नासौ पुरुषान्त-