मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 306, कुल 804 में से
संदर्भ में पढ़ें१५४ मीमांसादर्शनम् [ सू० मन्त्रलिङ्गानां च स्मृतिमूलसूचकत्वनिराकरणेन नित्यानुमेयश्रुतिमूलत्वमपि निराकृतं भवति । अन्धपरम्परान्यायापत्त्या स्मरणेन नित्यानुमेयश्रुतिकल्पनस्य निराकरिष्यमाणत्वात्, प्रत्यक्षश्रुतिमूलत्वे त्वैकरूप्यात्तस्यास्तन्मूलानां स्मृतीनामप्यैकरूप्यं स्यात् न त्वेतदस्ति । 'यदुच्यते द्विजातीनां शूद्राहारोपसंग्रहः । न तन्मम मतं यस्मात्तत्रात्मा जायते स्वयम् ॥' या० स्मृ० आ० श्लो० इत्यादिविगानदर्शनादित्याह — न चेति । ननूपलब्धश्रुतिमूलत्वेऽपि विगीतानेकश्रुति- मूलत्वात् स्मृतिविगानमविरुद्धमत आह — न चेति । श्लोकं व्याचष्टे—यदि हीति । विधिरूपं वाक्यं मन्वादिभिर्निरूपितमुपलब्धमिति यदि विज्ञायेत, ततः कापि विगीतानेक- श्रुतिमूलत्वाद्वादिकल्पना स्यात् । अर्थवादपरेष्वपि त्वद्यत्वेऽपि 'स यदि ह वा अपि मृषा वदति सत्यं हैवास्योदितं भवति, य एवमेतत्सत्यस्य सत्यत्वं वेदेत्यादिषु मृषोद्याभ्यनुज्ञाभ्रान्ति- दर्शनेन मन्वादिष्वपि भ्रान्तिशङ्काया निराकर्तुमशक्यत्वात् एकश्रुतिमूलत्वेऽपि भ्रान्त्य- वसितानेकतात्पर्यविगाननिमित्तस्मृतिविगानोपपत्तेरनेकश्रुतिमूलत्वकल्पनोचितेति भावः । प्रलीनशाखामूलत्वं तर्ह्यस्त्वत आह — मृतेति । प्रासङ्गिकं परिसमाप्य प्रकृतमुपसंहरति— तस्मादिति । उपमानं निराकरोति—उपमानं त्विति । अर्थापत्तिं निराकरोति—अर्थापत्त्यापीति । श्लोकं व्याचष्टे—यदि हीति । सामान्यतो दृष्टग्रहणं दृष्टान्तार्थमतो निर्मूलत्वादित्युपसंहार- भाष्यं निर्मूलस्मृत्यसम्भवेन, कस्यचिद् भ्रान्त्यादेरवश्यकल्प्यत्वादयुक्तमाशङ्क्य व्याचष्टे— तस्मादिति । नन्विति भाष्यमर्वाचीनाभिप्रायेण तावद् द्वेधा योजयति—नन्विति । अर्वाचीनानां कर्त्तव्यत्वाज्ञानाद्ये विदुरित्ययुक्तमित्याशङ्कते—नन्विति । वदनानुमेयत्वात्परिज्ञानस्य वदन्तीत्युक्तम् । तेषामपि मन्वादिवाक्यश्रवणाद्भवति कर्त्तव्यत्वज्ञानमिति परिहरति— कथमिति । एवं कर्त्तव्यज्ञानात्कर्त्तव्याभिधानयोर्विप्रतिषेधप्रतिपादनपरत्वेन व्याख्याय नन्व- विदुषामुपदेशो नावकल्पत इत्यनेन न्यायेनोपदेशान्यथानुपपत्त्या मन्वादेः पूर्वज्ञानकल्पनाशङ्का- र्थमेतद्भाष्यमित्यन्यथाचष्टे—अथ वेति । ये कर्त्तव्य इति न विदुः, कथमिव ते वदिष्यन्ती- त्यममी पदार्थाः कर्त्तव्य इति व्यत्ययेनास्मिन् व्याख्याने भाष्यं योज्यम् । निषेधाभावेन त्वकर्त्तव्यत्वस्यानाशङ्क्यत्वात्कर्त्तव्यत्वज्ञानमेवाकर्त्तव्यत्वज्ञानमुखेनाकर्त्तव्यो यस्मिन्नि- त्यनेनोक्तम् । विवक्षितार्थलाभाय च व्यत्ययाङ्गीकरणमदोषः । 'स्मरणानुपपत्तेरिति भाष्य- मर्वाचीनानां स्मरणानुपपत्तेत्येव कैश्चिद्व्याख्यातम् । तत् मन्वादिवाक्यश्रवणजनितस्यार्वा- चीनानामष्टकादिकर्त्तव्यताज्ञानस्याकर्त्तव्यत्वाभिधानविरोधित्वेनोपन्यस्तस्य स्मृतित्वेनाशङ्कि- तत्वादयुक्तमित्यभिप्रायेण दूषयति—स्मरणेति । तदर्वाचीनानामष्टकादिकर्त्तव्यत्वज्ञानमा- शङ्कावादि नैव तावन्न स्मृतित्वेनेष्टम्, अतस्तस्य स्मृतित्वनिराकरणमयुक्तमिति तावच्छब्दस्यार्थः ।