भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 307, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 307

१ ] प्रथमाध्याये तृतीयपादः २५५ ननु मन्वादीनामपि स्मरणं निराकर्त्तुमशक्यम्, तदभावे ग्रन्थरचनानुपपत्तेरित्या- शङ्क्याह - मन्वादीनामपीति । तस्माद्व्याख्यानद्वयेऽपि मन्वाद्यभिप्रायेणैवैतत्परिहारभाष्यं योज्यमिति भावः । तत्रावाचीनाभिप्रायशङ्काव्याख्याने मन्वादिवाक्योत्पन्नकर्त्तव्यत्वज्ञानां अप्यर्वाञ्चो मन्वादीनां स्मरणानुपपत्तिमलोच्याकर्त्तव्यत्वं वदन्तीति योज्यम् । द्वितीय- व्याख्याने तूपदेशकल्प्यस्मरणस्य पूर्वविज्ञानकारणाभावेनानुपपत्त्या नोपदेशस्य तत्कल्पकत्वं सम्भवतीत्यसम्भवेतोऽर्थापत्त्या कल्पयितुमशक्यत्वादिति भावः । विदितपूर्वस्याप्यस्मृतस्यो- पदेष्टुमशक्तेः, स्मरणद्वारेणोपदेशस्य ज्ञानकल्पकत्वात्स्मरणनिराकरणेन ज्ञानमेव निराकृतम् । बन्ध्यादौहित्रोदाहरणस्य प्रश्नपूर्वमभिप्रायमाह-कस्मात्पुनरिति । कारणाभावेन कार्याभावोऽत्र दृष्टान्तो वाच्य इति, दौहित्रस्य कारणभूतदुहितुरभावेनाभावो निदर्शनीयः । दुहितुस्तु बन्ध्याकारणमस्तीति न कारणाभाव इत्याशयः । उपदेशान्यथानुपपत्त्या मन्वादि- स्मरणेऽवश्यकल्पे सम्यक्त्वमात्रमिह निषेध्यमिति सूचयितुं दृष्टान्तभाष्ये सम्यग्ग्रहणम् । एवमपीत्याशङ्काभाष्यं पूर्वं विज्ञानकारणाभावे स्मृतिप्रामाण्यानुपपत्तेर्युक्तमाशङ्कय पूर्वविज्ञानकारणभूतवेदवाक्यानुमानाभिप्रायत्वेन व्याचष्टे - यथैवेति । एवं तर्हि नैतदेवमिति परिहारभाष्यं पूर्वविज्ञानकारणाभावे हेत्वप्रदर्शनादयुक्तं स्यादित्याशङ्क्यऽगृहीताभिप्रायत्वेन व्याचष्टे इतरस्त्विति । एतदेव भाष्यमवयवशो व्याचिख्यासुर्वेदत्वस्मृतिप्रामाण्योपपत्तिप्रतिपादकं तावत् प्रत्यक्षेणेतिभाष्यावयवं व्याचष्टे - वेदः पुनरिति । ननु वर्णस्वरूपस्य प्रत्यक्षत्वेऽपि तस्य वेदावेदसाधारण्याद्वेदत्वस्मृति- र्निर्मूलैव स्यादत आह-शब्देति । वेदशब्दवाच्यत्वमात्रमेव तत्राप्रत्यक्षं तदपि तु वृद्धव्यव- हारावगम्यत्वान्न निष्प्रमाणकम्, ग्रन्थान्तरविलक्षणमेतत्स्वरूपं प्रत्यक्षमेवेति भावः । एतदेवोप- पादयति-प्रागपि हीति । वेदशब्दस्योपलक्षणत्वाद्वेदादिविशेषमन्त्रब्राह्मणोपन्यासः । ननु वेदशब्दात्प्रागपि वेदादिस्वरूपप्रतीतौ वेदादिसंज्ञानां डित्थादिवत्पौरुषेयत्वान्निष्प्रमाण- कत्वं स्यादित्याशङ्कयाह - सर्वेषां चेति । नन्वेवमपि वेदादिशब्दोल्लेखाबगतेर्वृद्धव्यवहारा- धीनशब्दार्थसम्बन्धप्रतीत्युत्तरकालीनत्वात् प्रत्यक्षत्वं न स्यात् अत आह-इतीति । शब्दोल्लेखप्रतीतिनिर्देशार्थं इतिकरणः । संज्ञाद्वारेण तदुल्लेखेनोत्तरकालमपि गम्यमानानां प्रत्यक्षसूत्रे तत्र शब्दार्थसम्बन्धप्रमातुरित्यत्र प्रत्यक्षत्वं साधितमित्यर्थः । दार्ष्टान्तिके वैषम्यप्रतिपादनार्थमष्टकादिषु त्विति भाष्यावयवं व्याचष्टे-नन्विति । कुम्भकारक्रियास्त्रिवेति वैधर्म्यदृष्टान्तः एतदेवोपपादयति - यदो ते । अन्धपरम्परान्यायेनेति व्याख्येयतयोपक्षिप्तस्यान्धपरम्परानिदर्शनस्य प्रयोजनं तावदाह-सर्वस्येति । वेदत्वस्मृति- वदष्टकादिस्मृतावप्यनादित्वात्प्रामाण्यप्रसिद्धयभिमानं निवर्त्तयितुमन्धपरम्परानिदर्शनमित्यर्थः । कथमनेन निदर्शनेन प्रामाण्यप्रसिद्धयभिमाननिवृत्तिरित्यपेक्षितेऽस्मिन्निदर्शनेऽनादित्वस्या- प्रामाण्यापादकत्वदर्शनादित्याह-वेदे हीति । एतदेव प्रश्नपूर्वमुपपादयन्निदर्शनभाष्यं व्याचष्टे- कथमिति । दार्ष्टान्तिके योजयति-तादृशं चेति ।