मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 314, कुल 804 में से
संदर्भ में पढ़ेंसम्प्रदायविरोधादित्यर्थः । एवं श्रुतिस्मृतिप्रामाण्याप्रामाण्ययोरपाक्षिकत्वमुक्तं निगमयति—तेनेति । एतत्-स्पर्शनविज्ञानं पक्षे प्रमाणविज्ञानं सद्द्यामोहकल्पनया पक्षान्तरं प्रमाणाभासत्वरूपं न सङ्क्रान्तमिति गम्यत इति एकत्र योजना । इतरत्र तु एतत्स्मार्तविज्ञानं पक्षेऽप्रमाणं सद्भावन्मूलश्रुतिदर्शनं न व्यामोहपक्षा- त्पक्षान्तरं प्रामाण्यरूपं सङ्क्रान्तमिति किं मूलत्वं तर्हि तदानीं सर्ववेष्टनादिस्मृते- रत आह—दुःश्रुतेति । यथावदविचारितं वाक्यं दुःश्रुतम् स्वप्नविज्ञानम्-भ्रान्तिः, आदिशब्दान्न्यायाभासः । तुशब्दात्परं मूलशब्दाध्याहारः । ननूत्सर्गातः स्मृतीनां श्रुतिमूलत्वसाधनात् कथं मूलान्तराशङ्का तत्राह—न हीति । यद्यप्यसति विरोधे स्मृतेः मूलान्तरसंभावना न निराकृतेत्याशयः, अतः श्रुतिविरोधात् श्रुतिप्रामाण्यपक्षवत् स्मृतिप्रामाण्यपक्षेऽपि न स्मार्तश्रुत्यनु- मानमिति निगमयति—तस्मादिति । तुल्यं कारणं श्रुतिविरोधलक्षणं यस्य श्रुतिकल्पनाभावस्य तत्त्वादित्यर्थः । इतश्च न विकल्पो युक्त इत्याह—अपि चेति । विकल्पानभ्युपगम इतरेत- राश्रये सत्यन्यतः परिच्छेदसंभवात्, तदभ्युपगमे च तदसंभवान्न विकल्प इत्य- भिप्रायः । केयमत्रेतरेतराश्रयतेति पृच्छति—केयमिति । उत्तरम्—प्रमाणाया- मिति । प्रमाणभूतां श्रुतिमयत इत्यर्थे प्रमाणशब्दात् परोऽयं “अय गतौ” इति धातुः प्रयुक्तः, तस्य च क्विबन्तत्वाल्लोपोव्योर्वलीति यकारलोपे शिष्यमाणकारात् परंटापि च कृते तेन पूर्वेण चोपपादाकारेण सवर्णदीर्घत्वेऽपि कृते प्रमाणायेति रूपसिद्धिः, स्पर्शनं व्यामोह इत्यत्र स्पर्शने व्यामोहः, स्मृतिः प्रमाणेत्यध्याहार्यम् स्मृतिः व्यामोह इत्यत्र स्मृतौ व्यामोहे स्पर्शनं प्रमाणमिति तत्-तस्मादेतदितरेतरा- श्रयद्वयं विकल्पोपगमे, इतरत्र तु चरममेव मत्वाऽह—तदिति । एवं परस्पराश्रयं प्रदर्श्य, स्वपक्षेऽन्यतः परिच्छेदमाह—तत्रेति । स्पर्शनस्य क्लृप्तं मूलम् न कल्प्यम् । स्वत एव प्रमाणमिति यावत् तेन स्वतःसिद्धश्रुतिप्रामाण्यापेक्षया स्मृत्यप्रमाण्यस्य स्वतःसिद्धस्यापि दृढत्वसिद्धेः नान्योऽन्याश्रयतेत्यर्थः । स्मृतेः प्रामाण्यस्य कल्प्यताधीनतया स्वतोऽप्रामाण्यात् तदपेक्षया श्रुतिप्रामाणस्य स्वतः सिद्धस्यापि निरपवादत्वसिद्धेः अपि नान्योऽन्याश्रयतेत्याह—कल्प्यमिति । निगमयति—सोऽसाविति । विकल्पाभ्युपगमे तु श्रुतिस्मृतिप्रमाण्याप्रामाण्ययोः इतरेतराधीनत्वेनान्यतः परिच्छेदाभावाद् दुष्परिहरमितरेतराश्रयमिति हृदयम् । तत्र स्वपक्षे दर्शितमन्यतः परिच्छेदं प्रपञ्चयन् श्रुतिप्रामाण्येतरतराश्रये तावत् व्युत्पादयति—कल्प्येत्यादिना । अनवक्लृप्तम् स्वतोऽनवधारितम्, ततश्च स्वतोऽ- प्रामाण्यमित्यर्थः । तदप्रमा च न तया बाधश्रुतेरित्याह—तदिति । अबाधितश्रुति- विरोधे च न तया स्मृत्या मूलकल्पनाबाधितविषयतया स्मृतेरगमकत्वादित्याह— तद्व्यामोहादिति । ततश्च कल्पितया श्रुत्या विरोधाभावात् प्रतिष्ठितं प्रत्यक्ष-