मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 315, कुल 804 में से
संदर्भ में पढ़ें२ ] प्रथमाध्याये तृतीयपादः २६३ श्रुतिप्रामाण्यमित्यभिसन्धिः । स्मृत्यप्रामाण्येतरेतराश्रये तु स्वतः प्रमाणभूतप्रत्यक्ष- श्रुतिविरोधे मूलानुमानमित्यप्रमाणमेव स्मृतिरित्यन्तः । परिच्छेद इति भावः, न च स्मृतेः स्वतोऽप्रामाण्याभ्युपगमे स्मृत्यधिकरणविरोधः प्रत्यक्षश्रुतिविरोधे सति यावन्मूलवेददर्शनं मूलान्तरसंभावनामात्रस्यैवाप्रामाण्यशब्देनाभिप्रेतत्वादिति- ध्येयम् । एवं स्मृत्या तदनुमितया वा श्रुत्या सह प्रत्यक्षश्रुतेः न विकल्प इत्युक्तम् तत्र परो दृष्टान्तेऽपि विकल्पानुपपत्तिमाह—नन्विति । स्मृत्यनुमेयश्रुतिवद्यवश्रुतेर- प्रत्यक्षत्वाभावाद्युक्तो विकल्प इति, परिहरति - सत्यमित्यादिना । नन्वप्रत्यक्षाया इव प्रत्यक्षाया अपि प्रत्यक्षश्रुतिविरोधादनुपपत्तिस्तुल्येति तत्राह—नहीति । कुतोऽत आह—द्वयोरिति । स्मृत्यनुमेयत्वे ह्यस्या श्रुतेः इतर- प्रत्यक्षश्रुतिविरोधेन स्मृतेर्मूलान्तरसंभावनया श्रुत्यनुमानानुपपत्तिस्स्यात् द्वयो- र्भवत्वेनानुमेयत्वादत्यन्ताप्रामाण्यस्य च द्वयोरेकस्य वा कल्पयितुमशक्यत्वाद- गत्या विकल्पाभ्युपगमान्नानुपपत्तिरित्यर्थः । नन्विदं श्रुतिद्वयं संभूय मिश्रैः यागं विदधाति, कथमत्र विकल्पावकाशः तत्राह—द्वे इति । अन्यथान्यनिवृत्तिफलत्वाभावेन नियमविधित्वानुपपत्तेरिति भावः । ननु विहायैव नियमविधित्वं मिश्रविषयत्वमेवाभ्युपगम्यतामत आह—एकेने- त्यादिना । यवैः व्रीहिभिरिति च निरपेक्षकरणत्वप्रतिपादकश्रुतिविरोधान्न मिश्रविषयत्वकल्पना युक्तेति भावः । ननु केवलयोस्साधनतावगमेऽपि भवतु वाक्यद्वयप्रामाण्याय मिश्रैरनुष्ठानमत आह—न चेति । एकैकेन वाक्येनावगतोऽर्थः केवलसाधनत्वरूप इत्यर्थः, तत्रापि वाक्यद्वयाप्रामाण्यतादवस्थ्यादिति भावः, गत्यन्तराभावफलमाह—तस्मादिति । स्मृत्यनुमेयायास्तु श्रुतेः दौर्बल्यात् न तया सह प्रत्यक्षश्रुतेः विकल्प इत्याशयः, अतश्च सर्ववेष्टनादिस्मृतेरनुमितश्रुतिमूलाया अपि प्रत्यक्षश्रुत्यपेक्षया दौर्बल्याद् यावद्वेददर्शनमननुष्ठापकत्वलक्षणमप्रामाण्यं सिद्धमिति निगमयति—तस्माद्युक्त- मिति ।¹ एतेन या बौद्धार्हतादिस्मृतयः, तासामपि प्रत्यक्षादिमूलतायाः प्रथमे पादे निरस्तत्वात् श्रुतिमूलतायाश्च स्वयमनभ्युपगमात्, अभ्युपगमेऽपि चैत्यवन्द- नादिश्रुतेरदर्शनात् तदनुमानस्य च वेदविरुद्धानुष्ठातृप्रणीतत्वेन शूद्रादिपरि- गृहीतत्वेन— १. उक्तमिति मूल भाष्य पुस्तके पाठः । सर्वव्याख्याविकल्पानां द्वयमेव प्रयोजनम् । पूर्वापरपरितोषो वा विषयव्याप्तिरेव वेतिवार्तिकमत्रानुसन्धेयम् ।