मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 319, कुल 804 में से
संदर्भ में पढ़ें२ ] प्रथमाध्याये तृतीयपादः २६७ त्वादक्रियायां प्रत्यवायः, करणे च न भवति । दृष्टं च प्रीतो गुरुरध्यापयिष्यती- त्येवमादि निष्पद्यते । नियमाच्चाविघ्नसमाप्त्यर्थापूर्वसिद्धिः । एवं च "आचाराद् गृह्यमाणेषु तथा स्यादित्यत्र सकृदसकृद्वाऽनुष्ठानमिति विचारो युक्तः। इतरथा तु दृष्टार्थत्ववशेनैवोदकपानादिवदवधारणं स्यात् । यत्तु भाष्यकारेण दृष्टार्थत्वादेव प्रामाण्यमित्युक्तम्, तत् अस्मिन्विषये वार्तिक- मतं पूर्वपक्षवाद्यतिशयार्थम् । एतदुक्तं भवति । यास्तावद्दृष्टार्थाः स्मृतयः ताः कथंचिदप्रमाणीकुर्याद्भूवान्, इमाः पुनर्गुर्व्वनुगमनादिविषयाः कथमिवाप्रमाणं भविष्यन्तीति । सभाप्रपादीनां यद्यपि विशेषश्रुतिर्नैव कल्प्यते, तथाऽपि परोप- कारश्रुत्यैव समस्तानामुपादानात्प्रामाण्यम् । तस्माच्छ्रेयांसमित्यश्वे गर्दभेनानु- गन्तव्ये सिद्धवच्छ्रेयसामूनैरनुगमनं दर्शयति । यथा धन्वनि निरुदके कृताः प्रपाः परेषामुपकुर्वन्त्येवं त्वामिति देवतास्तुतिपरे वाक्ये सिद्धवत्प्रपासद्भावः, तस्याश्च पारार्थ्यं दृश्यते । गोत्रचिह्नं शिखाकर्म । तत्राप्याचारनियमस्यादृष्टार्थत्वान्नैव तावन्मात्रमेव प्रयोजनम् । शक्यं ह्युपायान्तरेणापि गोत्रं स्मर्तुम् । तेनान्य एवाभि- प्रायः । कर्माङ्गभूतं तावच्चतुरवत्तपञ्चावत्तादिविभागसिद्धयर्थमवश्यं स्मर्तव्यं गोत्रम् । अतश्च तच्चिह्नार्थमपि तावच्छिखाकल्पस्मृतेः प्रामाण्यमस्तु । तन्नियमादृष्टस्य त्वेकान्तेनैवानन्यगतित्वात्पुरुषार्थता सेत्स्यतीति । तेन सर्वस्मृतीनां प्रयोजनवती प्रामाण्यसिद्धिः । अलौकिकविषये वेदमूलत्वमिति कथनम् तत्र यावद्धर्ममोक्षसंबन्धि, तद्वेदप्रभवम् । यत्त्वर्थसुखविषयं तल्लोकव्यवहार- पूर्वकमिति विवेक्तव्यम् । एषैवेतिहासपुराणयोरप्युपदेशवाक्यानां गतिः । उपाख्यानानि त्वर्थवादेषु व्याख्यातानि । यत्तु पृथिवीविभागकथनं तद्धर्माधर्मसाधनफलोपभोगप्रदेशविवेकाय किंचिद्दर्शनपूर्वकम्, किंचिद्वेदमूलम् । वंशानुक्रमणमपि ब्राह्मणक्षत्रियजातिगोत्रज्ञानार्थं दर्शनस्मरणमूलम् । देशकाल- परिमाणमपि लोकज्योतिःशास्त्रव्यवहारसिद्धयर्थं दर्शनगणितसंप्रदायानुमान- पूर्वकम् । भाविकथनमपि त्वनादिकालप्रवृत्तयुगस्वभावधर्माधर्मानुष्ठानफलविपाक- वैचित्र्यज्ञानद्वारेण वेदमूलम् । शिक्षादीनां वेदमूलकत्वम् अङ्गविद्यानामपि क्रत्वर्थपुरुषार्थप्रतिपादनं लोकवेदपूर्वकत्वेन विवेक्तव्यम् । तत्र शिक्षायां तावद्वर्णकरणस्वरकालादिप्रविभागकथनं तत्प्रत्यक्षपूर्वकम् । यत्तु तथाविज्ञानात्प्रयोगे फलविशेषस्मरणम् । मन्त्रो हीनः स्वरतो वर्णतो वेति च प्रत्यवायस्मृतिः तद्वेदमूलम् ।