भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

२ ] प्रथमाध्याये तृतीयपादः २६७ त्वादक्रियायां प्रत्यवायः, करणे च न भवति । दृष्टं च प्रीतो गुरुरध्यापयिष्यती- त्येवमादि निष्पद्यते । नियमाच्चाविघ्नसमाप्त्यर्थापूर्वसिद्धिः । एवं च "आचाराद् गृह्यमाणेषु तथा स्यादित्यत्र सकृदसकृद्वाऽनुष्ठानमिति विचारो युक्तः। इतरथा तु दृष्टार्थत्ववशेनैवोदकपानादिवदवधारणं स्यात् । यत्तु भाष्यकारेण दृष्टार्थत्वादेव प्रामाण्यमित्युक्तम्, तत् अस्मिन्विषये वार्तिक- मतं पूर्वपक्षवाद्यतिशयार्थम् । एतदुक्तं भवति । यास्तावद्दृष्टार्थाः स्मृतयः ताः कथंचिदप्रमाणीकुर्याद्भूवान्, इमाः पुनर्गुर्व्वनुगमनादिविषयाः कथमिवाप्रमाणं भविष्यन्तीति । सभाप्रपादीनां यद्यपि विशेषश्रुतिर्नैव कल्प्यते, तथाऽपि परोप- कारश्रुत्यैव समस्तानामुपादानात्प्रामाण्यम् । तस्माच्छ्रेयांसमित्यश्वे गर्दभेनानु- गन्तव्ये सिद्धवच्छ्रेयसामूनैरनुगमनं दर्शयति । यथा धन्वनि निरुदके कृताः प्रपाः परेषामुपकुर्वन्त्येवं त्वामिति देवतास्तुतिपरे वाक्ये सिद्धवत्प्रपासद्भावः, तस्याश्च पारार्थ्यं दृश्यते । गोत्रचिह्नं शिखाकर्म । तत्राप्याचारनियमस्यादृष्टार्थत्वान्नैव तावन्मात्रमेव प्रयोजनम् । शक्यं ह्युपायान्तरेणापि गोत्रं स्मर्तुम् । तेनान्य एवाभि- प्रायः । कर्माङ्गभूतं तावच्चतुरवत्तपञ्चावत्तादिविभागसिद्धयर्थमवश्यं स्मर्तव्यं गोत्रम् । अतश्च तच्चिह्नार्थमपि तावच्छिखाकल्पस्मृतेः प्रामाण्यमस्तु । तन्नियमादृष्टस्य त्वेकान्तेनैवानन्यगतित्वात्पुरुषार्थता सेत्स्यतीति । तेन सर्वस्मृतीनां प्रयोजनवती प्रामाण्यसिद्धिः । अलौकिकविषये वेदमूलत्वमिति कथनम् तत्र यावद्धर्ममोक्षसंबन्धि, तद्वेदप्रभवम् । यत्त्वर्थसुखविषयं तल्लोकव्यवहार- पूर्वकमिति विवेक्तव्यम् । एषैवेतिहासपुराणयोरप्युपदेशवाक्यानां गतिः । उपाख्यानानि त्वर्थवादेषु व्याख्यातानि । यत्तु पृथिवीविभागकथनं तद्धर्माधर्मसाधनफलोपभोगप्रदेशविवेकाय किंचिद्दर्शनपूर्वकम्, किंचिद्वेदमूलम् । वंशानुक्रमणमपि ब्राह्मणक्षत्रियजातिगोत्रज्ञानार्थं दर्शनस्मरणमूलम् । देशकाल- परिमाणमपि लोकज्योतिःशास्त्रव्यवहारसिद्धयर्थं दर्शनगणितसंप्रदायानुमान- पूर्वकम् । भाविकथनमपि त्वनादिकालप्रवृत्तयुगस्वभावधर्माधर्मानुष्ठानफलविपाक- वैचित्र्यज्ञानद्वारेण वेदमूलम् । शिक्षादीनां वेदमूलकत्वम् अङ्गविद्यानामपि क्रत्वर्थपुरुषार्थप्रतिपादनं लोकवेदपूर्वकत्वेन विवेक्तव्यम् । तत्र शिक्षायां तावद्वर्णकरणस्वरकालादिप्रविभागकथनं तत्प्रत्यक्षपूर्वकम् । यत्तु तथाविज्ञानात्प्रयोगे फलविशेषस्मरणम् । मन्त्रो हीनः स्वरतो वर्णतो वेति च प्रत्यवायस्मृतिः तद्वेदमूलम् ।

२६८ मीमांसादर्शनम् [ सू० एवं कल्पसूत्रेष्वर्थवादादिमिश्रशाखान्तरविप्रकीर्णन्यायलभ्यविध्युपसंहारफल- मर्थनिरूपणं तत्तत्प्रमाणमङ्गीकृतम् । लोकव्यवहारपूर्वकाश्च केचिदृत्विगादिव्यव- हाराः सुखार्थहेतुत्वेनाऽऽश्रिताः । व्याकरणेऽपि शब्दापशब्दविभागज्ञानं साक्षाद्वृक्षादिविभागवत्प्रत्यक्षनिमि- त्तम् । साधुशब्दप्रयोगात्फलसिद्धिरपशब्देन तु फलवैगुण्यं भवतीति वैदिकम् । छन्दोविचित्यामपि गायत्र्यादिविवेको लोकवेदयोः पूर्ववदेव प्रत्यक्षः । तज्ज्ञानपूर्वकप्रयोगात्तु फलमिति श्रौतम् । तथा चानिष्टं श्रूयते यो ह वाऽविदिता- र्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण यजति, याजयति वेत्यादि । ज्योतिःशास्त्रेऽपि युगपरिवर्तपरिमाणद्वारेण चन्द्रादित्यादिगतिविभागेन तिथिनक्षत्रज्ञानमविच्छिन्नसंप्रदायगणितानुमानमूलं ग्रहसौस्थ्यदौस्थ्यनिमित्तपूर्व- कृतशुभाशुभकर्मफलविपाकसूचनं तद्गतशान्त्यादिविधानद्वारेण वेदमूलम् । एतेन सामुद्रवास्तुविद्यापि व्याख्यातम् । ईदृशा वा विधयः सर्वत्रानुमातव्याः । ईदृशे गृहशरीरादिसंनिवेशे सत्येतदेतच्च प्रतिपत्तव्यमिति । मीमांसा तु लोकादेव प्रत्यक्षानुमानादिभिरविच्छिन्नसंप्रदायपण्डितव्यवहारैः प्रवृत्ता । न हि कश्चिदपि प्रथममेतावन्तं युक्तिकलापमुपसंहर्तुं क्षमः । एतेन न्यायविस्तरं व्याचक्षीत ॥ विषयो वेदवाक्यानां पदार्थैः प्रतिपाद्यते । ते च जात्यादिभेदेन संकीर्णा लोकवर्त्मनि ॥ १८ । स्वलक्षणविविक्तैस्तैः प्रत्यक्षादिभिरञ्जसा । परीक्षकार्पितैः शक्याः प्रविवेक्तुं न तु स्वतः ॥ १९ । वेदोऽपि विप्रकीर्णात्मा प्रत्यक्षाद्यवधारितः । स्वार्थं साधयतीत्येवं ज्ञेयास्ते न्यायविस्तरात् ॥ २० । तथा च मानवेऽप्यभिहितम्- प्रत्यक्षमनुमानं च शाब्दं च विविधागमम् । त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सताम् ॥ तथा-यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥ इत्यादिभिस्तर्कविशुद्धिराश्रिता । प्रायेण च मनुष्याणामधर्मभूयिष्ठत्वात्तज्ज्ञानप्रतिबद्धाः प्रतिभास्तेषु तेषु कुमार्गेषु प्रवर्तन्ते । तत्र लोकार्थवादोपनिषत्प्रसूतैस्तर्कशास्त्रैः सर्वविप्रतिपत्तिमुख- प्रदर्शनम् । तदुपपत्तयस्तद्बलाबलपूर्वकं च निश्चयद्वारं कथ्यते । अन्यथा पुनः-

१ ] प्रथमाध्याये तृतीयपादः २६९ प्रतिभान्त्यः त्वयं पुंसामपूर्वा ह्युपपत्तयः । भ्रान्ति बहुमताः सत्यः कुर्युरज्ञानबोधनात् ॥ २१ ॥ जगत्सृष्टिप्रलयादिज्ञानं वेदपूर्वकमेवेति वार्तिकमतस्योपसंहारः । सर्वासु तु प्रदर्शितासु स्वातन्त्र्येण विशोधयन्तः काश्चिदुत्सृज्यान्याः प्रमाणी- करिष्यन्ति । यदपि च नित्यानित्यपृथक्त्वैकत्वसामान्यविशेषव्यतिरेकाद्येकान्त- प्रतिपादनं तदपि पक्षपातादृतेऽन्यतरांशनिरूपणाशक्तेः । अवश्यं च सर्वात्मकवस्तु- युगपद्ग्रहणासम्भवात्तद्भागोपनिपातिपदविषयविवेकर्थमेकैकनिरूपणमादरेण कर्त- व्यम् । अन्यथा येऽनवाप्तसामान्यविशेषाद्युपपत्तयः पुरुषाः ते पदप्रतिपाद्यं निष्कृष्टं वस्तुभागं लोकमात्रालोचनेन नैवाध्यवस्येयुः । मन्त्रार्थवादोपात्ताश्च स्तुतिनिन्दा- स्तत्तन्नित्यानित्यैकपृथक्त्वैकान्तमाश्रित्य तत्र तत्र विधिप्रतिषेधाङ्गत्वेन प्रवर्त- मानाः पक्षपातप्रतिपादितवस्तुधर्मवैचित्र्यादृते निरालम्बनाः स्यु । याश्चैताः प्रधानपुरुषेश्वरपरमाणुकारणादिप्रक्रियाः सृष्टिप्रलयादिरूपेण प्रती- तास्ताः सर्वा मन्त्रार्थवादज्ञानादेव दृश्यमानसूक्ष्मस्थूलद्रव्यप्रकृतिविकारभावदर्शनेन च द्रष्टव्याः। प्रयोजनं च स्वर्गयागाद्युत्पाद्योत्पादकविभागज्ञानम्। सर्गप्रलयोपवर्णन- मपि दैवपुरुषकारप्रभावप्रविभागदर्शनार्थम् । सर्वत्र हि तद्बलेन प्रवर्तते, तदुपरमे चोपरमतीति विज्ञानमात्रक्षणभङ्गनैरात्म्यादिवादानामप्युपनिषदर्थवादप्रभवत्वं विषयेष्वात्यन्तिकं रागं निवर्तयितुमित्युपपन्नं सर्वेषां प्रामाण्यम् । सर्वत्र च यत्र कालान्तरफलत्वादिदानीमनुभवासंभवस्तत्र श्रुतिमूलता । सांदृष्टिकफले तु वृश्चिक- विद्यादौ पुरुषान्तरे व्यवहारदर्शनादेव प्रामाण्यमिति विवेकसिद्धिः ॥ २ ॥ ( इति वार्तिकमतेन स्मृत्याचारप्रामाण्याधिकरणम् ॥ १ ॥ ) न्या० सु० — अत्र भाष्यकारेण प्रमाणं स्मृतिरिति सौत्रं प्रमाणशब्दं सिद्धान्तप्रतिज्ञा- नार्थत्वेन व्याख्याय, विज्ञानं हि तत्किमित्यन्यथा भविष्यतीति करणव्युत्पन्नेन विज्ञानशब्देन विज्ञानोत्पादकत्वं हेतुत्वेनोक्तं तद्व्याचष्टे— सर्वथेति । पक्षद्वयेऽपि विज्ञानोत्पादकत्वं तावदविप्रतिपन्नमिति हेतुत्वोपपत्त्यर्थं दर्शयितुम्— सर्वथेत्युक्तम् । मन्वादिस्थानां स्मरणानां पुरुषान्तरं प्रति ज्ञानोत्पादकत्वाभावमाशङ्क्य, निबन्धनद्वारेण ज्ञानोत्पादकत्वं सूचयितुम् — सन्निबन्धना इत्युक्तम् । विद्यमाननिबन्धना इत्यर्थः । शोभनार्थेन वा सच्छब्देन साधुनि- बन्धनत्वाभिधानादसाधुशब्दभूयिष्ठनिबन्धनत्वेन शाक्यादिवन्निबन्धनान्मन्वादेरप्रत्ययितत्वानुमानं प्रत्युक्तम् । स्मृतिशब्दस्य धर्मशास्त्रेष्वेव प्रसिद्धत्वात्पुराणादीनां प्रामाण्यमिह न प्रतिपाद्यत इति कस्यचिच्छङ्का स्यात्तन्निवृत्त्यर्थं वेदातिरिक्तसमस्तविद्यास्थानविषयत्वं दर्शयितुम् — शेषाणि च विद्यास्थानानि । इत्युक्तं भाष्यकारेण ‘पूर्वविज्ञानस्य नास्ति कारणाभावादिति कारणाभावेन स्मृतिमूलभूतविज्ञानामावमप्रामाण्यहेतुं पूर्वपक्षोक्तमनुभाष्य तन्निराकरणार्थत्वे- नानुमानं स्यादिति सूत्रावयवो अस्या एव स्मृतेरित्यादिना ग्रन्थस्त्वनुमीयत इत्यन्तेन

२७० मीमांसादर्शनम् [ सू० व्याख्यातः, तदुपपादयितुमाह मन्वादीनां चेति । प्रत्यक्षत्वे मन्वादीनां तत्स्मृतिमूलविज्ञान- मूलस्य द्रष्टुं शक्यत्वाददृष्टकल्पनानुपपत्ते रप्रत्यक्षत्वादित्युक्तम् । ननु कल्पनानामादृष्टं विज्ञानकारणं अतत्तु चोदनाख्यमेवेति कथमध्यवसीयतेऽत आह - तत्रेति । श्लोकं व्याचष्टे—सर्वत्रैवेति । भ्रान्तेस्तावद् दृष्टानुगुण्येनसाध्यत्वमाह—तत्रेति । सम्यङ्‌निबद्धाच्छास्त्राद्यष्टकादीनां धर्मत्वदर्शनं तद्विरोधापत्तिरित्यर्थः । मन्वादीनामिति कर्त्तरि षष्ठी । स्मृतिग्रन्थग्राहिणः पुरुषात्प्रति स्वज्ञानस्य भ्रान्तस्यापि भ्रान्तत्वपरिहारोपन्यासो मन्वादिकर्त्तृकः कल्प्यत इति शेषः । अनुभवस्याह—अनुभवेऽपीति । पुंवाक्यस्याह— पुष्येति । विप्रलम्भनस्याह -तथेति । अनुवृत्तिहेतोर्भ्रान्तत्वपरिहारोपन्यासस्या दिशब्देनो- पादानं विप्रलम्भे न केवलमनेकादृष्टकल्पनाप्रसङ्गः किं तु दृष्टप्रामाण्यविरोधोऽपीत्याह— उत्पन्नस्य चेति । चोदनायास्तु दृष्टानुगुण्येन साध्यत्वाज्ज्यायसी कल्पनेत्याह – तस्मादिति । ननु चोदनाकल्पने दृष्टानुगुण्यसाध्यत्वस्य हेतुत्वे, कर्तृसामान्यादिति सौत्रं हेत्वभिधानम- नर्थकं स्यादित्याशङ्क्य सम्भावनामात्रेऽसौ हेतुनं निर्णायक इति सूचयितुं मन्वादीनां विज्ञानस्य चोदनामूलत्वसम्भावना माह— सम्भाव्यते चेति । एतमेवार्थं वक्ष्यमाणभाष्यारूढं करोति—तदर्थमेवाहेति । नन्वेवमप्यनेनैव हेतुना चोदनामूलनिर्णये सिद्धे किमसाधकेन सम्भावनामात्रहेतुनेत्याशङ्क्य म्लेच्छस्मृतिवैषम्यप्रदर्शनांर्थः सम्भावनाहेतूपन्यास इति सूचयितुं म्लेच्छाद्यंस्मृत्योर्वैषम्यमाह - यानि पुनरिति । अनुभवपुंवाक्यपरम्परयोमिथ्यात्व- हेतुतामापाद्य चतुष्ट्योक्तिः । प्रत्यक्षानुपलब्धे चेति श्लोकोक्तं योग्यानुपलम्भविरोधं परिहर्तुमनुभाषते — यत्त्विति । परेषां परिहारं दूषयितुमुपन्यस्यति - तत्रेति । अनुच्चरितानामज्ञातत्वेनाबोधकत्वान्मूलत्वानु- पपत्तिमाशङ्कते—कथमिति । मन्वादिभिरप्यस्मदादिवत्पूर्वाचार्यस्मरणान्यथानुपपत्त्यानुच्च- रितानामपि ज्ञातुं शक्यत्वान्मूलत्वोपपत्तिरिति परिहरति — नैष इति । पूर्वाचार्याणामपि चोदनोपलम्भं विना कुतः स्मरणमित्याशङ्क्य पारम्पर्येणेत्युक्तम् । एवं सत्यनवस्थापत्ति- माशङ्क्य पाठाविच्छेदवदित्युक्तम् । एकपुरुषपाठस्या विश्रम्भणीयत्वेन चोदनायाथात्म्य- निश्चायकत्वायोगात्पारम्पर्याविच्छेदेनैव निश्चायकत्वमङ्गीकार्यमनादित्वाच्चानवस्थादोषाभावः तद्वदत्रापीत्याशयः । एतदेव विवृणोति—यथैव हीति । प्रतिस्मर्तृपूर्वपूर्वाचार्यस्मरणान्यथानु- पपत्त्या श्रुतिज्ञानम्, तथैव प्रतिज्ञायेत्यर्थः । इमं परिहारं दूषयति - तत्त्विति । अयमाशयः :- यद्यप्यष्टकादिकर्त्तव्यत्वस्मरणस्य पूर्वविज्ञानायत्तत्वात्तस्य च श्रुतिज्ञानं विनानुपपत्तेर्मन्वादीनां श्रुतिज्ञानं कल्प्यते, तथाप्य- नुच्चरितानां प्रत्यक्षत्वायोगाद्व्याप्त्याद्यभावेन चानुमानाद्यप्रवृत्तेर्मूलप्रमाणासम्भवात्स्वप्ना- दिमूलापत्तेर्न श्रुत्यस्तित्वनिश्चयोपपत्तिरिति । दृष्टान्तवैषम्यमाह--लिङ्गादीनां त्विति । स्मृतेरनित्यत्वेन पूर्वज्ञानापेक्षात्वात्तस्य चानुच्चरितश्रुतिज्ञानासम्भावेनानुपपत्तेः पारिशे- ष्याद् भ्रान्त्यादिमूलत्वापत्तिसूचनार्थं लिङ्गादीनां नित्यत्वाभिधानम् ।

परिहारान्तरमाह—तेनेति । नित्यत्वव्याघातापत्तेरत्राप्यपरितोषसूचनार्थं वरमि- त्युक्तम् । अध्येतृपरम्पराविच्छेदाभावात्प्रलयानुपपत्तिमाशङ्कयाह—न चेति । अन्यत्रासक्तिः प्रमादः तत्रानासक्तिरालस्यम् आदिशब्देन विघ्नयोगादिभिरव्यापकपुरुषक्षयाच्च स्वल्पो वेदाध्येतॄणां विषयो दृश्यत इत्यर्थः । सत्रीजत्वायास्य पक्षस्य पूर्वोक्तं दोषं परिहरति— न चेति । स्वमतमाह—यद्वेति । अस्मिन्मतेऽनुपलब्धिविरोधं परिहर्तुमनुभाषते—कथमिति । परिहति—उच्यत इति । नानादेशपाठ्यमानानां शाखानां प्रमादिभिः पुरुषैस्तद्देशागमनाच्छ्रो- तुमशक्तेस्तद्गतश्रुत्यनुपलब्धिसंभवः । एकशाखागतानामपि श्रुतीनां नानाप्रकरणस्थानां तत्तत् कर्तृधर्मत्वबोधेन पुरुषधर्मत्वस्य प्रमादिभिर्निर्णतुमशक्तेः स्मृतिमूलत्वनिरूपणानुपलब्धि- सम्भव इत्यर्थः । स्मर्त्तव्यासम्मरणस्याभावसाधनत्वेनोपन्यस्तस्य विस्मरणमप्युपपद्यत इति भाष्ये निराकरिष्यमाणत्वात्तदुपेश्य समर्पणीयासम्पर्पणमभावसाधनत्वेनोपन्यस्तं निराकर्त्तुमनु- भाषते—यत्त्विति । निराकरोति — सम्प्रदायेति । समर्पणंः सम्प्रदायविनाशापत्तिमुपपा- दयति—विशिष्टेति । यस्य व्रत्येऽहनि पत्न्यनालम्भुका स्यात्तामपध्वध्य यजेते [तै. सं. २-५-] त्यवरोधवचन!दर्शपूर्णमासयो रुदक्या संवादाप्रसक्तेनं मलवद्वाससा सह संवदेदिति प्रतिषेधः प्रकरणादुत्कृष्यते । ब्राह्मणावगोरणप्रतिषेधस्य ऋत्विगानामागानार्थं प्रसक्तावपि (देवा वै यज्ञस्य स्वगाकर्त्तारं नाविन्दन् ते शंयुं बार्हस्पत्यमब्रुवन्निमनो यज्ञं स्वगाकुर्विति सोऽब्रवोद्वरं वृणै ये देवा ब्राह्मणोक्तो श्रद्दधानो यजातै सनियज्ञस्याशीरसदिति, तस्माद् ब्राह्मणोक्तो श्रद्दधानो यजते शंयुमेव बार्हस्पत्यं यज्ञस्याशीर्गच्छत्येतन्ममेत्यब्रवीत्किं में प्रजाया इति, योऽवगुरा॑त, तं शतेन यातयाद्योनि हनत्ससहस्रेण यातयाद्यो लोहितं करवद्यावतः प्रस्कद्य पाᳵसू.न्संगृह्णात्तावतः संवत्सरान् पितृलोकं न प्रजानादिति तस्माद् ब्राह्मणो नावगुरेत्तेन निहन्यान्न लोहितं कुर्यादेतावता हैनसा भवति इत्याद्यर्थवादात्सर्वेभ्यो वरदानागवतेरवगोरण- प्रतिषेधस्य ब्राह्मणमात्रविषयत्वावसायात्प्रकरणादुत्कर्षः—कर्मोपयिकमात्रं वेति । येन यत्कर्मानुतिष्ठासितं स तदौपयिकमात्रमधीयीतेत्यर्थः । स्वयमपठितत्वादप्यसमर्पणमुपपद्यत इत्याह — न चेति । स्वयमपठितायाः श्रुतेः कथं मूलत्वमित्याशङ्कयाह ते हीति । यत्त्वसमर्पणे मूलविशेषस्य निर्णतुमशक्यत्वादवश्यं समर्पणीयत्वमुक्तं तन्निराकरोत—न चेति । असिद्धं चासमर्पणम्, सामान्येन वेदमूल- त्वस्य समर्पितत्वादित्याह—अपि चेति । आत्मा वेदमूलाभिधायितया बन्ध्वा नियम्य समर्पित इत्यर्थः । यत्तु वेदमूलत्वाभिधानस्य लोकवञ्चनार्थत्वशङ्कया मूलसमर्पणासामर्थ्यमुक्तम्, तन्निराकरोति—तच्चैतदिति । यथैव शिष्टत्रैवर्णिकदृढपरिग्रहान्यथानुपपत्त्या मन्वादीनां श्रुतिददर्शनं कल्प्यते, तथैव तत्कालीनानां तद्ग्रन्थपरिग्रहीतॄणामपि तत्कल्प्यमित्याशयः । सिद्धान्तमुपसंहरति—अत इति । एवं स्वमतेन दृष्टानुसाराद् दृष्टकल्पनालाघवं तर्कोपबृंहित- शिष्टत्रैवर्णिकदृढपरिग्रहान्यथानुपपत्तिप्रसवयार्थापत्त्या वेदमूलत्वकल्पनेन स्मृतिप्रामाण्यं साधितम् । कर्तृसामान्यं तु चोदनामूलत्वसम्भावनहेतुत्वेन व्याख्यातम् ।

अन्यैस्तु व्याख्यातृभिः साक्षात् प्रामाण्यानुमाने वेदमूलत्वानुमाने वा लिङ्गत्वेन कर्तृसा- मान्यं व्याख्यातम् । मन्वादिस्मृतिः प्रमाणम् । वेदार्थानुष्ठातृभिरनुष्ठीयमानार्थत्वात् वेदवत्, वेदमूला वा वेदवादिस्मृतित्वात्प्रत्यक्षवेदार्थस्मृतिवत् स्मृत्यर्थो वा श्रेयोहेतुर्वेदमूलो वा वेदार्थानुष्ठातृभिरनुष्ठीयमानत्वात् । प्रत्यक्षवेदार्थवदिति दूषयितुमुपन्यस्यति—यस्त्विति । स्वतन्त्रशब्देन सम्भावनानैर- पेक्ष्यमुक्तम् । दूषयति—तस्येति । अनुमानस्य स्मृत्याचारयोस्तुल्यत्वाद्राचारग्रहणेन स्मृति- मप्युपलक्षयति । पठ्यमानस्य तावद्वेदवाक्यस्य श्रूयमाणस्यैव श्रोतॄन्प्रति प्रमाजनकत्वम् अश्रोतुः प्रमानुपपत्तेर्लिङ्गादिकल्प्यस्यापि श्रूयमाणमन्त्रादिश्रुत्यधीनमेव प्रामाण्यं दृष्टमित्य- व्यभिचारान्मन्वादिस्मृतेरपि श्रूयमाणश्रुत्यधीनमेवास्मदादीन्प्रति प्रामाण्यं प्रसज्येतेति साध्यधर्मविशेषविपरीतसाधनाद्विरुद्धत्वम् । न च मन्वादिभिः श्रूयमाणत्वासिद्ध साध्य- ताशङ्का तान्प्रति स्मृतेः प्रामाण्याभावात् प्रत्यक्षवेदार्थस्मृतौ चैवमेव, वेदवादिस्मृतित्वस्य श्रूयमाणश्रुतिमूलत्वलक्षणेन श्रुत्यधीनत्वेन सह व्याप्तेरुपलब्धे धर्मविशेषविपरीतसाधनत्वम् । तदा च श्रूयमाणश्रुत्यधीनत्वापत्तेविरुद्धतेति योज्यम् । कथं तर्हि सूत्रभाष्ययोरनुमानशब्दः ? अत आह—तस्मादिति । एवमस्या एवेत्यादि- भाष्योक्तं चोदनाकल्पनमुपपाद्यैतदेव भाष्यमवयवशो व्याचष्टे—अस्या एवेति । द्रढिम्न इति पञ्चमी, षष्ठी वेत्यर्थः । कारणविशेषाकाङ्क्षायामनुपपत्तिमनुभवस्य कारणमुक्त्वा, न हीत्यादि- भाष्येणानुपपत्तिरुपपादिता । तत्र मनुष्यग्रहणस्य कर्मफलसम्बन्धानुसन्धानासम्भवकारणमरण- धर्मकत्वप्रदर्शनम् अस्मिंश्च जन्मनि विश्वजिन्यायावगतां विमिश्रसुखात्मकस्वर्गाष्ट्याद्यादिक- लोपभोगस्य मनुष्यशरीरेणासम्भवप्रदर्शनं प्रयोजनमिति च दर्शयितुं व्याचष्टे—न हीति । जन्मान्तरीयस्य कस्यचिदर्थस्यास्मरणान्निःशेषस्मृतिबीजसंस्कारनाशकत्वं मरणस्याऽऽसी- यते । जातमात्रस्य तु स्तन्यपाने प्रवृत्तिर्यादृच्छिकी प्रथमस्त्रीभोगप्रवृत्तिवत् । किं तर्हि कारणमनुमीयते ? इत्यपेक्षिते ग्रन्थस्त्वनुमीयत इत्युक्त्वा, सौत्रहेतुव्याख्यानार्थकंर्तृसामान्या- त्समृतिवैदिकपदार्थयोरिति भाष्यकृतोक्तं तद्वेदानुमाने कर्तृसामान्यस्य हेतुत्वं दर्शयतीति भ्रान्तिं व्यावर्तयितुमाह—स्मृतीति । मन्वादीनां वेदसंयोगोपपत्त्यर्थं त्रैवर्णिकत्वं विशेषणत्वेनोपात्तमुपपादयितुं (स्मृति- वैदिकपदार्थयोः कर्तृसामान्यादित्युकम् । पदार्थशब्दः स्मृतिशब्देन स्मृतेः पदार्थ इति वैय- धिकरण्येन संबद्ध्यते वैदिकशब्देन सामानाधिकरण्येन) वैदिकपदार्थकर्तृभिस्त्रैवर्णिकैः स्मा- र्तानां पदार्थानां क्रियमाणत्वात्तेषां चात्रैवर्णिकोक्तपदार्थाननुष्ठातृत्वस्वभावदर्शनात्स्मृतिप्रणे- तॄणां त्रैवर्णिकत्वं कल्प्यत इत्यर्थः । यद्वा स्मृतिकर्तॄणां मन्वादीनां वैदिकपदार्थंकर्तॄणां चेदानीन्तनानां शिष्टानां त्रैवार्णि- कत्वेन समानत्वाद्विदानीन्तनवन्मन्वादीनामप्युपपन्नो वेदसंयोग इत्यर्थः । सम्भवद्वेदसंयोगत्व- प्रतिपादनप्रयोजनं च चोदनाख्यस्य मूलस्य सम्भावनापदलाभ इति—चोदनेत्यनेनोक्तम् । नन्विति भाष्येणानुपलब्धिविरोधाच्चोदनाकल्पनानुपपत्तिमाशङ्क्यानुपलभ्यमानोऽपीत्यनेन विप्र-

० २ ] प्रथमाध्याये तृतीयपादः २७१ कीर्णशाखानेकप्रकरणस्थत्वेनोपलब्धियोग्यत्वेऽनुपलब्धिमात्रस्य चाभावासाधनत्वादविरोध- मुक्त्वो विस्मरणमप्युपपद्यत इत्युक्तं तत्प्रलीनत्वनिमित्तानुपलम्भप्रतिपादनपरत्वेन तावत्सो- पपत्तिकं व्याचष्टे—विस्मरणमपीति । नित्यत्वव्याघातापत्तेस्त्वेतत्—पक्षापरितोषाद्द्वितीयमा- नशाखामूलत्वपक्ष एव स्मर्त्तव्यास्मरणात्तदभावमाशङ्क्य सामान्यतो वेदमूलत्वस्याभियुक्तैः स्मरणाद्द्विज्ञेयस्य त्वनौपयिकत्वेनावश्यस्मर्त्तव्यत्वाभावादस्मरणमात्रस्य चाभावासाधकत्वांद- विरोधप्रतिपादनपरतया स्वमतेन व्याचष्टे—यदा त्विति । तदुपपन्नत्वादित्युपसंहारभाष्यं मन्वादीनां त्रैवर्णिकत्वेन सम्भवद्वेदसंयोगतया पूर्वंविज्ञानापत्तेरिदानीन्तनानां च त्रैवार्ण- कानां स्मृतिमूलविशेषास्मरणस्यानुपलम्भस्य चोपपन्नत्वेनाभावासाधकत्वाद् ग्रन्थानुमाना- विरोधोपसंहारार्थंतया स्पष्टत्वान्न व्याख्यातम् । स्मृतिप्रामाण्ये लिङ्गदर्शनstateन्युपन्यस्याष्टकालिङ्गो मन्त्रो भाष्यकृतोदाहृतः— 'यां जनाः प्रतिनन्दन्ति रात्रिधेनुमिवायतीम् । संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली ॥ अष्टकायै सुराधसे स्वाहेति । तस्याष्टकादेवताप्रतिप्रकाशकत्वादेषा वै संवत्सरस्य पत्नी यदष्टकेति संवत्सरपत्नीं त्वसंस्तुत्याष्टकाप्रकाशकत्वाच्चाष्टकालिङ्गत्वं स्पष्टमेवेति, तदपि न व्याख्यातम् । तथेति भाष्यं व्याचष्टे—तथेति । आक्षिपति—एतदिति । श्लोकं व्याचष्टे—न हीति । ननु धर्मप्रामाण्यमेवानेन प्रकारेणोक्तमिति शङ्कते—स्यादेतदिति । निराकरोति—तथा सतीति । वेदमूलत्वानिराकरणार्थंस्तर्हि दृष्टार्थत्वोपन्यासो भविष्यतीत्यत आह—न चेति । वैदिकेष्वपि च सर्वत्र दृष्टार्थत्वस्योत्प्रेक्षितुम् शक्यत्वान्न तेनावैदिकत्वसिद्धिरित्याह—सर्वत्र चेति । लोकपंक्तिः—लोकोपसंग्रहः, तदुत्पादकत्वरूपदानादेहंदृष्टार्थताध्यापनादेः शिष्यादि- सहायोपादानोत्पादकत्वरूपा सवनस्यक्षत्रियवैश्यवधे ब्रह्महत्येति यागस्याहमरक्षणोत्पादकत्व- रूपा कुटुम्बभरणस्य प्रीत्युत्पादकत्वरूपेत्यर्थः । पारमाधिक्यपि दृष्टार्थता नावैदिकत्वसाधि- केत्याह--न चेति । दृष्टार्थत्वस्य वेदमूलत्वाविरोधित्वमुक्तमुपसंहरति—तस्मादिति । भवत्ववघातादीनां नियमाद्दृष्टार्थत्वाद्वेदमूलत्वं गुर्वंनुगमनादीनां तु कथमित्या- शङ्क्याह—अतश्चेति । निष्पन्नविद्यैरप्यनुष्ठीयमानस्य गुर्वंनुगमनादेहंदृष्टार्थत्वायोगादवश्य- कर्त्तव्यतान्यथानुपपत्तेरकरणनिमित्तप्रत्यवायपरिहार्यत्वावसायात्, तस्य चानन्यप्रमाणकत्वा- द्वेदमूलत्वसिद्धिरित्याशयः । यत्तु दृष्टार्थत्वं भाष्यकृतोक्तम्, तदानुषङ्गिकमित्याह—दृष्टं चेति । निष्पद्यत इत्यनेनानु- षङ्गिकत्वं दर्शितम् । दृष्टार्थत्वेऽपि वा नियमस्याहृष्टार्थत्वाद्वेदमूलत्वं सेत्स्यतीत्यभिप्रायेणाह-- नियमाश्चेति । षष्ठे च सकृदसकृदनुष्ठानविचारात्सूत्रकारस्यापि केवलदृष्टार्थत्वाभिप्रायो लक्ष्यत इत्याह-एवं चेति । गुरुगमनावृत्तौ तदनुगमनमावर्त्तनीयं न वेति सन्दिह्य गुरुगमनस्य निमित्तत्वाभावेऽपि, तदभावेऽनुगमनस्यासम्भवात् कालेऽनुष्ठेयत्वोपपत्तेर्निमित्तत्वे प्रमाणा- १८

२७४ मीमांसादर्शनम् [ सू० भावात्सकृदनुष्ठानेन शास्त्रार्थसिद्धेरनावृत्तिप्राप्तौ, वक्ष्यते आचारानुमितस्य विधेरधिकारि- विशेषणापेक्षायामावश्यकत्वोपपत्तये गुरुगमनस्य निमित्तत्वेनाधिकारिविशेषणत्वाव- सायाद् भेदेन होमादिवन्नैमित्तिकत्वाद् गुर्वनुगमनस्याप्यावृत्तिः सिद्धा । कथं तर्हि दृष्टार्थत्वादेवेत्येवकारः अत आह—यस्त्विति । तथा चेति गुर्वनुगमनलिङ्गदर्शनभाष्यं तावदतिक्रम्य प्रपा इति भाष्यं न धर्मयेत्यदृष्टार्थत्वनिषेधेन प्रपादेर्गुर्वनुगमनादिवत् केवल- दृष्टार्थत्वप्रतिपादकत्वेन बुद्धिसत्त्वाद्व्याचष्टे—सर्भेति । प्रपादिष्वपि स्मृत्यनुरूपानकश्रुति- कल्पनौचित्यात् पूर्वंभाष्यपदस्याप्यतिशयार्थत्वसूचनार्थं — यद्यपीत्युक्तम् । परोपकारश्रुतेः सर्वसाधारण्यप्रदर्शनार्थं समस्तग्रहणम् । अतिक्रान्तलिङ्गदर्शनं व्याचष्टे—तस्मादिति । प्रपालिङ्गमपि स्तुतिपरं मन्त्रावयवं व्याचष्टे—यथेति । 'स्थल्योदकम्परिगृह्णन्ती'ति जान- पदकुण्डगोणस्थलेत्यादिसूत्रेणाकृत्रिमे स्थले ङीष्प्रत्ययविधानात्कृत्रिमे टाप्प्रत्ययानपवादप्रतीतेः स्थलाद्भाष्ट्रस्य कृत्रिमतीरवाचित्वात्तडागलिङ्गं स्पष्टत्वान्न व्याख्यातम् । शिखाकर्मणो दृष्टार्थत्वप्रतिपादकं गोत्रचिह्नमपि भाष्यमतिशयार्थमेवेति व्याचष्टे— गोत्रेति । चतुरवत्तस्य सामान्येन विहितस्य पञ्चावत्तं भृगूणामित्यपवादाच्चतुरपञ्चावत्तविभागं कर्माङ्गम् । वशिष्ठशुनकात्रिवाभ्रघवश्वानां नाराशंसो द्वितीयः प्रयाजः तनूनपादन्येषामिति [आप० श्रौ० सू०] द्वितीयप्रयाजविभागः तामिर्यंन्थर्ष्याणीत्यादित्याप्रासूक्तविभागश्चादि- शब्दोपात्तः । तदुपयोगित्वादौपचारिकी गोत्रस्य कर्माङ्गभूततोक्ता । तस्याश्चार्षसंख्याशिखा- विधानाच्छिखाकत्वस्त्रिशिखपञ्चशिखत्वादिरूपश्चिह्नमिति दर्शनं चेति भाष्यं कुमारा विशिखा नानाशिखत्वद्योतकशिखाकर्मलिङ्गदर्शनप्रतिपादनाथंतया स्पष्टत्वान्न व्याख्यातम् । तेनेत्युपसंहारभाष्यस्य तात्पर्यं व्याचष्टे—तेनेति । यद्यप्यत्र वेदमूलतया स्मृतीनां धर्मप्रामाण्यं प्रतिपाद्यम्, तथाप्यर्थकामविषयासु प्रमाणान्तरमूलत्वेन प्रामाण्योपपत्तेस्तत्प्रणेतॄणामाप्तत्वाव- धारणाददृष्टविषयासु वेदमूलत्वं सुकल्प्यमिति दर्शयितुं सामान्यतः प्रयोजनत्वाभिधानम् । अदृष्टार्थस्मृतिप्रामाण्यं प्राधान्येनेह प्रतिपाद्यमिति सूचयितुं व्युत्क्रमेण विवेककथनम् । धर्म- विशेषस्यापि मोक्षस्य ब्राह्मणपरिव्राजकवद्भेदैनोपादानम् । भाष्ये तु कर्मव्युत्पत्त्या पदार्थ- प्रामाण्याभिधानम् । अनेन च भाष्येण वेदातिरिक्तसकलविद्यास्थानप्रतिपाद्यानां पदार्थानां दृष्टादृष्टप्रयोजन- भेदेन मूलविवेककथनं कृतमिति दर्शयितुं पुराणेतिहासगतेषु दृष्टादृष्टोपदेशवाक्येषु तावद्धर्म- शास्त्रोक्तं विवेकमतिदिशति — तथैवेति । ननूपाख्यानासत्यत्वेनेतिहासपुराणप्रणेतॄणाम- नाप्तत्वावसायात्तत्क्रमत्रोपदेशवाक्यानां मूलप्रमाणकल्पनमित्याशङ्कयाह — उपाख्यानानि स्त्विति । तेषामप्यर्थवादन्यायेन प्रयोजनत्वं प्रामाण्यं चोक्तमित्यर्थः । पृथिवीविभागकथनस्य कथं प्रयोजनत्वप्रामाण्ययोः सिद्धिरित्यपेक्षायाह—यस्त्विति । धर्माधर्मसाधनप्रदेशो जम्बूद्वीपस्य मारतवर्षम् । तत्कथनं दर्शनपूर्वकं तदतिरिक्तफलोपभोग- प्रदेशकथनम् । भारतवर्षस्य च धर्माधर्मसाधनत्वं वेदमूलम् । वंशानुक्रमणस्य प्रयोजनं मूलं चाह — वंशेति ।

३ ] प्रथमाध्याये तृतीयपादः २७५ तिर्यंग्यवोदराण्यष्टावूर्ध्वा वा व्रीहयस्त्रयः । प्रमाणमङ्गुलस्योक्तं वितस्तिर्द्वादशाङ्गुला ॥ हस्तो वितस्तिद्वितयं दण्डो हस्तचतुष्टयम् । तत्सहस्रद्वयं क्रोशो योजनं तच्चतुष्टयम् ॥ इतिदेशपरिमाणम्, निमेषकाष्ठाकलामुहूर्त्ताहोरात्रमासवर्षभेदेन च कालपरिमाणं लोक- व्यवहारसिद्धयर्थम्, ज्योतिःशास्त्रव्यवहारसिद्धयर्थं च दर्शितपूर्वकम् । चन्द्रसूर्यान्तरालादि- देशपरिमाणम्, युगादिकालपरिमाणं च ज्योतिःशास्त्रव्यवहारसिद्धयर्थं गणितविषयसम्प्रदा- योत्थानुमानपूर्वकमित्याह — देशेति । कलावधर्मभूयिष्ठाः सर्वे भविष्यन्त्यल्पीयसापि धर्मेण भूयानभ्युदयो भविष्यतीत्यादिभविष्यत्कथनस्य प्रयोजनं युगस्वभावनिबन्धनस्य धर्माधर्मा- नुष्ठानवैचित्र्यस्य, फलपाकवैचित्र्यस्य च ज्ञानं तत्कारणत्वेन आ घाता गच्छान् उपबर्बृहि- वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् इत्युत्तरार्द्धर्चः (आ घा ता गच्छान् उत्तरा युगानि इति पदानि घ निश्चितम् । घा इति दीर्घश्छान्दसः । तानि उत्तराणि युगानि आगच्छान् आगमिष्यन्ति । यत्रः जामयः वालिशाः अजामि अतिरिक्तानि शास्त्रविरुद्धानि कर्माणि कृण्वन् करिष्यन्तीति नियमोक्तिः । अत्रेदं निरुक्तम् । आगमिष्यन्ति तान्युत्तराणि युगानि, यत्र जामयः करिष्यन्त्यजामि कर्माणि जाम्यतिरेकनामवालिशस्य वा समानजातीयस्य वोपजन उपधेहि वृषमाय बाहु- मन्यमिच्छस्व सुभगे पतिं मदिति व्याख्यातमित्यादिर्वेदो मूलमित्याह — भविष्यत्कथन मपीति । नित्यवेदविषयत्वाविरोधायानादिकालप्रवृत्तत्वं युगस्वभावस्योक्तम् । शिक्षाद्यङ्गानामुपयोगकथनम् अङ्गानां मूलप्रयोजने विवेचयिष्यत्सामान्यतस्तावद्यथासम्भवं क्रत्वर्थप्रतिपादनं पुरुषार्थ- प्रतिपादनं च प्रयोजनम्, लोको वेदश्च मूलमित्याह — अङ्गेति । शिक्षायां वर्णादिस्वरूप- कथनं लोकमूलं तद्विज्ञानपूर्वकस्य तूच्चारणस्य क्रत्वर्थपुरुषार्थत्वकथनं वेदमूलमित्याह — तत्रेति । अकारादयो वर्णाः । संवृतादीनि करणानि, उदात्तादयः स्वराः । ह्रस्वादयः कालाः । कण्ठादिस्थानान्यादिशब्देनोक्तानि । कल्पेषु सूत्रेषु च क्रत्वर्थपुरुषार्थाङ्गप्रधानप्रतिपादनं प्रयोजनम्, वेदश्च मूलमित्याह — कल्पेति । अर्थवादमन्त्रमिश्राणां विधीनामुपसंहारो-विविक्तीकरणम् । शाखान्तरविप्रकीर्णाना- नामेकत्र सन्निवेशः । न्यायलभ्यानां तात्पर्यनिर्णयः तत्तद्विधिरूपमित्यर्थः । ये तु कल्पसूत्रे- ष्वर्त्विगादीनां को यज्ञ इति प्रश्नोत्तरादिव्यवहाराः तेषामनुष्ठानसौकर्यादिमुखं प्रयोजनं दक्षिणा प्रश्नोत्तरादिव्यवहाराणां चार्थः प्रयोजनं लोकश्चोभयत्र मूलमित्याह — लोकेति । व्याकरणे शब्दान्वाख्यानं लोकमूलं साध्वसाधुप्रयोगस्त्विष्टानिष्टहेतुत्वकथनं वेदमूल मित्याह — व्याकरणेऽपीति । निगमनिरुक्तयोर्लोकमूलपदार्थज्ञानप्रयोजनत्वस्य स्पष्टत्वादनु- पन्यासः । छन्दोविचित्याङ्गायेत्यादिविवेककथनं लोकवेदमूलम्, तद्विज्ञानपूर्वकस्य क्रत्वर्थपुरु- षार्थत्वकथनं वेदमूलमित्याह-छन्दोविचित्यामपीति । प्रत्यक्षा चासौ श्रुतिरित्याह-तथा चेति ।

३७६ श्रीमन्मीमांसादर्शनम् [ सू० ज्योतिःशास्त्रे तिथ्यादिकथनं गणितानुमेयत्वाल्लोकमूलं ग्रहसौस्थ्यादिनिमित्तेष्टानिष्टफ- लविपाकसूचनं तु वेदमूलमित्याह—ज्योतिश्शास्त्रेऽपीति । कल्पादावेकनक्षत्रे स्थिताश्चन्द्रादयः ततः प्रभृत्यात्मनो गतिविशेषेण शीघ्रमन्दत्वरूपेणान्यन्यान्यानि नक्षत्राण्युपसंक्रामन्ति, तेषां च नक्षत्रचक्रे सञ्चरतां शीघ्रमन्दत्वविशेषेण गतिपर्यायवैलक्षण्यं भवति । चन्द्रादित्यगति- विशेषावच्छिन्नस्य च कालस्य तिथिनक्षत्रव्यपदेश्यत्वाच्चन्द्रादित्यगतिविभागज्ञानेन तिथि- नक्षत्रज्ञानं भवति एतावन्तश्चन्द्रादित्ययोर्गतिपर्याया एकस्मिन्युगे भवन्तीत्यवगतेषु तद्भागेषु संवत्सरादिविभेदेदानीं चन्द्रमा । इहेदानीमादित्य इत्येवम्, चन्द्रादित्यादिगतिविभागज्ञानस्य तिथ्यादिज्ञानोपयोगित्वम् । एतावद्भिर्युगपर्यायैः एतावन्तश्चन्द्रादित्यगतिपर्याया इति च युगपरिवर्त्तपरिमाणद्वारेण चन्द्रादित्यादिगतिविभागो ज्ञायते । एतावन्तो युगपरिवर्त्ता जाता इति ज्ञातेऽस्य युगस्यैतावन्त्यहोरात्राण्यस्यैतावन्तीति समस्तातीताहोरात्रसंख्यानात्म- कमहर्गणं कृत्वाऽस्य ग्रहस्येदानीमीदृशी गतिर्वर्त्तते, अस्येदृशीति ज्ञानं भवतीति युगपरि- वर्त्तपरिमाणज्ञानस्य चन्द्रादित्यादिगतिविभागज्ञानोपयोगित्वम् । यथा दिवसस्याष्टमोऽयं मुहूर्त्तस्तेनास्मिन्मुहूर्त्ते नभोमध्ये सूर्यं इति मुहूर्त्तसंख्यानेनादित्यस्य गतिविशेषज्ञानं भवतीत्यर्थः । यथा च प्रकृतिप्रत्ययादिप्रक्रिया साधुशब्दावधारणे लिङ्गम्, तथात्र गणितम् । तस्य चास्मिन् गणिते सत्यस्मिन्देशे चन्द्रादयो भवन्तीति प्रत्यक्षेणैव केनचिदभियुक्तेन व्याप्तिं गृहीत्वा, अन्यस्मै गणितलिङ्गोपदेशे कृते तस्याप्याप्तोपदेशे कृते तस्याप्याप्तोपदेशाव- गतान्वयस्यानुमाने जाते स्वप्रतिपत्तिवत्परस्यापि प्रतिपत्तिं कर्तुमुपदेश इति सम्प्रदाया- विच्छेदान्न निर्मूलत्वाशङ्केति दर्शयितुमविच्छिन्नेत्युक्तम्, ग्रहसौस्थित्यनिमित्तपूर्वकं तस्य शुभकर्मणः फलविपाकः, ग्रहदौस्थित्यनिमित्तोऽशुभस्य तद्गतशब्देन सौस्थित्यदौःस्थित्यवि- षयतोक्ता, ज्योतिःशास्त्रे ग्रहदौःस्थित्ये शान्तिविधानात्सौस्थित्ये चोपनयनादिविधानात्तस्य च वेदमूलत्वात्कर्मफलविपाकसूचनं वेदमूलमित्यर्थः । ज्योतिःशास्त्रन्याये साधुमुद्रादिष्वतिदिशति—एतेनेति । पूर्वशान्त्यादिविधानद्वारेण वेदमूलत्वमुक्तम् । यद्वा साक्षादेव तत्प्रतिपादका विधयोऽनुमातव्या इत्याह—ईदृशा वेति । गृहसन्निवेशो वास्तुविद्याविषयः । शरीरसन्निवेशः सामुद्रविषयः । आदिशब्दोपात्तानां ग्रहाणां सौस्थि- त्यदौःस्थित्यरूपः सन्निवेशो ज्योतिःशास्त्रविषयः । मीमांसाया धर्मज्ञानप्रयोजनत्वस्य प्रथमसूत्रेणैवोक्तत्वात्तदुपेक्ष्य लोको मूलमित्याह— मीमांसा त्विति । कथं लोकात्प्रवृत्तेत्यपेक्षिते प्रत्यक्षानुमानादिभिरित्युक्तम् प्रत्यक्षादिसिद्धत्वे शास्त्रानर्थक्यमाशङ्कयाविच्छिन्नसम्प्रदायानां पण्डितानां व्यवहारो यैरित्युक्तम् । सम्प्रदाय- विच्छेदस्य प्रयोजनमाह · न हीति । मीमांसामूलप्रयोजने न्यायविस्तरेऽतिदिशति—एतेनेति । ननु प्रत्यक्षादिलक्षणपरस्य न्यायविस्तरस्य कथं धर्मज्ञानप्रयोजनत्वमित्याशङ्क्य वाक्यार्थधंप्रतिपत्त्युपायभूतपदार्थं-

२ ] प्रथमाध्याये तृतीयपादः २७७ विवेकहेतुप्रत्यक्षादिविवेचनेति श्लोकद्वयेनाह-विषय इति । वेदस्वरूपावधारणद्वारेणार्थस्य धर्मज्ञानोपयोगित्वमाह - वेदोऽपीति । प्रत्यक्षमात्रेण वेदावधारणसिद्धेरादिशब्दादानर्थ- क्यमाशङ्क्य विप्रकीर्णत्विकेत्युक्तम् । प्रतीकग्रहणेन मन्त्रशेषस्यानुमेयत्वात्स्वयमश्रुतस्यापि कस्यचिद्वेदभागस्याप्तवाक्यावसेयत्वाद्विश्वजिदादौ च ज्योतिष्टोमवदित्यादिवाक्यशेषस्यो- पमानाधीनावगतित्वात्स्वर्गकाम इत्यस्य वार्थपत्तिगम्यत्वाद्विचित्रप्रमाणगम्य इत्यर्थः । न्यायविस्तरस्य धर्मज्ञानोपयोगित्वं मनुनाप्युक्तमित्याह - तथा चेति । त्रयमित्युपलक्षणार्थ- मुक्तम् । ननु तर्कस्य धर्मज्ञानोपयोगित्वे बौद्धादितर्काणामपि धर्मज्ञानोपयोगित्वं प्रसज्येतेत्या- शङ्क्य, तेषामपि पूर्वपक्षप्रतिपादनार्थत्वेनोपयोगादनिष्टापत्त्यभावं दर्शयितुमाह-प्रायेण चेति । कुमार्गप्रवृत्तावधर्मवासितान्तःकरणत्वं हेतुः । निश्चितचन्द्रैक्यस्य दोषवशाद् द्विचन्द्र- भ्रमोत्पादेऽपि द्वित्वानध्यवसायाद्धर्मतत्त्वज्ञानस्याधर्मवासनादोषात् कुमार्गप्रवृत्तावपि तत्राध्य- वसायानुपपत्तिमाशङ्क्य - तत्त्वज्ञानप्रतिबद्धत्वमुक्तम् । स्वोत्प्रेक्षितत्वनिरासार्थं लोकादि- मूलोपन्यासः । सर्वासां विरुद्धानां प्रतिपत्तीनां यानि मुखानि विषयास्तेषां प्रदर्शनं क्रियत इति शेषः । तेषां च मुखानामुपपत्तयः कथ्यन्त इति वक्ष्यमाणमाख्यातं विपरिणमय्याऽनु- षज्यते । तासां चोपपत्तीनां बलाबलसम्प्रधारणपूर्वकं तत्त्वनिश्चयस्य द्वारनियमे चोपपत्ति- रिति कथ्यत इत्यर्थः । ननु स्वोत्प्रेक्षितेनापि तर्केण तत्त्वनिश्चयोपपत्तेः, किं लोकादिप्रसूतै- स्तर्कशास्त्रैरित्याशङ्क्याह-अन्यथा पुनरिति । भ्रान्त्युत्पादनशक्तिहेतुत्वेनोक्तं बहुजनवचन- सम्मतत्वमुपपादयितुम् - अज्ञानबोधनादित्युकम् । न्यायविस्तरानभिज्ञत्वेनोपपत्तिबलाबल- ज्ञानरहितानां पुंसां बोधोत्पादनादित्यर्थः । ननु न्यायविस्तरस्योपदेशशास्त्रत्वाभावात्कथं तेन बलाबलावधारणमित्याशङ्क्याह- सर्वासु त्विति । स्वातन्त्र्येणेति । प्रत्यक्षादिप्रमाणानुसारेणेत्यर्थः । ननु धर्मप्रमाणनिरूपणार्थस्य तर्कस्योक्तेन प्रकारेणास्तु धर्मज्ञानोपयोगित्वं यस्तु सर्वं जगन्नित्यमेवेति सांख्यानां नित्यत्वैकान्तप्रतिपादनम्, बौद्धानां च सर्वं जगदनित्यमेव सर्वात्मना पृथग्भूतं चेत्यनित्यत्वपृथक्त्वैकान्तप्रतिपादनम् । अद्वैतवादिनां च सर्वेषामेकत्वै- कान्तप्रतिपादनम्, सामान्यविशेषयोश्च व्यतिरेकैकान्तप्रतिपादनमौलुक्यानाम्, आदिशब्दोपात्तं वा व्यतिरेकैकान्तप्रतिपादनं सांख्यानाम्, तस्य कथं धर्मज्ञानोपयोगितेत्याशङ्क्य निष्कृष्टैकैक- पदार्थांशनिरूपणार्थत्वेनोपयोगमाह - यदपि चेति । ननु समुग्धेनापि वस्तुना वाहन- दोहनादिव्यवहारसिद्धेः किमंशनिष्कर्षणेत्याशङ्क्य वाक्यार्थप्रतिपत्तेः पदार्थप्रतिपत्तिहेतु- कत्वात्पदार्थानां च वस्त्वंशविषयत्वात्तन्निष्कर्षोऽवश्यंकार्य इत्याह-अवश्यं चेति । एतदेव व्यतिरेकमुखेनोपपादयति - अन्यथेति । मन्त्रार्थवादी यः स्तुतिनिन्दालम्बननिरूपणार्थ- मध्येकान्तप्रतिपादनमवश्यंकार्यमित्याह - मन्त्रेति । ननु यैषा सुखदुःखमोहात्मकसत्वरजस्तमोरूपं प्रधानं जगतकारणमिति प्रक्रिया स्थिति- सिद्धान्तापरपर्याया सांख्यैः, पुरुष इति ब्रह्मविद्भिः, ईश्वर इति पातञ्जलैयैः परमाणव

२७८ मीमांसादर्शनम् [ सू०. इत्योलूक्यैरादिशब्दात्तत्तत्कार्यं जगदिति यथाक्रमं सांख्यादिभिः प्रतीताः प्रतिगताः प्रतिज्ञा- ताङ्गीकृताः किमासां सर्वासां मूलमित्याशङ्क्याह—याश्चैता इति । सृष्टिप्रलयादिरूपेणेति प्रधानादिभ्यो जगतः सृष्टिप्रलयादिरूपेणेति प्रधानादिभ्यो जगतः सृष्टिरुत्पत्तिः, तेष्वेव च प्रलय इत्युपादानकारणत्वमुक्तम् । आदिशब्देनेश्वरस्य निमित्तकारणत्वमुक्तम्, तृतीयेत्थम्भूत- लक्षणार्था सूक्ष्माद्वटबीजात् स्थूलवृक्षोत्पत्तिदर्शनात्प्रधानादेः सूक्ष्मात् स्थूलं जगदुत्पद्यत इत्यनुमानमित्यर्थः । प्रयोजने सत्यपि वेदप्रामाण्ये स्वर्गायागादीनां साध्यसाधकत्वावबोधे कथं सूक्ष्मादपूर्वात्स्वर्गादेः स्थूलस्योत्पत्तिः सम्भवतीति हेतुकानां विचिकित्सानिवृत्तिरित्याह- प्रयोजनतेति । सृष्टिप्रलयाङ्गीकरणस्य प्रयोजनमाह—सर्गेति । यस्मात्सत्यसति वा पुरुषकारे तद्वलेन दैवबलेन कार्यं प्रवर्त्तते, दैवोपरमे चोपरमति, सृष्ट्यादौ तु पुरुषकाराभावेऽपि दैवमात्रा- ज्जगदुत्पत्तेः प्रलयकाले च सत्यपि पुरुषकारे दैवोपरमे जगदुपरमते । तस्माद्दैवस्याधिकः पुरुषकारात्प्रभावः सामर्थ्यमिति मत्वा श्रौतस्मार्त्तकर्मानुष्ठाने यतितव्यमिति सृष्टिप्रलय- विषयस्यापि तर्कस्य धर्मोपयोगितेति भावः । विज्ञानमात्रादिप्रक्रियाणां मूलप्रयोजनं चाह—विज्ञानमात्रेति । निवर्त्तयितुं वादाना- मित्यन्वयः । एवं बाह्यतर्काणामपि कथंचिद्धर्मज्ञानोपयोगसम्भवान्नातिष्टापत्तिरित्युक्त्वा, प्रकृतं सकलं वेदातिरिक्तविद्यास्थानप्रामाण्यमुपसंहरति—इत्युपपन्नमिति । अतश्चोपसंहार- भाष्ये दृष्टादृष्टप्रयोजनभेदेन मूलविवेककथनं सर्वविषयमेव योजनीयमित्याह—सर्वत्र चेति । वृश्चिकविद्याग्रहणेनायुर्वेदोपलक्षणादादिशब्देन च नीतिशास्त्राद्युपसंग्रहात्त्रैवर्णिकपरिगृहीता- नामर्थकामोपयोगिनामपि विद्यास्थानानां प्रामाण्यं सूचितम् । त्रैवर्णिकापरिगृहीतानां बौद्धादि- ग्रन्थानां प्रामाण्याभ्यनुज्ञानाशङ्कया निषेत्स्यमानत्वात् ॥ २ ॥ ॥ इति प्रथमसर्वानवद्यकारिण्यां स्मृत्यधिकरणम् ॥ भा० प्र०—'अपि वा' = पूर्वपक्ष की निवृत्ति का द्योतक है । 'कर्तृसामान्यात्' = कर्ता अर्थात् वेदोक्त कर्मों के अनुष्ठान को करने वाले एवं स्मृति-निबन्ध की रचना करने वाले की समानता अर्थात् अभिन्नता है, अतः 'प्रमाणम्' = प्रमाण, 'अनुमानम्' = अनुमान अर्थात् वेदार्थ की अनुमापक शिष्टपरिगृहीत स्मृति, 'स्यात्' = होगी । क्योंकि वेद के द्वारा विहित कर्मों का अनुष्ठान करने वाला और स्मृति कर्ता अभिन्न है, अतः शिष्टों के द्वारा परिगृहीत मनु आदि स्मृतियाँ अवश्य ही प्रमाण है । (यह सिद्धान्त पक्ष है ।) आशय यह है कि इस सूत्र में कथित 'अपि वा' इस शब्द के द्वारा पूर्व सूत्र से जो पूर्वपक्ष की उपस्थापना की गई है, उसकी निवृत्ति की जा रही है । पूर्वपक्षियों = शिष्ट व्यक्तियों के द्वारा परिगृहीत स्मृतियों के अप्रामाण्य होने का सन्देह उत्थापित किया था—वह समीचीन नहीं है । शिष्टजनों से परिगृहीत स्मृतियां धर्म में प्रमाण है । शिष्ट =

२ ] प्रथमाध्याये तृतीयपादः १७२ वेद का प्रामाण्य स्वीकार करने वाला व्यक्ति शिष्ट कहा जाता है। वे ही शिष्टगण जब वेदोक्त कर्मों के समान एक ही तरह की श्रद्धा और विश्वास के साथ स्मृति विहित कर्मों का भी अनुष्ठान करते हैं, तब स्मृति का प्रामाण्य नहीं है—यह नहीं कहा जा सकता है। परम आस्तिक वेदप्रामाण्यवादी सर्वज्ञकल्प मनु आदि त्रैवर्णिक महर्षियों ने जब उसका संग्रह किया है एवं मनु आदि के समान सर्वज्ञ सदृश महर्षियों ने भी जब वेद- वाक्यों के समान ही सभी स्मृति वचनों का भी प्रामाण्य माना है, तब इन सभी शिष्टों से परिगृहीत स्मृतियों का भी प्रामाण्य अवश्य ही मानना होगा। इन स्मृति वचनों का मूलभूत वेद वचनों के न रहने पर जब स्मृति नहीं हो सकती है, तब अर्थापत्ति के द्वारा वेदवचन का अनुमान हो सकता है। इसलिए सूत्र में स्मृति को अनुमान शब्द से कहा गया है। अनुमान जैसे प्रत्यक्ष मूलक है वैसे ही स्मृति भी प्रत्यक्ष सदृश वेदवचन मूलक है। शास्त्र मत में उपलभ्यमान वेदवचन प्रत्यक्षपद से वाच्य है, क्योंकि, जो प्रत्यक्ष के समान ही निःसन्दिग्ध रूप में अलौकिक अर्थ को विज्ञापित करता है वह स्मृतिवचन अनुमान स्थानीय है, कारण जैसे अनुमान प्रत्यक्षका आश्रयण कर पदार्थ विषयक ज्ञान को उत्पन्न कराता है, वैसे ही स्मृति भी वेदवचन का आश्रयण कर अलौकिक धर्म और अधर्म के विषय में अनुभव उत्पन्न कराती है। यदि यह कहा जाय कि ऐसा मानने पर उसके मूलाधार भूत वेदवचन भी स्मृत होगा, अन्यथा वह वन्ध्य नारी के दौहित्र के घर के स्मरण के समान अप्रमाण होगा। इसके उत्तर में कहा गया है कि वेद की अनेक शाखाएँ थीं, जो सम्प्रति उपलब्ध नहीं हैं, उन शाखाओं में अवस्थित होने से स्मृति का मूलाधार वचन उपलब्ध नहीं है। वार्तिक- कार कुमारिल ने कहा कि उत्सन्नवाद को स्वीकार करना उचित नहीं है। अनुसन्धान करने पर स्मृतिवचनों का मूलाधार श्रुतिवचन दुर्लभ नहीं है। उस प्रसङ्ग में यह भी कहा जा सकता है कि श्रुतिवाक्य हैं तो स्मृतिवाक्य निरर्थक हैं। किन्तु यह कथन ठीक नहीं है, कारण, वेद की एक-एक शाखा विभिन्न सम्प्रदायों में आबद्ध है। उन सम्प्रदायों की गुरुशिष्य-परम्परा ने उन शाखाओं को अक्षुण्ण रूप में धारण किया है, अतः, अपनी शाखा के समान दूसरी शाखा में आस्था-स्थापन करने पर साङ्कर्य्य होने से सम्प्रदाय का ही विनाश हो जायगा। इसलिए शाखाओं में अनेक शाखाओं के ग्रहण का आदर एक सम्प्रदाय को नहीं है। अपि तु ऐसा होने पर भी अन्य शाखाओं में स्थित सर्व- साधारण के लिए अवश्य अनुष्ठेय कर्मों की उपेक्षा नहीं की गई है इसलिए मनु आदि सर्वज्ञ महर्षियों ने सभी कर्मों का सभी शाखाओं में कथन न होने से एवं सभी के लिए वे अवश्य अनुष्ठान के योग्य भी हैं, अतः समो कर्मों को सभी शाखाओं से सङ्कलन कर स्मृति के रूप में निबद्ध कर दिया है। स्मृति का पाठ श्रुति के अध्ययन के समान विशेष नियमबद्ध न होने से उसके साथ श्रुति का साङ्कर्य्य सम्भव नहीं है। एक शाखा विशेष के सम्प्रदायबद्ध व्यक्ति साधारणतः अन्य शाखाओं का अध्ययन नहीं करते हैं अतः स्मृति का मूलभूत वहाँ के वेदवचनों को वे नहीं जान पाते हैं। इसलिए, यह

२८० मीमांसादर्शनम् [ सू० बन्ध्या के दौहित्र के मकान के स्मरण के समान इसको नहीं कहा जा सकता है। मनु आदि महर्षि यदि वेदवचन को ही स्मृति निबद्ध न करें तो उनके समान अन्य महर्षि उनका अनुष्ठान कैसे करेंगे ? अतः यह मानना होगा कि स्मृतिवाक्य श्रुतिवाक्य के समान ही प्रमाण हैं। पूर्वोक्त स्मृति के मूलाधार श्रुतिवचनों का भाष्यकार ने स्वयं उद्धार किया है। यथा "यां जानाः प्रतिनन्दति", इस वेदमन्त्र का एवं "एषा वै सम्वत्सरस्य पत्नी यदेकाष्टका" ये अर्थवाद वाक्य स्मृति के मूल हैं। "स्थलया उदकं परिगृह्णन्ति" यह अर्थवाद तडाग स्मृति का मूलवचन है। "धन्वन्निव प्रपा असि" यह मन्त्र प्रपा स्मृति का मूल है। भाष्य के आपातलभ्य अर्थ से यह अवगत होता है कि गुरु का अनुगमन, तडाग, प्रपा विषयक स्मृतियां दृष्टार्थ हैं, अर्थात् उनका दूसरे का उपकार करना आदि लौकिक प्रयोजन ही है। किन्तु वार्तिककार ने कहा है कि यह भाष्यकार का प्रौढ़िवाद मात्र है, वस्तुतः वे भी अदृष्ट जनक हैं अर्थात् धर्म के साधन हैं, किन्तु लौकिक प्रयोजनका निर्वाह उनका अविनाभूत फल है। स्मृति वेद विषयक हैं, वे धर्म में प्रमाण हैं इस प्रसङ्ग में सूत्र में सूचित अनुमान का स्वरूप निम्नलिखित है। स्मृतियां, वेद मूलक हैं ( प्रतिज्ञा ) क्योंकि, वेद प्रामाण्यवादी उनका कर्ता है ( हेतु ) जो वेदप्रामाण्यवादी कर्ता से निबद्ध नहीं हैं, वे वेदमूलक नहीं हैं, यथा बौद्धादि सम्प्रदाय के शास्त्र ( उदाहरण ) इसी प्रकार स्मृतियां धर्म में प्रमाण है ( प्रतिज्ञा ) क्योंकि, वे वेदमूलक हैं ( हेतु ) जो वेदमूलक नहीं हैं वे धर्म में प्रमाण नहीं है, यथा बौद्ध आदि सम्प्रदाय के शास्त्र ( उदाहरण ) ( स्मृति प्रामाण्याधिकरण ) ॥ २ ॥ [ २ ] विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम् ॥ ३ ॥ सि० शा० भा०—अथ यत्र श्रुतिविरोधस्तत्र कथम्। यथौदुम्बर्याः सर्ववेष्टनम्। 'औदुम्बरीं स्पृष्ट्वोद्गायेत्' इति श्रुत्या विरुद्धम्। अष्टाचत्वारिंशद्वर्षाणि वेदब्रह्म- चर्यचरणं 'जातपुत्रः कृष्णकेशोऽग्नीनादधीत' इत्यनेन विरुद्धम्। क्रीतराजको भोज्यान्न इति 'तस्मादग्नीषोमीये संस्थिते यजमानस्य गृहेऽशितव्यम्' इत्यनेन विरुद्धम्। तत्प्रमाणम्, कर्तृसामान्यादित्येवं प्राप्ते— ब्रूमः।

३ ] प्रथमा॑ध्याये तृतीयपादः २८१ अशक्यत्वादव्यामोह इत्यवगम्यते । कथमशक्यता ? स्पर्शविधानान्न सर्वा शक्या वेष्टितुं उद्गायता स्प्रष्टुं च । तामुद्गायता स्प्रष्टव्यामवगच्छन्तः केनेमं संप्रत्ययं बाधेमहि ? सर्ववेष्टनस्मरणेनेति ब्रूमः । ननु निर्मूलत्वाद्व्यामोहस्तत्स्मरणमिति वैदिकं वचनं मूलं भविष्यतीति । भवेद्वैदिकं वचनं मूलम्, यदि स्पर्शनं व्यामोहः । अव्यामोहे त्वशक्यत्वादनुपपन्नम् । यथाऽनुभवनमनुपपन्नमिति न कल्प्यते, तथा वैदिकमपि वचनम् । कथं तर्हि सर्ववेष्टनस्मरणम् ? व्यामोहः । कथं व्यामोहकल्पना ? श्रौतविज्ञानविरोधात् । अथ किमर्थं नेमौ विधी विकल्प्येते, व्रीहियववद्बृहद्रथन्तरवद्वा ? न नासति व्यामोहविज्ञाने विकल्पो भवति, यदि सर्ववेष्टनविज्ञानं प्रमाणम्, स्पर्शनं व्यामोहः । यदि स्पर्शनं प्रमाणम्, स्मृतिर्व्यामोहः । विकल्पं तु वदन्स्पर्शनस्य पक्षे तावत्प्रा- माण्यमनुमन्यते । तस्य च मूलं श्रुतिः । सा चेत्प्रमाणमनुमता, न पाक्षिकी । पाक्षिकं च सर्ववेष्टनस्मरणं पक्षे तावन्न शक्नोति श्रुतिं परिकल्पयितुम् । स्पर्शविज्ञानेन बाधितत्वात् । ततश्चाव्यामोहे च तस्मिन्नशक्या श्रुतिः कल्प- यितुम् । न चासावव्यामोहः पक्षे, पक्षे व्यामोहो भविष्यतीति । यदेव हि तस्यै- कस्मिन्पक्षे मूलम्, तदेवेतरस्मिन्नपि । एकस्मिंश्चेत्पक्षे न व्यामोहः, श्रुतिप्रामाण्यतुल्यत्वादितरत्राप्यव्यामोहः । न चासावेकस्मिन्पक्षे श्रुतिः, निबद्धाक्षरा हि सा, न प्रमादपाठ इति शक्या गदितुम् । तेन नैतत्पक्षे विज्ञानं व्यामोहात्पक्षान्तरं संक्रान्तमित्यवगम्यते । तत्र दुःश्रुतस्वप्नादिविज्ञानं मूलत्वं तु सर्ववेष्टनस्येति विरोधात्कल्प्यते । न हि तस्य सति विरोधे प्रामाण्यमभ्युपगन्तव्यमिति किंचिदस्ति प्रमाणम् । तस्माद्यथैवै- कस्मिन्पक्षे न शक्या श्रुतिः कल्पयितुमेवमपरस्मिन्पक्षे तुल्यकारणत्वात् । अपि चेतरेतराश्रयेऽन्यतः परिच्छेदात् । केयमितरेतराश्रयता ? प्रमाणायां स्मृतौ स्पर्शनं व्यामोहः, स्पर्शनं प्रमाणे, स्मृतिर्व्यामोहः । तदेतदितरेतराश्रयं भवति । तत्र स्पर्शनस्य क्लृप्तं मूलम्, कल्प्यं स्मृतेः । सोऽसावन्यतः परिच्छेदः । कल्प्यमूलत्वात्स्मृतिप्रामाण्यमनवकॢप्तम् । तदप्रामाण्यात्स्पर्शनं न व्यामोहः । तदव्यामोहात्स्मार्तश्रुतिकल्पनाऽनुपपन्ना, प्रमाणाभावात् । नन्वेवं सति व्रीहिसाधनत्वविज्ञानस्याप्यव्यामोहाद् यवश्रुतिर्नोपपद्येत । सत्यं नोपपद्यते, यद्यप्रत्यक्षा स्यात् । प्रत्यक्षा त्वेषा । न हि प्रत्यक्षमनुपपन्नं नामास्ति, द्वयोस्तु श्रुत्योर्भावात् । द्वे ह्येते वाक्ये । तत्रैकेन केवलयवसाधनता गम्यते, एकेन केवलव्रीहिसाधनता । न च वाक्येनावगतोऽर्थोऽपह्नूयते । तस्माद्व्रीहियवयोरुप- पन्नो विकल्पो बृहद्रथंतरयोश्च । तस्मादुक्तं श्रुतिविरुद्धा स्मृतिरप्रमाणमिति । अतश्च सर्ववेष्टनादि नाऽऽदरणीयम् ॥ ३ ॥ श्रुतिप्राबल्याधिकरणम् । इति भाष्यमत्तेन विरोधाधिकरणम्

१८३ मीमांसादर्शनम् [ सू० भा० वि०—अत्रत्यं भाष्यविवरणम् २५९ पृष्ठे द्रष्टव्यम् । त० वा०—स्मृतिप्रामाण्यमुत्सृष्टं प्रसक्तं सर्वगोचरम् । सति वेदविरुद्धत्वे तदिदानीमपोद्यते ॥ २२ विरोधे त्वनपेक्षं स्यादसति ह्यनुमीयते । विरोधे वेदवाक्येन तेन चार्थेऽनधिष्ठिते ॥ २३ यावती स्मृतिः प्रत्यक्षवेदवाक्यविरुद्धा, तां सर्वामुदाहृत्य संप्रधार्यते किं पुनस्तादृश्यपि धर्मप्रमाणत्वेनावधार्यते, किं वा पर्युदस्यत इति । कुतः संशय इति चेत् ? तदुच्यते । विरोधपरिहाराद्वा सति वा तुल्यमूलतः । अबाधो वा भवेदस्या बाधो वा तद्विपर्ययात् ॥ २४ एकविषये विरुद्धाथोपसंहारिणी विज्ञाने विरुध्येते, बलवदबलवत्त्वनिर्णयाच्च बाध्यबाधकभावं प्रतिपद्येते । तद्यदि शङ्कितविरोधयोरपि श्रुतिस्मृत्योः केनचि- त्प्रकारेण भिन्नविषयत्वेन व्यवस्था सिध्येत् । विधेयप्रतिषेध्ययोर्वा विरोधाभावात् एकस्मिन्नपि विषये समुच्चयसंभवादेकप्रयोगगतत्वासंभवाद्वोभयोः प्रामाण्याङ्गी- करणेन प्रयोगान्तरे चोभयानुग्रहः स्यादित्येवं विकल्पाश्रयणेऽप्यत्यन्तविरोधा- भावात्प्रत्यक्षानुमितश्रुतिजनितज्ञानयोश्च वैदिकत्वाविशेषे तुल्यबलत्वकल्पनादु- भयप्रामाण्यमुपपत्स्यते । ततो यथोपन्यस्तविषयेऽपि स्मृतिप्रामाण्यमपेक्षितव्यम् । अथ तु प्रयत्नेनान्विष्यमाणेऽपि न विषयान्तरकृता व्यवस्था, नापि प्रमेयाविरो- धात्समुच्चयो नापि विकल्पेनोभयानुग्रहः, किं तर्ह्युभयपीडनादत्यन्तविरोध एव । प्रत्यक्षानुमेयश्रुत्योश्च लौकिकप्रत्यक्षानुमानवन्महान्बलविशेषस्तदा गत्यन्तराभावा- दुभयानुग्रहासंभवे श्रुतिबलीयस्त्वेन स्मृतिप्रामाण्यमुपेक्षणीयं भविष्यतीति । किं तावत्प्राप्नुयादत्र विरोधेऽपि प्रमाणता । अप्रामाण्यप्रसङ्गे हि मर्यादातिक्रमो भवेत् ॥ २५ अनाशङ्कितविप्रलम्भभ्रान्त्यादिमूला ह्यव्याहतवेदमूलत्वावधारणाः स्मृतयो निर्व्याजप्रामाण्याः शक्यन्ते धर्मव्यवहाराङ्गत्वेन स्थापयितुम् । यदा तु वेदविरुद्ध- त्व-हेतुदर्शन-परस्परविगानादिना केनचिदपि च्छलेनाऽऽसामप्रामाण्यं कल्प्यते, तदा बहुशाखाखिलप्रकरणादिभेदभिन्नेषु वेदेषु श्रुतिलिङ्गाद्यात्मकोपदेश-नामादि- द्वारातिदेशात्मकविचित्रप्रमाणभागेषु को जानाति का स्मृतिः कीदृशेन वेदभागेन विरुध्यमाना कदाऽनुमास्यत इति । अतश्चैवं जाताशङ्कैनैव क्वचिदपि विश्व- स्येत । अविश्वासाच्चात्यन्तमेव प्रामाण्यं प्रतिहन्येत । तथा हि— कदाचिच्छ्रुतिमूलत्वमुक्त्वा भ्रान्त्यादिमूलता । स्मृतिभिः प्रतिपन्ना चेत्कस्तामिन्द्रोऽपि वारयेत् ॥ २६

३ ] प्रथमाध्याये तृतीयपादः २८३ एकमूलव्यवस्थायां मूलान्तरनिराक्रिया । अप्रामाण्यनिवृत्त्यर्थं शक्या न तदुपेक्षणे ॥ २७ किं च—परस्परविरुद्धत्वं श्रुतीनां न भवेद्यदि । स्मृतेःश्रुतिविरुद्धायास्ततो मूलान्तरं भवेत् ॥ २८ यदा तूदितानुदिताग्निहोत्रहोमविविधवदतिरात्रगतषोडशिग्रहणवच्च सहस्रशः श्रुतयोऽप्यसंभववद्युगपदनुष्ठानार्थतया परस्परविरुद्धा दृश्यन्ते तदा यदि नाम कासांचित्स्मृतीनां स्ववेदशाखागतवचनविपरीतार्थशाखान्तरवचनमूलानामधीत- वाक्यविरोधो दृश्यतेऽस्तस्तावत्तैव सर्वशाखाप्रत्ययकर्मव्यवहारिणां स्वयमश्रुतान- धीतत्वमात्रेण दृढस्मरणोपस्थापितपुरुषान्तरस्थश्रुतिनिराकरणं न शोभते चैकं प्रतिशिष्यत इति हि सर्वश्रुतीनां सर्वपुरुषान्प्रति प्रामाण्यादध्ययनवच्च स्मृतेरपि श्रुतिधारणसामर्थ्यात् । तस्माद्यथा विरोधेऽपि पठ्यमानप्रमाणता । पठितस्मर्यमाणानां तथैवेत्यवधार्यताम् ॥ २९ किं च— अविरोधे श्रुतिमूलं न मूलान्तरसंभवः । विरोधे त्वन्यमूलत्वमिति स्यादर्थवैशसम् ॥ ३० मूलान्तरं निरस्तं च सामान्येनैव यत्पुरा । तदनुप्राप्यते पश्चाद्विरोधे नेत्यतिक्रिया ॥ ३१ तेनाऽऽसां श्रुतिमूलत्वं सर्वदैव व्यवस्थितम् । मूलान्तरप्रवेशे वा किं तत्प्रामाण्यतृष्णया ॥ ३२ किं च भ्रान्त्यादिमूलानां संभवासंभवाश्रयः । स्मृतीः प्रति विरुद्धोऽयं बाधपक्षो न युज्यते ॥ ३३ तेनाऽऽसां यदि वा नैव क्वचिदस्ति प्रमाणता । सर्वत्राव्याहता वा स्यान्न त्वर्धजरतीयता ॥ ३४ विरुद्धत्वं च जानन्ति स्मर्तारस्ताः स्मरन्ति यत् । वेदमूलबलं त्यक्त्वा किमन्यत्तत्र कारणम् ॥ ३५ गृह्यमाणनिमित्तत्वाद्यद्युच्येताप्रमाणता । उत्प्रेक्षणीयहेतुत्वात्सा सर्वत्र प्रसज्यते ॥ ३६ रागद्वेषमदोन्मादप्रमादालस्यलुब्धताः । क्व वा नोत्प्रेक्षितुं शक्याः स्मृत्यप्रामाण्यहेतवः ॥ ३७ अदुष्टेन हि चित्तेन सुलभा साधुमूलता । दुष्टमूलत्वलाभस्तु भवत्याशयदोषतः ॥ ३८

१८४ मीमांसादर्शनम् [ सू० का वा धर्मक्रिया यस्यां दृष्टो हेतुर्न युज्यते । कथंचिद्वा विरुद्धत्वं प्रत्यक्षश्रुतिभिः सह ॥ ३९ लोकायतिकमूर्खाणां नैवान्यत्कर्म विद्यते । यावत्किंचिददृष्टार्थं तद्दृष्टार्थं हि कुर्वते ॥ ४० वैदिकान्यपि कर्माणि दृष्टार्थान्येव ते विदुः । अल्पेनापि निमित्तेन विरोधं योजयन्ति च ॥ ४१ तेभ्यश्चेत्प्रसरो नाम दत्तो मीमांसकैः क्वचित् । न च कंचन मुञ्चेयुर्धर्ममार्गं हि ते तदा ॥ ४२ प्रसरं न लभन्ते हि यावत्क्वचन मर्कटाः । नाभिद्रवन्ति ते तावत्पिशाचा वा स्वगोचरे ॥ ४३ क्वचिद् दत्तेऽवकाशे हि स्वोत्प्रेक्षालब्धधामभिः । जीवितुं लभते कस्तैस्तन्मार्गपतितः स्वयम् ॥ ४४ तस्माल्लोकायतस्थानां धर्मनाशनशालिनाम् । एवं मीमांसकैः कार्यं न मनोरथपूरणम् ॥ ४५ यच्चाऽऽदौ श्रद्धया सिद्धं पुनर्न्यायेन साधितम् । आज्ञासिद्धप्रमाणत्वं पुराणादिचतुष्टयम् ॥ ४६ तत्तथैवानुमन्तव्यं कर्तव्यं नान्तरा श्लथम् । सर्वं श्लथयतः सीदेद् दुर्नद्धशकटादिवत् ॥ ४७ पक्षो योऽङ्गीकृतो येन तमत्रस्यन्स निर्वहेत् । हारयेदन्तरा त्रस्यन्भीतोपद्रवकारिभः ॥ ४८ वेदश्च यदि दृष्टार्थं श्रूयमाणविरोधि वा । न विदध्यात्ततस्तादृक्स्मृतिस्तन्मूलतां त्यजेत् ॥ ४९ यदा तु हन्तिपिष्यादिकर्म दृष्टं सहस्रशः । दृष्टार्थं विहितं वेदे तदा किं हेतुदर्शनैः ॥ ५० ऋत्विग्भ्यो दक्षिणादानं तानूनप्त्रादिकर्म च । यदृर्त्विग्यजमानानां दृष्टार्थं सर्वमिष्यते ॥ ५१ तद्यद्यवैदिकं तादृक्स्यात्ततोऽन्यदवैदिकम् । यदा चैवंविधान्येव वेदे कर्माणि सन्ति नः ॥ ५२ तदा किं नाम दृष्टार्थं बुद्ध्या सिध्येदवैदिकम् । तेनाऽऽदावेव या क्लृप्ता स्मार्तानां वेदमूलता ॥ ५३ निर्वोढव्येह सैकान्तात्किमिदं खिद्यतेऽधुना । तस्माद्वेदविरुद्धानां दृष्टार्थानां च हेतुभिः ॥ ५४ स्मृतीनां न प्रमाणत्वं विहन्तव्यं मनागपि । अवशिष्टं प्रमाणत्वं सर्वासां प्राप्तमीदृशम् ॥ ५५

• ] प्रथमाध्याये तृतीयपादः -२८५ विरोधेऽप्यधुना युक्तमैवं प्राप्तेऽभिधीयते । विरोधे त्वनपेक्षं स्यात्प्रामाण्यं स्मृतिबन्धनम् ॥ ५६ अविरोधे हि वेदेन तन्मूलमनुमीयते । या तु वेदविरुद्धेह स्मृतिः काचन दृश्यते ॥ ५७ सा तु स्याद् भ्रान्तिमूलैव न स्पष्टश्रुतिमूलिका । स्वातन्त्र्येण प्रमाणत्वं स्मृतेस्तावन्न सम्मतम् ॥ ५८ वेदमूलानुमानं च प्रत्यक्षेण विरुध्यते । वेदवाक्यानुमानं हि तावदेव प्रवर्तते ॥ ५९ तदर्थविषये यावत्प्रत्यक्षं नोपलभ्यते । प्रत्यक्षे श्रूयमाणे तु न विद्येतानुमानिकम् ॥ ६० न हि हस्तिनि दृष्टेऽपि तत्पदेनानुमेष्यते । स्मृतीनां श्रुतिलिङ्गत्वमस्ति हस्तिपदादिवत् ॥ ६१ तत्प्रत्यक्षविरुद्धत्वे तद्वदेव निवार्यते । तावदेव स्फुरन्त्यर्थाः पुरस्तादानुमानिकाः ॥ ६२ यावत्प्रत्यक्षशास्त्रेण मूलमेषां न कृत्यते । कृत्तमूलाः स्फुरन्तोऽपि स्मृतयो न चिरायुषः ॥ ६३ निराधारत्वदोषेण शाखा इव वनस्पतेः । न हि साक्षात्प्रमाणत्वं स्मृतीनामुपपद्यते ॥ ६४ नान्यमूलं यतस्तत्तस्यात्तत्तु मूलं न विद्यते । प्रत्यक्षप्रतिबद्धा हि श्रुतिर्नास्त्यानुमानिकी ॥ ६५ नैराकाङ्क्ष्यात्प्रमातॄणामनुमानं न लभ्यते । प्रमेयं यत्परिच्छेद्यं भवेत्केनचिदात्मना ॥ ६६ तस्य स्यात्तत्परिच्छेदात्सावकाशप्रमाणता । ताद्रूप्येण परिच्छिन्ने तद्विपर्ययतोऽपि वा ॥ ६७ भूयस्तस्मिन्प्रमेये हि न प्रमाणं प्रवर्तते । भिन्नकक्षागते ये च प्रमाणे तत्र धावतः ॥ ६८ तयोः शीघ्रेण निर्णीते मन्थरं न प्रवर्तते । तद्धि दूरमपि प्राप्तमेकमप्यगतं पदम् ॥ ६९ इतरेण गतेनाऽऽदावेकान्तेनैव जीयते । यत्र शीघ्रतरं नास्ति तस्यार्थस्यापहारकम् ॥ ७० चिरेणापि व्रजेत्तत्र दुर्बलं न निवार्यते । न हि येन प्रमाणत्वं लब्धपूर्वं कदाचन ॥ ७१

१८६ मीमांसादर्शनम् [ सू० तेन तत्सर्वदा लभ्यमित्याज्ञापयतीश्वरः । सर्वमुत्पद्यमानं हि यद्यन्येन विरोधिना ॥ ७२ न रुध्यते ततस्तस्य सिद्धिः कालेन लभ्यते । यस्य तूत्पद्यमानस्य मूलमेव निकृत्यते ॥ ७३ मुखं वा रुध्यते तस्य नाऽऽत्मलाभः कदाचन । न च यद्वलवद्बुद्धमात्मानं नैव विन्दति ॥ ७४ अविरोधेऽपि तेनाऽऽत्मा न लब्धव्यः कथंचन । न चापि बाधकाभावाल्लब्ध आत्मेति सर्वदा ॥ ७५ लब्धव्यः स विरोधेऽपि पूर्वसामान्यदर्शनात् । उत्सर्गाश्चापवादश्च सर्वत्रैवोपलभ्यते ॥ ७६ तत्र नोत्सर्गमात्रेण सर्वमेवावरुध्यते । अपवादेन वा यस्मादुत्सर्गो बाधितः क्वचित् ॥ ७७ तस्मात्सर्वत्र बाध्योऽसावित्येतदपि नेष्यते । विषयाविषयौ ज्ञात्वा तेनोत्सर्गापवादयोः ॥ ७८ बाधाबाधौ विवेक्तव्यौ न तु सामान्यदर्शनात् । यो हि सामान्यदृष्टेन व्यवहारं निनीषति ॥ ७९ तृष्णाच्छेदो भवेत्तस्य मृगतृष्णाजलैरपि । बाधितां मृगतृष्णां वा दृष्ट्वा ह्रदगतोऽप्यसौ ॥ ८० विप्रलम्भभयादेव न स्नानादि समाचरेत् । तावदेव हि तोयादिज्ञानस्येष्टा प्रमाणता ॥ ८१ न तोयं मृगतृष्णेयमिति यावन्न बुध्यते । अनुमानं प्रमाणं च तावदर्थेषु जायते ॥ ८२ रुध्यते विषयो यावन्नास्य प्रत्यक्षजन्मना । एवं स्मृतिप्रमाणत्वे तावच्छ्रुत्यनुमानजम् ॥ ८३ यावत्प्रत्यक्षया श्रुत्या विषयो नावरुध्यते । अतः क्वचित्प्रमाणत्वं क्वचिदप्यप्रमाणताम् ॥ ८४ व्यवस्थापयता न्यायेनं भवेदर्थवैशसम् । प्रमाणत्वाप्रमाणत्वे प्रत्यक्षमृगतृष्णयोः ॥ ८५ यथा तथैव ते स्मृत्योरविरुद्धविरुद्धयोः । तस्मादेवं न वक्तव्यं सर्वासां वा प्रमाणता ॥ ८६ अथ वा सा न कस्याश्चिद्यदि क्वचिदनाश्रिता । तेन वेदविरुद्धानां स्मृतीनामप्रमाणता ॥ ८७ रुद्धश्रुत्यनुमानत्वादन्धमूला हि ता यतः ।