मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 328, कुल 804 में से
संदर्भ में पढ़ें३७६ श्रीमन्मीमांसादर्शनम् [ सू० ज्योतिःशास्त्रे तिथ्यादिकथनं गणितानुमेयत्वाल्लोकमूलं ग्रहसौस्थ्यादिनिमित्तेष्टानिष्टफ- लविपाकसूचनं तु वेदमूलमित्याह—ज्योतिश्शास्त्रेऽपीति । कल्पादावेकनक्षत्रे स्थिताश्चन्द्रादयः ततः प्रभृत्यात्मनो गतिविशेषेण शीघ्रमन्दत्वरूपेणान्यन्यान्यानि नक्षत्राण्युपसंक्रामन्ति, तेषां च नक्षत्रचक्रे सञ्चरतां शीघ्रमन्दत्वविशेषेण गतिपर्यायवैलक्षण्यं भवति । चन्द्रादित्यगति- विशेषावच्छिन्नस्य च कालस्य तिथिनक्षत्रव्यपदेश्यत्वाच्चन्द्रादित्यगतिविभागज्ञानेन तिथि- नक्षत्रज्ञानं भवति एतावन्तश्चन्द्रादित्ययोर्गतिपर्याया एकस्मिन्युगे भवन्तीत्यवगतेषु तद्भागेषु संवत्सरादिविभेदेदानीं चन्द्रमा । इहेदानीमादित्य इत्येवम्, चन्द्रादित्यादिगतिविभागज्ञानस्य तिथ्यादिज्ञानोपयोगित्वम् । एतावद्भिर्युगपर्यायैः एतावन्तश्चन्द्रादित्यगतिपर्याया इति च युगपरिवर्त्तपरिमाणद्वारेण चन्द्रादित्यादिगतिविभागो ज्ञायते । एतावन्तो युगपरिवर्त्ता जाता इति ज्ञातेऽस्य युगस्यैतावन्त्यहोरात्राण्यस्यैतावन्तीति समस्तातीताहोरात्रसंख्यानात्म- कमहर्गणं कृत्वाऽस्य ग्रहस्येदानीमीदृशी गतिर्वर्त्तते, अस्येदृशीति ज्ञानं भवतीति युगपरि- वर्त्तपरिमाणज्ञानस्य चन्द्रादित्यादिगतिविभागज्ञानोपयोगित्वम् । यथा दिवसस्याष्टमोऽयं मुहूर्त्तस्तेनास्मिन्मुहूर्त्ते नभोमध्ये सूर्यं इति मुहूर्त्तसंख्यानेनादित्यस्य गतिविशेषज्ञानं भवतीत्यर्थः । यथा च प्रकृतिप्रत्ययादिप्रक्रिया साधुशब्दावधारणे लिङ्गम्, तथात्र गणितम् । तस्य चास्मिन् गणिते सत्यस्मिन्देशे चन्द्रादयो भवन्तीति प्रत्यक्षेणैव केनचिदभियुक्तेन व्याप्तिं गृहीत्वा, अन्यस्मै गणितलिङ्गोपदेशे कृते तस्याप्याप्तोपदेशे कृते तस्याप्याप्तोपदेशाव- गतान्वयस्यानुमाने जाते स्वप्रतिपत्तिवत्परस्यापि प्रतिपत्तिं कर्तुमुपदेश इति सम्प्रदाया- विच्छेदान्न निर्मूलत्वाशङ्केति दर्शयितुमविच्छिन्नेत्युक्तम्, ग्रहसौस्थित्यनिमित्तपूर्वकं तस्य शुभकर्मणः फलविपाकः, ग्रहदौस्थित्यनिमित्तोऽशुभस्य तद्गतशब्देन सौस्थित्यदौःस्थित्यवि- षयतोक्ता, ज्योतिःशास्त्रे ग्रहदौःस्थित्ये शान्तिविधानात्सौस्थित्ये चोपनयनादिविधानात्तस्य च वेदमूलत्वात्कर्मफलविपाकसूचनं वेदमूलमित्यर्थः । ज्योतिःशास्त्रन्याये साधुमुद्रादिष्वतिदिशति—एतेनेति । पूर्वशान्त्यादिविधानद्वारेण वेदमूलत्वमुक्तम् । यद्वा साक्षादेव तत्प्रतिपादका विधयोऽनुमातव्या इत्याह—ईदृशा वेति । गृहसन्निवेशो वास्तुविद्याविषयः । शरीरसन्निवेशः सामुद्रविषयः । आदिशब्दोपात्तानां ग्रहाणां सौस्थि- त्यदौःस्थित्यरूपः सन्निवेशो ज्योतिःशास्त्रविषयः । मीमांसाया धर्मज्ञानप्रयोजनत्वस्य प्रथमसूत्रेणैवोक्तत्वात्तदुपेक्ष्य लोको मूलमित्याह— मीमांसा त्विति । कथं लोकात्प्रवृत्तेत्यपेक्षिते प्रत्यक्षानुमानादिभिरित्युक्तम् प्रत्यक्षादिसिद्धत्वे शास्त्रानर्थक्यमाशङ्कयाविच्छिन्नसम्प्रदायानां पण्डितानां व्यवहारो यैरित्युक्तम् । सम्प्रदाय- विच्छेदस्य प्रयोजनमाह · न हीति । मीमांसामूलप्रयोजने न्यायविस्तरेऽतिदिशति—एतेनेति । ननु प्रत्यक्षादिलक्षणपरस्य न्यायविस्तरस्य कथं धर्मज्ञानप्रयोजनत्वमित्याशङ्क्य वाक्यार्थधंप्रतिपत्त्युपायभूतपदार्थं-