भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 327, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 327

३ ] प्रथमाध्याये तृतीयपादः २७५ तिर्यंग्यवोदराण्यष्टावूर्ध्वा वा व्रीहयस्त्रयः । प्रमाणमङ्गुलस्योक्तं वितस्तिर्द्वादशाङ्गुला ॥ हस्तो वितस्तिद्वितयं दण्डो हस्तचतुष्टयम् । तत्सहस्रद्वयं क्रोशो योजनं तच्चतुष्टयम् ॥ इतिदेशपरिमाणम्, निमेषकाष्ठाकलामुहूर्त्ताहोरात्रमासवर्षभेदेन च कालपरिमाणं लोक- व्यवहारसिद्धयर्थम्, ज्योतिःशास्त्रव्यवहारसिद्धयर्थं च दर्शितपूर्वकम् । चन्द्रसूर्यान्तरालादि- देशपरिमाणम्, युगादिकालपरिमाणं च ज्योतिःशास्त्रव्यवहारसिद्धयर्थं गणितविषयसम्प्रदा- योत्थानुमानपूर्वकमित्याह — देशेति । कलावधर्मभूयिष्ठाः सर्वे भविष्यन्त्यल्पीयसापि धर्मेण भूयानभ्युदयो भविष्यतीत्यादिभविष्यत्कथनस्य प्रयोजनं युगस्वभावनिबन्धनस्य धर्माधर्मा- नुष्ठानवैचित्र्यस्य, फलपाकवैचित्र्यस्य च ज्ञानं तत्कारणत्वेन आ घाता गच्छान् उपबर्बृहि- वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् इत्युत्तरार्द्धर्चः (आ घा ता गच्छान् उत्तरा युगानि इति पदानि घ निश्चितम् । घा इति दीर्घश्छान्दसः । तानि उत्तराणि युगानि आगच्छान् आगमिष्यन्ति । यत्रः जामयः वालिशाः अजामि अतिरिक्तानि शास्त्रविरुद्धानि कर्माणि कृण्वन् करिष्यन्तीति नियमोक्तिः । अत्रेदं निरुक्तम् । आगमिष्यन्ति तान्युत्तराणि युगानि, यत्र जामयः करिष्यन्त्यजामि कर्माणि जाम्यतिरेकनामवालिशस्य वा समानजातीयस्य वोपजन उपधेहि वृषमाय बाहु- मन्यमिच्छस्व सुभगे पतिं मदिति व्याख्यातमित्यादिर्वेदो मूलमित्याह — भविष्यत्कथन मपीति । नित्यवेदविषयत्वाविरोधायानादिकालप्रवृत्तत्वं युगस्वभावस्योक्तम् । शिक्षाद्यङ्गानामुपयोगकथनम् अङ्गानां मूलप्रयोजने विवेचयिष्यत्सामान्यतस्तावद्यथासम्भवं क्रत्वर्थप्रतिपादनं पुरुषार्थ- प्रतिपादनं च प्रयोजनम्, लोको वेदश्च मूलमित्याह — अङ्गेति । शिक्षायां वर्णादिस्वरूप- कथनं लोकमूलं तद्विज्ञानपूर्वकस्य तूच्चारणस्य क्रत्वर्थपुरुषार्थत्वकथनं वेदमूलमित्याह — तत्रेति । अकारादयो वर्णाः । संवृतादीनि करणानि, उदात्तादयः स्वराः । ह्रस्वादयः कालाः । कण्ठादिस्थानान्यादिशब्देनोक्तानि । कल्पेषु सूत्रेषु च क्रत्वर्थपुरुषार्थाङ्गप्रधानप्रतिपादनं प्रयोजनम्, वेदश्च मूलमित्याह — कल्पेति । अर्थवादमन्त्रमिश्राणां विधीनामुपसंहारो-विविक्तीकरणम् । शाखान्तरविप्रकीर्णाना- नामेकत्र सन्निवेशः । न्यायलभ्यानां तात्पर्यनिर्णयः तत्तद्विधिरूपमित्यर्थः । ये तु कल्पसूत्रे- ष्वर्त्विगादीनां को यज्ञ इति प्रश्नोत्तरादिव्यवहाराः तेषामनुष्ठानसौकर्यादिमुखं प्रयोजनं दक्षिणा प्रश्नोत्तरादिव्यवहाराणां चार्थः प्रयोजनं लोकश्चोभयत्र मूलमित्याह — लोकेति । व्याकरणे शब्दान्वाख्यानं लोकमूलं साध्वसाधुप्रयोगस्त्विष्टानिष्टहेतुत्वकथनं वेदमूल मित्याह — व्याकरणेऽपीति । निगमनिरुक्तयोर्लोकमूलपदार्थज्ञानप्रयोजनत्वस्य स्पष्टत्वादनु- पन्यासः । छन्दोविचित्याङ्गायेत्यादिविवेककथनं लोकवेदमूलम्, तद्विज्ञानपूर्वकस्य क्रत्वर्थपुरु- षार्थत्वकथनं वेदमूलमित्याह-छन्दोविचित्यामपीति । प्रत्यक्षा चासौ श्रुतिरित्याह-तथा चेति ।

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित) · पृष्ठ 327, कुल 804 में से · BharatKosha