मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 326, कुल 804 में से
संदर्भ में पढ़ें२७४ मीमांसादर्शनम् [ सू० भावात्सकृदनुष्ठानेन शास्त्रार्थसिद्धेरनावृत्तिप्राप्तौ, वक्ष्यते आचारानुमितस्य विधेरधिकारि- विशेषणापेक्षायामावश्यकत्वोपपत्तये गुरुगमनस्य निमित्तत्वेनाधिकारिविशेषणत्वाव- सायाद् भेदेन होमादिवन्नैमित्तिकत्वाद् गुर्वनुगमनस्याप्यावृत्तिः सिद्धा । कथं तर्हि दृष्टार्थत्वादेवेत्येवकारः अत आह—यस्त्विति । तथा चेति गुर्वनुगमनलिङ्गदर्शनभाष्यं तावदतिक्रम्य प्रपा इति भाष्यं न धर्मयेत्यदृष्टार्थत्वनिषेधेन प्रपादेर्गुर्वनुगमनादिवत् केवल- दृष्टार्थत्वप्रतिपादकत्वेन बुद्धिसत्त्वाद्व्याचष्टे—सर्भेति । प्रपादिष्वपि स्मृत्यनुरूपानकश्रुति- कल्पनौचित्यात् पूर्वंभाष्यपदस्याप्यतिशयार्थत्वसूचनार्थं — यद्यपीत्युक्तम् । परोपकारश्रुतेः सर्वसाधारण्यप्रदर्शनार्थं समस्तग्रहणम् । अतिक्रान्तलिङ्गदर्शनं व्याचष्टे—तस्मादिति । प्रपालिङ्गमपि स्तुतिपरं मन्त्रावयवं व्याचष्टे—यथेति । 'स्थल्योदकम्परिगृह्णन्ती'ति जान- पदकुण्डगोणस्थलेत्यादिसूत्रेणाकृत्रिमे स्थले ङीष्प्रत्ययविधानात्कृत्रिमे टाप्प्रत्ययानपवादप्रतीतेः स्थलाद्भाष्ट्रस्य कृत्रिमतीरवाचित्वात्तडागलिङ्गं स्पष्टत्वान्न व्याख्यातम् । शिखाकर्मणो दृष्टार्थत्वप्रतिपादकं गोत्रचिह्नमपि भाष्यमतिशयार्थमेवेति व्याचष्टे— गोत्रेति । चतुरवत्तस्य सामान्येन विहितस्य पञ्चावत्तं भृगूणामित्यपवादाच्चतुरपञ्चावत्तविभागं कर्माङ्गम् । वशिष्ठशुनकात्रिवाभ्रघवश्वानां नाराशंसो द्वितीयः प्रयाजः तनूनपादन्येषामिति [आप० श्रौ० सू०] द्वितीयप्रयाजविभागः तामिर्यंन्थर्ष्याणीत्यादित्याप्रासूक्तविभागश्चादि- शब्दोपात्तः । तदुपयोगित्वादौपचारिकी गोत्रस्य कर्माङ्गभूततोक्ता । तस्याश्चार्षसंख्याशिखा- विधानाच्छिखाकत्वस्त्रिशिखपञ्चशिखत्वादिरूपश्चिह्नमिति दर्शनं चेति भाष्यं कुमारा विशिखा नानाशिखत्वद्योतकशिखाकर्मलिङ्गदर्शनप्रतिपादनाथंतया स्पष्टत्वान्न व्याख्यातम् । तेनेत्युपसंहारभाष्यस्य तात्पर्यं व्याचष्टे—तेनेति । यद्यप्यत्र वेदमूलतया स्मृतीनां धर्मप्रामाण्यं प्रतिपाद्यम्, तथाप्यर्थकामविषयासु प्रमाणान्तरमूलत्वेन प्रामाण्योपपत्तेस्तत्प्रणेतॄणामाप्तत्वाव- धारणाददृष्टविषयासु वेदमूलत्वं सुकल्प्यमिति दर्शयितुं सामान्यतः प्रयोजनत्वाभिधानम् । अदृष्टार्थस्मृतिप्रामाण्यं प्राधान्येनेह प्रतिपाद्यमिति सूचयितुं व्युत्क्रमेण विवेककथनम् । धर्म- विशेषस्यापि मोक्षस्य ब्राह्मणपरिव्राजकवद्भेदैनोपादानम् । भाष्ये तु कर्मव्युत्पत्त्या पदार्थ- प्रामाण्याभिधानम् । अनेन च भाष्येण वेदातिरिक्तसकलविद्यास्थानप्रतिपाद्यानां पदार्थानां दृष्टादृष्टप्रयोजन- भेदेन मूलविवेककथनं कृतमिति दर्शयितुं पुराणेतिहासगतेषु दृष्टादृष्टोपदेशवाक्येषु तावद्धर्म- शास्त्रोक्तं विवेकमतिदिशति — तथैवेति । ननूपाख्यानासत्यत्वेनेतिहासपुराणप्रणेतॄणाम- नाप्तत्वावसायात्तत्क्रमत्रोपदेशवाक्यानां मूलप्रमाणकल्पनमित्याशङ्कयाह — उपाख्यानानि स्त्विति । तेषामप्यर्थवादन्यायेन प्रयोजनत्वं प्रामाण्यं चोक्तमित्यर्थः । पृथिवीविभागकथनस्य कथं प्रयोजनत्वप्रामाण्ययोः सिद्धिरित्यपेक्षायाह—यस्त्विति । धर्माधर्मसाधनप्रदेशो जम्बूद्वीपस्य मारतवर्षम् । तत्कथनं दर्शनपूर्वकं तदतिरिक्तफलोपभोग- प्रदेशकथनम् । भारतवर्षस्य च धर्माधर्मसाधनत्वं वेदमूलम् । वंशानुक्रमणस्य प्रयोजनं मूलं चाह — वंशेति ।