मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 333, कुल 804 में से
संदर्भ में पढ़ें३ ] प्रथमा॑ध्याये तृतीयपादः २८१ अशक्यत्वादव्यामोह इत्यवगम्यते । कथमशक्यता ? स्पर्शविधानान्न सर्वा शक्या वेष्टितुं उद्गायता स्प्रष्टुं च । तामुद्गायता स्प्रष्टव्यामवगच्छन्तः केनेमं संप्रत्ययं बाधेमहि ? सर्ववेष्टनस्मरणेनेति ब्रूमः । ननु निर्मूलत्वाद्व्यामोहस्तत्स्मरणमिति वैदिकं वचनं मूलं भविष्यतीति । भवेद्वैदिकं वचनं मूलम्, यदि स्पर्शनं व्यामोहः । अव्यामोहे त्वशक्यत्वादनुपपन्नम् । यथाऽनुभवनमनुपपन्नमिति न कल्प्यते, तथा वैदिकमपि वचनम् । कथं तर्हि सर्ववेष्टनस्मरणम् ? व्यामोहः । कथं व्यामोहकल्पना ? श्रौतविज्ञानविरोधात् । अथ किमर्थं नेमौ विधी विकल्प्येते, व्रीहियववद्बृहद्रथन्तरवद्वा ? न नासति व्यामोहविज्ञाने विकल्पो भवति, यदि सर्ववेष्टनविज्ञानं प्रमाणम्, स्पर्शनं व्यामोहः । यदि स्पर्शनं प्रमाणम्, स्मृतिर्व्यामोहः । विकल्पं तु वदन्स्पर्शनस्य पक्षे तावत्प्रा- माण्यमनुमन्यते । तस्य च मूलं श्रुतिः । सा चेत्प्रमाणमनुमता, न पाक्षिकी । पाक्षिकं च सर्ववेष्टनस्मरणं पक्षे तावन्न शक्नोति श्रुतिं परिकल्पयितुम् । स्पर्शविज्ञानेन बाधितत्वात् । ततश्चाव्यामोहे च तस्मिन्नशक्या श्रुतिः कल्प- यितुम् । न चासावव्यामोहः पक्षे, पक्षे व्यामोहो भविष्यतीति । यदेव हि तस्यै- कस्मिन्पक्षे मूलम्, तदेवेतरस्मिन्नपि । एकस्मिंश्चेत्पक्षे न व्यामोहः, श्रुतिप्रामाण्यतुल्यत्वादितरत्राप्यव्यामोहः । न चासावेकस्मिन्पक्षे श्रुतिः, निबद्धाक्षरा हि सा, न प्रमादपाठ इति शक्या गदितुम् । तेन नैतत्पक्षे विज्ञानं व्यामोहात्पक्षान्तरं संक्रान्तमित्यवगम्यते । तत्र दुःश्रुतस्वप्नादिविज्ञानं मूलत्वं तु सर्ववेष्टनस्येति विरोधात्कल्प्यते । न हि तस्य सति विरोधे प्रामाण्यमभ्युपगन्तव्यमिति किंचिदस्ति प्रमाणम् । तस्माद्यथैवै- कस्मिन्पक्षे न शक्या श्रुतिः कल्पयितुमेवमपरस्मिन्पक्षे तुल्यकारणत्वात् । अपि चेतरेतराश्रयेऽन्यतः परिच्छेदात् । केयमितरेतराश्रयता ? प्रमाणायां स्मृतौ स्पर्शनं व्यामोहः, स्पर्शनं प्रमाणे, स्मृतिर्व्यामोहः । तदेतदितरेतराश्रयं भवति । तत्र स्पर्शनस्य क्लृप्तं मूलम्, कल्प्यं स्मृतेः । सोऽसावन्यतः परिच्छेदः । कल्प्यमूलत्वात्स्मृतिप्रामाण्यमनवकॢप्तम् । तदप्रामाण्यात्स्पर्शनं न व्यामोहः । तदव्यामोहात्स्मार्तश्रुतिकल्पनाऽनुपपन्ना, प्रमाणाभावात् । नन्वेवं सति व्रीहिसाधनत्वविज्ञानस्याप्यव्यामोहाद् यवश्रुतिर्नोपपद्येत । सत्यं नोपपद्यते, यद्यप्रत्यक्षा स्यात् । प्रत्यक्षा त्वेषा । न हि प्रत्यक्षमनुपपन्नं नामास्ति, द्वयोस्तु श्रुत्योर्भावात् । द्वे ह्येते वाक्ये । तत्रैकेन केवलयवसाधनता गम्यते, एकेन केवलव्रीहिसाधनता । न च वाक्येनावगतोऽर्थोऽपह्नूयते । तस्माद्व्रीहियवयोरुप- पन्नो विकल्पो बृहद्रथंतरयोश्च । तस्मादुक्तं श्रुतिविरुद्धा स्मृतिरप्रमाणमिति । अतश्च सर्ववेष्टनादि नाऽऽदरणीयम् ॥ ३ ॥ श्रुतिप्राबल्याधिकरणम् । इति भाष्यमत्तेन विरोधाधिकरणम्