मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 335, कुल 804 में से
संदर्भ में पढ़ें३ ] प्रथमाध्याये तृतीयपादः २८३ एकमूलव्यवस्थायां मूलान्तरनिराक्रिया । अप्रामाण्यनिवृत्त्यर्थं शक्या न तदुपेक्षणे ॥ २७ किं च—परस्परविरुद्धत्वं श्रुतीनां न भवेद्यदि । स्मृतेःश्रुतिविरुद्धायास्ततो मूलान्तरं भवेत् ॥ २८ यदा तूदितानुदिताग्निहोत्रहोमविविधवदतिरात्रगतषोडशिग्रहणवच्च सहस्रशः श्रुतयोऽप्यसंभववद्युगपदनुष्ठानार्थतया परस्परविरुद्धा दृश्यन्ते तदा यदि नाम कासांचित्स्मृतीनां स्ववेदशाखागतवचनविपरीतार्थशाखान्तरवचनमूलानामधीत- वाक्यविरोधो दृश्यतेऽस्तस्तावत्तैव सर्वशाखाप्रत्ययकर्मव्यवहारिणां स्वयमश्रुतान- धीतत्वमात्रेण दृढस्मरणोपस्थापितपुरुषान्तरस्थश्रुतिनिराकरणं न शोभते चैकं प्रतिशिष्यत इति हि सर्वश्रुतीनां सर्वपुरुषान्प्रति प्रामाण्यादध्ययनवच्च स्मृतेरपि श्रुतिधारणसामर्थ्यात् । तस्माद्यथा विरोधेऽपि पठ्यमानप्रमाणता । पठितस्मर्यमाणानां तथैवेत्यवधार्यताम् ॥ २९ किं च— अविरोधे श्रुतिमूलं न मूलान्तरसंभवः । विरोधे त्वन्यमूलत्वमिति स्यादर्थवैशसम् ॥ ३० मूलान्तरं निरस्तं च सामान्येनैव यत्पुरा । तदनुप्राप्यते पश्चाद्विरोधे नेत्यतिक्रिया ॥ ३१ तेनाऽऽसां श्रुतिमूलत्वं सर्वदैव व्यवस्थितम् । मूलान्तरप्रवेशे वा किं तत्प्रामाण्यतृष्णया ॥ ३२ किं च भ्रान्त्यादिमूलानां संभवासंभवाश्रयः । स्मृतीः प्रति विरुद्धोऽयं बाधपक्षो न युज्यते ॥ ३३ तेनाऽऽसां यदि वा नैव क्वचिदस्ति प्रमाणता । सर्वत्राव्याहता वा स्यान्न त्वर्धजरतीयता ॥ ३४ विरुद्धत्वं च जानन्ति स्मर्तारस्ताः स्मरन्ति यत् । वेदमूलबलं त्यक्त्वा किमन्यत्तत्र कारणम् ॥ ३५ गृह्यमाणनिमित्तत्वाद्यद्युच्येताप्रमाणता । उत्प्रेक्षणीयहेतुत्वात्सा सर्वत्र प्रसज्यते ॥ ३६ रागद्वेषमदोन्मादप्रमादालस्यलुब्धताः । क्व वा नोत्प्रेक्षितुं शक्याः स्मृत्यप्रामाण्यहेतवः ॥ ३७ अदुष्टेन हि चित्तेन सुलभा साधुमूलता । दुष्टमूलत्वलाभस्तु भवत्याशयदोषतः ॥ ३८