मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 336, कुल 804 में से
संदर्भ में पढ़ें१८४ मीमांसादर्शनम् [ सू० का वा धर्मक्रिया यस्यां दृष्टो हेतुर्न युज्यते । कथंचिद्वा विरुद्धत्वं प्रत्यक्षश्रुतिभिः सह ॥ ३९ लोकायतिकमूर्खाणां नैवान्यत्कर्म विद्यते । यावत्किंचिददृष्टार्थं तद्दृष्टार्थं हि कुर्वते ॥ ४० वैदिकान्यपि कर्माणि दृष्टार्थान्येव ते विदुः । अल्पेनापि निमित्तेन विरोधं योजयन्ति च ॥ ४१ तेभ्यश्चेत्प्रसरो नाम दत्तो मीमांसकैः क्वचित् । न च कंचन मुञ्चेयुर्धर्ममार्गं हि ते तदा ॥ ४२ प्रसरं न लभन्ते हि यावत्क्वचन मर्कटाः । नाभिद्रवन्ति ते तावत्पिशाचा वा स्वगोचरे ॥ ४३ क्वचिद् दत्तेऽवकाशे हि स्वोत्प्रेक्षालब्धधामभिः । जीवितुं लभते कस्तैस्तन्मार्गपतितः स्वयम् ॥ ४४ तस्माल्लोकायतस्थानां धर्मनाशनशालिनाम् । एवं मीमांसकैः कार्यं न मनोरथपूरणम् ॥ ४५ यच्चाऽऽदौ श्रद्धया सिद्धं पुनर्न्यायेन साधितम् । आज्ञासिद्धप्रमाणत्वं पुराणादिचतुष्टयम् ॥ ४६ तत्तथैवानुमन्तव्यं कर्तव्यं नान्तरा श्लथम् । सर्वं श्लथयतः सीदेद् दुर्नद्धशकटादिवत् ॥ ४७ पक्षो योऽङ्गीकृतो येन तमत्रस्यन्स निर्वहेत् । हारयेदन्तरा त्रस्यन्भीतोपद्रवकारिभः ॥ ४८ वेदश्च यदि दृष्टार्थं श्रूयमाणविरोधि वा । न विदध्यात्ततस्तादृक्स्मृतिस्तन्मूलतां त्यजेत् ॥ ४९ यदा तु हन्तिपिष्यादिकर्म दृष्टं सहस्रशः । दृष्टार्थं विहितं वेदे तदा किं हेतुदर्शनैः ॥ ५० ऋत्विग्भ्यो दक्षिणादानं तानूनप्त्रादिकर्म च । यदृर्त्विग्यजमानानां दृष्टार्थं सर्वमिष्यते ॥ ५१ तद्यद्यवैदिकं तादृक्स्यात्ततोऽन्यदवैदिकम् । यदा चैवंविधान्येव वेदे कर्माणि सन्ति नः ॥ ५२ तदा किं नाम दृष्टार्थं बुद्ध्या सिध्येदवैदिकम् । तेनाऽऽदावेव या क्लृप्ता स्मार्तानां वेदमूलता ॥ ५३ निर्वोढव्येह सैकान्तात्किमिदं खिद्यतेऽधुना । तस्माद्वेदविरुद्धानां दृष्टार्थानां च हेतुभिः ॥ ५४ स्मृतीनां न प्रमाणत्वं विहन्तव्यं मनागपि । अवशिष्टं प्रमाणत्वं सर्वासां प्राप्तमीदृशम् ॥ ५५